अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिका वल्लभं
जानकीनायकं रामचंद्रं भजे ॥ 1 ॥
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिका राधितम् ।
इंदिरामंदिरं चेतसा सुंदरं
देवकीनंदनं नंदजं संदधे ॥ 2 ॥
विष्णवे जिष्णवे शंकने चक्रिणे
रुक्मिणी रागिणे जानकी जानये ।
वल्लवी वल्लभायार्चिता यात्मने
कंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥
कृष्ण गोविंद हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानंत हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥
राक्षस क्षोभितः सीतया शोभितो
दंडकारण्यभू पुण्यताकारणः ।
लक्ष्मणोनान्वितो वानरैः सेवितो
अगस्त्य संपूजितो राघवः पातु माम् ॥ 5 ॥
धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां
केशिहा कंसहृद्वण्शिकावादकः ।
पूतनाकोपकः सूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥ 6 ॥
विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडंभोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ 7॥
कुंचितैः कुंतलै भ्राजमानाननं
रत्नमौलिं लसत्-कुंडलं गंडयोः ।
हारकेयूरकं कंकण प्रोज्ज्वलं
किंकिणी मंजुलं श्यामलं तं भजे ॥ 8 ॥
अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुंदरं कर्तृ विश्वंभरः
तस्य वश्यो हरि र्जायते सत्वरम् ॥
॥ इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥