अष्टावक्र उवाच ॥
कृताकृते च द्वंद्वानि कदा शांतानि कस्य वा ।
एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती ॥ 9-1॥
कस्यापि तात धन्यस्य लोकचेष्टावलोकनात् ।
जीवितेच्छा बुभुक्षा च बुभुत्सोपशमं गताः ॥ 9-2॥
अनित्यं सर्वमेवेदं तापत्रितयदूषितम् ।
असारं निंदितं हेयमिति निश्चित्य शाम्यति ॥ 9-3॥
कोऽसौ कालो वयः किं वा यत्र द्वंद्वानि नो नृणाम् ।
तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात् ॥ 9-4॥
नाना मतं महर्षीणां साधूनां योगिनां तथा ।
दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः ॥ 9-5॥
कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः ।
निर्वेदसमतायुक्त्या यस्तारयति संसृतेः ॥ 9-6॥
पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः ।
तत्क्षणाद् बंधनिर्मुक्तः स्वरूपस्थो भविष्यसि ॥ 9-7॥
वासना एव संसार इति सर्वा विमुंच ताः ।
तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा ॥ 9-8॥