अष्टावक्र उवाच ॥
यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् ।
आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति ॥ 15-1॥
मोक्षो विषयवैरस्यं बंधो वैषयिको रसः ।
एतावदेव विज्ञानं यथेच्छसि तथा कुरु ॥ 15-2॥
वाग्मिप्राज्ञामहोद्योगं जनं मूकजडालसम् ।
करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः ॥ 15-3॥
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् ।
चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ॥ 15-4॥
रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन ।
निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर ॥ 15-5॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव ॥ 15-6॥
विश्वं स्फुरति यत्रेदं तरंगा इव सागरे ।
तत्त्वमेव न संदेहश्चिन्मूर्ते विज्वरो भव ॥ 15-7॥
श्रद्धस्व तात श्रद्धस्व नात्र मोहं कुरुष्व भोः ।
ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः ॥ 15-8॥
गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च ।
आत्मा न गंता नागंता किमेनमनुशोचसि ॥ 15-9॥
देहस्तिष्ठतु कल्पांतं गच्छत्वद्यैव वा पुनः ।
क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः ॥ 15-10॥
त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः ।
उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः ॥ 15-11॥
तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् ।
अतः कस्य कथं कुत्र हेयोपादेयकल्पना ॥ 15-12॥
एकस्मिन्नव्यये शांते चिदाकाशेऽमले त्वयि ।
कुतो जन्म कुतो कर्म कुतोऽहंकार एव च ॥ 15-13॥
यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे ।
किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम् ॥ 15-14॥
अयं सोऽहमयं नाहं विभागमिति संत्यज ।
सर्वमात्मेति निश्चित्य निःसंकल्पः सुखी भव ॥ 15-15॥
तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः ।
त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन ॥ 15-16॥
भ्रांतिमात्रमिदं विश्वं न किंचिदिति निश्चयी ।
निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ॥ 15-17॥
एक एव भवांभोधावासीदस्ति भविष्यति ।
न ते बंधोऽस्ति मोक्षो वा कृतकृत्यः सुखं चर ॥ 15-18॥
मा संकल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय ।
उपशाम्य सुखं तिष्ठ स्वात्मन्यानंदविग्रहे ॥ 15-19॥
त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय ।
आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ॥ 15-20॥