ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमिं᳚द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥1॥
अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भगम्᳚ ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ये॑ 3 यज॑मानाय सुन्व॒ते ॥2॥
अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् ।
तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भू~र्या᳚वे॒शयंती᳚म् ॥3॥
मया॒ सो अन्न॑मत्ति यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् ।
अ॒मं॒त॒वो॒मांत उप॑क्षियंति॒ श्रु॒धि श्रु॑तं श्रद्धि॒वं ते᳚ वदामि ॥4॥
अ॒हमे॒व स्व॒यमि॒दं-वँदा॑मि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥5॥
अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे हंत॒ वा उ॑ ।
अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी आवि॑वेश ॥6॥
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्वं॒तः स॑मु॒द्रे ।
ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां-वँ॒र्ष्मणोप॑ स्पृशामि ॥7॥
अ॒हमे॒व वात॑ इव॒ प्रवा᳚म्या॒-रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ ।
प॒रो दि॒वापर॒ ए॒ना पृ॑थि॒व्यै-ताव॑ती महि॒ना संब॑भूव ॥8॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
॥ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥
॥तत् सत् ॥