गरलं तरलानलं पुरस्ता-
ज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवादमोदनिघ्नो
गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥
विमथत्सु सुरासुरेषु जाता
सुरभिस्तामृषिषु न्यधास्त्रिधामन् ।
हयरत्नमभूदथेभरत्नं
द्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥
जगदीश भवत्परा तदानीं
कमनीया कमला बभूव देवी ।
अमलामवलोक्य यां विलोलः
सकलोऽपि स्पृहयांबभूव लोकः ॥3॥
त्वयि दत्तहृदे तदैव देव्यै
त्रिदशेंद्रो मणिपीठिकां व्यतारीत् ।
सकलोपहृताभिषेचनीयैः
ऋषयस्तां श्रुतिगीर्भिरभ्यषिंचन् ॥4॥
अभिषेकजलानुपातिमुग्ध-
त्वदपांगैरवभूषितांगवल्लीम् ।
मणिकुंडलपीतचेलहार-
प्रमुखैस्ताममरादयोऽन्वभूषन् ॥5॥
वरणस्रजमात्तभृंगनादां
दधती सा कुचकुंभमंदयाना ।
पदशिंजितमंजुनूपुरा त्वां
कलितव्रीलविलासमाससाद ॥6॥
गिरिशद्रुहिणादिसर्वदेवान्
गुणभाजोऽप्यविमुक्तदोषलेशान् ।
अवमृश्य सदैव सर्वरम्ये
निहिता त्वय्यनयाऽपि दिव्यमाला ॥7॥
उरसा तरसा ममानिथैनां
भुवनानां जननीमनन्यभावाम् ।
त्वदुरोविलसत्तदीक्षणश्री-
परिवृष्ट्या परिपुष्टमास विश्वम् ॥8॥
अतिमोहनविभ्रमा तदानीं
मदयंती खलु वारुणी निरागात् ।
तमसः पदवीमदास्त्वमेना-
मतिसम्माननया महासुरेभ्यः ॥9॥
तरुणांबुदसुंदरस्तदा त्वं
ननु धन्वंतरिरुत्थितोऽंबुराशेः ।
अमृतं कलशे वहन् कराभ्या-
मखिलार्तिं हर मारुतालयेश ॥10॥