(ऋ.1.10.15.1)

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒-यँ ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥ 01

इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥ 02

आहं पि॒तॄन्सु॑वि॒दत्रां॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ ।
ब॒र्​हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भजं॑त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥ 03

बर्​हि॑षदः पितर ऊ॒त्य(1॒॑ )र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ नः॒ शं-योँर॑र॒पो द॑धात ॥ 04

उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्​हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आ ग॑मंतु॒ त इ॒ह श्रु॑वं॒त्वधि॑ ब्रुवंतु॒ ते॑ऽवंत्व॒स्मान् ॥ 05

आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं-यँ॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ ।
मा हिं॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ॥ 06

आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥ 07

ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं-वँसि॑ष्ठाः ।
तेभि॑र्य॒मः सं॑ररा॒णो ह॒वीं‍ष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥ 08

ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः ।
आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्‍ स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥ 09

ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इंद्रे॑ण दे॒वैः स॒रथं॒ दधा॑नाः ।
आग्ने॑ याहि स॒हस्रं॑ देववं॒दैः परैः॒ पूर्वैः॑ पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥ 10

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्​हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥ 11

त्वम॑ग्न ईलि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥ 12

ये चे॒ह पि॒तरो॒ ये च॒ नेह यां‍श्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।
त्वं-वेँ॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥ 13

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दयं॑ते ।
तेभिः॑ स्व॒रालसु॑नीतिमे॒तां-यँ॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥ 14

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ।