सत्याचार्यस्य गमने कदाचिन्मुक्ति दायकम् ।
काशीक्शेत्रं प्रति सह गौर्या मार्गे तु शंकरम् ॥ (अनुष्टुप्)

अंत्यवेषधरं दृष्ट्वा गच्छ गच्छेति चाब्रवीत् ।
शंकरःसोऽपि चांडलस्तं पुनः प्राह शंकरम् ॥ (अनुष्टुप्)

अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् ।
यतिवर दूरीकर्तुं वांछसि किं ब्रूहि गच्छ गच्छेति ॥ (आर्या वृत्त)

प्रत्यग्वस्तुनि निस्तरंगसहजानंदावबोधांबुधौ
विप्रोऽयं श्वपचोऽयमित्यपि महान्कोऽयं विभेदभ्रमः ।
किं गंगांबुनि बिंबितेऽंबरमणौ चांडालवीथीपयः
पूरे वाऽंतरमस्ति कांचनघटीमृत्कुंभयोर्वाऽंबरे ॥ (शार्दूल विक्रीडित)

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृंभते
या ब्रह्मादिपिपीलिकांततनुषु प्रोता जगत्साक्षिणी ।
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे-
च्चांडालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ 1॥

ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चांडालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ 2॥

शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो-
र्नित्यं ब्रह्म निरंतरं विमृशता निर्व्याजशांतात्मना ।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ 3॥

या तिर्यङ्नरदेवताभिरहमित्यंतः स्फुटा गृह्यते
यद्भासा हृदयाक्षदेहविषया भांति स्वतोऽचेतनाः ।
तां भास्यैः पिहितार्कमंडलनिभां स्फूर्तिं सदा भावय-
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ 4॥

यत्सौख्यांबुधिलेशलेशत इमे शक्रादयो निर्वृता
यच्चित्ते नितरां प्रशांतकलने लब्ध्वा मुनिर्निर्वृतः ।
यस्मिन्नित्यसुखांबुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद्
यः कश्चित्स सुरेंद्रवंदितपदो नूनं मनीषा मम ॥ 5॥

दासस्तेऽहं देहदृष्ट्याऽस्मि शंभो
जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे ।
सर्वस्याऽऽत्मन्नात्मदृष्ट्या त्वमेवे-
त्येवं मे धीर्निश्चिता सर्वशास्त्रैः ॥

॥ इति श्रीमच्छंकरभगवतः कृतौ मनीषापंचकं संपूर्णम् ॥