॥ द्वितीय मुंडके द्वितीयः खंडः ॥
आविः संनिहितं गुहाचरं नाम
महत्पदमत्रैतत् समर्पितम् ।
एजत्प्राणन्निमिषच्च यदेतज्जानथ
सदसद्वरेण्यं परं-विँज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ 1॥
यदर्चिमद्यदणुभ्योऽणु च
यस्मिँल्लोका निहिता लोकिनश्च ।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः
तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ 2॥
धनुर् गृहीत्वौपनिषदं महास्त्रं
शरं ह्युपासा निशितं संधयीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ 3॥
प्रणवो धनुः शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ 4॥
यस्मिन् द्यौः पृथिवी चांतरिक्षमोतं
मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथ आत्मानमन्या वाचो
विमुंचथामृतस्यैष सेतुः ॥ 5॥
अरा इव रथनाभौ संहता यत्र नाड्यः ।
स एषोऽंतश्चरते बहुधा जायमानः ।
ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः
पाराय तमसः परस्तात् ॥ 6॥
यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥
मनोमयः प्राणशरीरनेता
प्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।
तद् विज्ञानेन परिपश्यंति धीरा
आनंदरूपममृतं-यँद् विभाति ॥ 7॥
भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः ।
क्षीयंते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ 8॥
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषं ज्योतिस्तद् यदात्मविदो विदुः ॥ 9॥
न तत्र सूर्यो भाति न चंद्रतारकं
नेमा विद्युतो भांति कुतोऽयमग्निः ।
तमेव भांतमनुभाति सर्वं
तस्य भासा सर्वमिदं-विँभाति ॥ 10॥
ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं-विँश्वमिदं-वँरिष्ठम् ॥ 11॥
॥ इति मुंडकोपनिषदि द्वितीयमुंडके द्वितीयः खंडः ॥