यत्सेवनेन पितृमातृसहोदराणां
चित्तं न मोहमहिमा मलिनं करोति ।
इत्थं समीक्ष्य तव भक्तजनान्मुरारे
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 1 ॥
ये ये विलग्नमनसः सुखमाप्तुकामाः
ते ते भवंति जगदुद्भवमोहशून्याः ।
दृष्ट्वा विनष्टधनधान्यगृहान्मुरारे
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 2 ॥
वस्त्राणि दिग्वलयमावसतिः श्मशाने
पात्रं कपालमपि मुंडविभूषणानि ।
रुद्रे प्रसादमचलं तव वीक्ष्य शौरे
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 3 ॥
यत्कीर्तिगायनपरस्य विधातृसूनोः
कौपीनमैणमजिनं विपुलां विभूतिम् ।
स्वस्यार्थ दिग्भ्रमणमीक्ष्य तु सार्वकालं
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 4 ॥
यद्वीक्षणे धृतधियामशनं फलादि
वासोऽपि निर्जिनवने गिरिकंदरासु ।
वासांसि वल्कलमयानि विलोक्य चैवं
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 5 ॥
स्तोत्रं पादांबुजस्यैतच्छ्रीशस्य विजितेंद्रियः ।
पठित्वा तत्पदं याति श्लोकार्थज्ञस्तु यो नरः ॥ 6 ॥
इति मुरारि पंचरत्नम् ।