स्फुरत्सहस्रारशिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषां प्राणविनाशि विष्णोः
चक्रं सदाऽहं शरणं प्रपद्ये ॥ 1 ॥
विष्णोर्मुखोत्थानिलपूरितस्य
यस्य ध्वनिर्दानवदर्पहंता ।
तं पांचजन्यं शशिकोटिशुभ्रं
शंखं सदाऽहं शरणं प्रपद्ये ॥ 2 ॥
हिरण्मयीं मेरुसमानसारां
कौमोदकीं दैत्यकुलैकहंत्रीम् ।
वैकुंठवामाग्रकराग्रमृष्टां
गदां सदाऽहं शरणं प्रपद्ये ॥ 3 ॥
यज्ज्यानिनादश्रवणात्सुराणां
चेतांसि निर्मुक्तभयानि सद्यः ।
भवंति दैत्याशनिबाणवर्षैः
शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ 4 ॥
रक्षोऽसुराणां कठिनोग्रकंठ-
-च्छेदक्षरत्क्षोणित दिग्धसारम् ।
तं नंदकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये ॥ 5 ॥
इमं हरेः पंचमहायुधानां
स्तवं पठेद्योऽनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यंति सुखानि संति ॥ 6 ॥
वने रणे शत्रु जलाग्निमध्ये
यदृच्छयापत्सु महाभयेषु ।
पठेत्विदं स्तोत्रमनाकुलात्मा
सुखीभवेत्तत्कृत सर्वरक्षः ॥ 7 ॥
यच्चक्रशंखं गदखड्गशारंगिणं
पीतांबरं कौस्तुभवत्सलांछितम् ।
श्रियासमेतोज्ज्वलशोभितांगं
विष्णुं सदाऽहं शरणं प्रपद्ये ॥
जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥
इति पंचायुध स्तोत्रम् ॥