॥ द्वादश स्तोत्राणि॥
अथ प्रथमस्तोत्रम्
वंदे वंद्यं सदानंदं वासुदेवं निरंजनम् ।
इंदिरापतिमाद्यादि वरदेश वरप्रदम् ॥ 1॥
नमामि निखिलाधीश किरीटाघृष्टपीठवत् ।
हृत्तमः शमनेऽर्काभं श्रीपतेः पादपंकजम् ॥ 2॥
जांबूनदांबराधारं नितंबं चिंत्यमीशितुः ।
स्वर्णमंजीरसंवीतं आरूढं जगदंबया ॥ 3॥
उदरं चिंत्यं ईशस्य तनुत्वेऽपि अखिलंभरम् ।
वलित्रयांकितं नित्यं आरूढं श्रियैकया ॥ 4॥
स्मरणीयमुरो विष्णोः इंदिरावासमुत्तमैः । वर्
इंदिरावासमीशितुः इंदिरावासमुत्तमम्
अनंतं अंतवदिव भुजयोरंतरंगतम् ॥ 5॥
शंखचक्रगदापद्मधराश्चिंत्या हरेर्भुजाः ।
पीनवृत्ता जगद्रक्षा केवलोद्योगिनोऽनिशम् ॥ 6॥
संततं चिंतयेत्कंठं भास्वत्कौस्तुभभासकम् ।
वैकुंठस्याखिला वेदा उद्गीर्यंतेऽनिशं यतः ॥ 7॥
स्मरेत यामिनीनाथ सहस्रामितकांतिमत् ।
भवतापापनोदीड्यं श्रीपतेः मुखपंकजम् ॥ 8॥
पूर्णानन्यसुखोद्भासिं अंदस्मितमधीशितुः ।
गोविंदस्य सदा चिंत्यं नित्यानंदपदप्रदम् ॥ 9॥
स्मरामि भवसंताप हानिदामृतसागरम् ।
पूर्णानंदस्य रामस्य सानुरागावलोकनम् ॥ 10॥
ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।
भ्रूभंगं पारमेष्ठ्यादि पददायि विमुक्तिदम् ॥ 11॥
संततं चिंतयेऽनंतं अंतकाले । (अंत्यकाले विशेषतः)
नैवोदापुः गृणंतोऽंतं यद्गुणानां अजादयः ॥ 12॥
इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु प्रथमस्तोत्रं संपूर्णम्