नारायणीयं दशक 38
आनंदरूप भगवन्नयि तेऽवतारेप्राप्ते प्रदीप्तभवदंगनिरीयमाणैः ।कांतिव्रजैरिव घनाघनमंडलैर्द्या-मावृण्वती विरुरुचे किल वर्षवेला ॥1॥ आशासु शीतलतरासु पयोदतोयै-राशासिताप्तिविवशेषु च सज्जनेषु ।नैशाकरोदयविधौ निशि मध्यमायांक्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥2॥ बाल्यस्पृशाऽपि वपुषा दधुषा विभूती-रुद्यत्किरीटकटकांगदहारभासा ।शंखारिवारिजगदापरिभासितेनमेघासितेन परिलेसिथ सूतिगेहे ॥3॥ वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी-मंदाक्षलक्षितकटाक्षविमोक्षभेदैः ।तन्मंदिरस्य…
Read more