सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदांचकार ब्रह्मेति ॥ 1॥

तस्माद्वा एते देवा अतितरामिवान्यांदेवान्यदग्निर्वायुरिंद्रस्ते ह्येनन्नेदिष्ठं पस्पर्​शुस्ते ह्येनत्प्रथमो विदांचकार ब्रह्मेति ॥ 2॥

तस्माद्वा इंद्रोऽतितरामिवान्यांदेवान्स ह्येनन्नेदिष्ठं पस्पर्​श स ह्येनत्प्रथमो विदांचकार ब्रह्मेति ॥ 3॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा(3) इतीन् न्यमीमिषदा(3) इत्यधिदैवतम् ॥ 4॥

अथाध्यात्मं-यँद्देतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्ष्णं संकल्पः ॥ 5॥

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं-वेँदाभि हैनग्ं सर्वाणि भूतानि सं​वांँछंति ॥ 6॥

उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं-वाँव त उपनिषदमब्रूमेति ॥ 7॥

तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वांगानि सत्यमायतनम् ॥ 8॥

यो वा एतामेवं-वेँदापहत्य पाप्मानमनंते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ 9॥

॥ इति केनोपनिषदि चतुर्थः खंडः ॥

ॐ आप्यायंतु ममांगानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिंद्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि संतु ते मयि संतु ।

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

॥ इति केनोपनिषत् ॥