॥ गीतगोविंदम् ॥
॥ अष्टपदी ॥
॥ श्री गोपालक ध्यानम् ॥
यद्गोपीवदनेंदुमंडनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिंदीवरम् ।
यन्निर्वाणविधानसाधनविधौ सिद्धांजनं योगिनां तन्नश्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥ 1 ॥
॥ श्री जयदेव ध्यानम् ॥
राधामनोरमरमावररासलील-गानामृतैकभणितं कविराजराजम् ।
श्रीमाधवार्च्चनविधवनुरागसद्म-पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥ 2 ॥
श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानंदाब्धिमग्नोऽनिशम् ॥
लोके सत्कविराजराज इति यः ख्यातो दयांभोनिधिः तं वंदे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ 3 ॥
॥ प्रथमः सर्गः ॥
॥ सामोददामोदरः ॥
मेघैर्मेदुरमंबरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नंदनिदेशितश्चलितयोः प्रत्यध्वकुंजद्रुमं राधामाधवयोर्जयंति यमुनाकूले रहःकेलयः ॥ 1 ॥
वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती ।
श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबंधम् ॥ 2 ॥
यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकांतपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ 3 ॥
वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।
शृंगारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ 4 ॥
॥ गीतं 1 ॥
प्रलयपयोधिजले धृतवानसि वेदम् ।
विहितवहित्रचरित्रमखेदम् ॥
केशव धृतमीनशरीर जय जगदीश हरे ॥ 1 ॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
धरणिधरणकिणचक्रगरिष्ठे ॥
केशव धृतकच्छपरूप जय जगदीश हरे ॥ 2 ॥
वसति दशनशिखरे धरणी तव लग्ना ।
शशिनि कलंककलेव निमग्ना ॥
केशव धृतसूकररूप जय जगदीश हरे ॥ 3 ॥
तव करकमलवरे नखमद्भुतशृंगम् ।
दलितहिरण्यकशिपुतनुभृंगम् ॥
केशव धृतनरहरिरूप जय जगदीश हरे ॥ 4 ॥
छलयसि विक्रमणे बलिमद्भुतवामन ।
पदनखनीरजनितजनपावन ॥
केशव धृतवामनरूप जय जगदीश हरे ॥ 5 ॥
क्षत्रियरुधिरमये जगदपगतपापम् ।
स्नपयसि पयसि शमितभवतापम् ॥
केशव धृतभृघुपतिरूप जय जगदीश हरे ॥ 6 ॥
वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।
दशमुखमौलिबलिं रमणीयम् ॥
केशव धृतरामशरीर जय जगदीश हरे ॥ 7 ॥
वहसि वपुषि विशदे वसनं जलदाभम् ।
हलहतिभीतिमिलितयमुनाभम् ॥
केशव धृतहलधररूप जय जगदीश हरे ॥ 8 ॥
निंदसि यज्ञविधेरहह श्रुतिजातम् ।
सदयहृदयदर्शितपशुघातम् ॥
केशव धृतबुद्धशरीर जय जगदीश हरे ॥ 9 ॥
म्लेच्छनिवहनिधने कलयसि करवालम् ।
धूमकेतुमिव किमपि करालम् ॥
केशव धृतकल्किशरीर जय जगदीश हरे ॥ 10 ॥
श्रीजयदेवकवेरिदमुदितमुदारम् ।
शृणु सुखदं शुभदं भवसारम् ॥
केशव धृतदशविधरूप जय जगदीश हरे ॥ 11 ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ 5 ॥
॥ गीतं 2 ॥
श्रितकमलाकुचमंडल! धृतकुंडल! ।
कलितललितवनमाल! जय, जय, देव! हरे! ॥ 1 ॥
दिनमणीमंडलमंडन! भवखंडन! ।
मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ 2 ॥
कालियविषधरगंजन! जनरंजन! ।
यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ 3 ॥
मधुमुरनरकविनाशन! गरुडासन! ।
सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ 4 ॥
अमलकमलदललोचन! भवमोचन्! ।
त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ 5 ॥
जनकसुताकृतभूषण! जितदूषण! ।
समरशमितदशखंठ! जय, जय, देव! हरे! ॥ 6 ॥
अभिनवजलधरसुंदर! धृतमंदर! ।
श्रीमुखचंद्रचकोर! जय, जय, देव! हरे! ॥ 7 ॥
श्रीजयदेवकवेरिदं कुरुते मुदम् ।
मंगलमुज्ज्वलगीतं; जय, जय, देव! हरे! ॥ 8 ॥
पद्मापयोधरतटीपरिरंभलग्न-काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनंगखेद-स्वेदांबुपूरमनुपूरयतु प्रियं वः ॥ 6 ॥
वसंते वासंतीकुसुमसुकुमारैरवयवै-र्भ्रमंतीं कांतारे बहुविहितकृष्णानुसरणाम् ।
अमंदं कंदर्पज्वरजनितचिंताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ 7 ॥
॥ गीतं 3 ॥
ललितलवंगलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरंबितकोकिलकूजितकुंजकुटीरे ॥
विहरति हरिरिह सरसवसंते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरंते ॥ 1 ॥
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ 2 ॥
मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ 3 ॥
मदनमहीपतिकनकदंडरुचिकेशरकुसुमविकासे ।
मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ 4 ॥
विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
विरहिनिकृंतनकुंतमुखाकृतिकेतकदंतुरिताशे ॥ 5 ॥
माधविकापरिमलललिते नवमालिकजातिसुगंधौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबंधौ ॥ 6 ॥
स्फुरदतिमुक्तलतापरिरंभणमुकुलितपुलकितचूते ।
बृंदावनविपिने परिसरपरिगतयमुनाजलपूते ॥ 7 ॥
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
सरसवसंतसमयवनवर्णनमनुगतमदनविकारम् ॥ 8 ॥
दरविदलितमल्लीवल्लिचंचत्पराग-प्रकटितपटवासैर्वासयन् काननानि ।
इह हि दहति चेतः केतकीगंधबंधुः प्रसरदसमबाणप्राणवद्गंधवाहः ॥ 8 ॥
उन्मीलन्मधुगंधलुब्धमधुपव्याधूतचूतांकुर-क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
नीयंते पथिकैः कथंकथमपि ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ 9 ॥
अनेकनारीपरिरंभसंभ्रम-स्फुरन्मनोहारिविलासलालसम् ।
मुरारिमारादुपदर्शयंत्यसौ सखी समक्षं पुनराह राधिकाम् ॥ 10 ॥
॥ गीतं 4 ॥
चंदनचर्चितनीलकलेबरपीतवसनवनमाली ।
केलिचलन्मणिकुंडलमंडितगंडयुगस्मितशाली ॥
हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ 1 ॥
पीनपयोधरभारभरेण हरिं परिरम्य सरागम् ।
गोपवधूरनुगायति काचिदुदंचितपंचमरागम् ॥ 2 ॥
कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ 3 ॥
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
चारु चुचुंब नितंबवती दयितं पुलकैरनुकूले ॥ 4 ॥
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मंजुलवंजुलकुंजगतं विचकर्ष करेण दुकूले ॥ 5 ॥
करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥ 6 ॥
श्लिष्यति कामपि चुंबति कामपि कामपि रमयति रामाम् ।
पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥ 7 ॥
श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् ।
वृंदावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ 8 ॥
विश्वेषामनुरंजनेन जनयन्नानंदमिंदीवर-श्रेणीश्यामलकोमलैरुपनयन्नंगैरनंगोत्सवम् ।
स्वच्छंदं व्रजसुंदरीभिरभितः प्रत्यंगमालिंकितः शृंगारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ 11 ॥
अद्योत्संगवसद्भुजंगकवलक्लेशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखंडशैलानिलः ।
किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-दुन्मीलंति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ 12 ॥
रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमांधया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-व्याजादुद्भटचुंबितस्मितमनोहरी हरिः पातु वः ॥ 13 ॥
॥ इति श्रीगीतगोविंदे सामोददामोदरो नाम प्रथमः सर्गः ॥