ॐ श्रीरंगनायक्यै नमः ।
ॐ गोदायै नमः ।
ॐ विष्णुचित्तात्मजायै नमः ।
ॐ सत्यै नमः ।
ॐ गोपीवेषधरायै नमः ।
ॐ देव्यै नमः ।
ॐ भूसुतायै नमः ।
ॐ भोगशालिन्यै नमः ।
ॐ तुलसीकाननोद्भूतायै नमः ।
ॐ श्रीधन्विपुरवासिन्यै नमः । 10 ।

ॐ भट्टनाथप्रियकर्यै नमः ।
ॐ श्रीकृष्णहितभोगिन्यै नमः ।
ॐ आमुक्तमाल्यदायै नमः ।
ॐ बालायै नमः ।
ॐ रंगनाथप्रियायै नमः ।
ॐ परायै नमः ।
ॐ विश्वंभरायै नमः ।
ॐ कलालापायै नमः ।
ॐ यतिराजसहोदर्यै नमः ।
ॐ कृष्णानुरक्तायै नमः । 20 ।

ॐ सुभगायै नमः ।
ॐ सुलभश्रियै नमः ।
ॐ सुलक्षणायै नमः ।
ॐ लक्ष्मीप्रियसख्यै नमः ।
ॐ श्यामायै नमः ।
ॐ दयांचितदृगंचलायै नमः ।
ॐ फल्गुन्याविर्भवायै नमः ।
ॐ रम्यायै नमः ।
ॐ धनुर्मासकृतव्रतायै नमः ।
ॐ चंपकाशोकपुन्नाग मालती विलसत्कचायै नमः । 30 ।

ॐ आकारत्रयसंपन्नायै नमः ।
ॐ नारायणपदाश्रितायै नमः ।
ॐ श्रीमदष्टाक्षरी मंत्रराजस्थित मनोरथायै नमः ।
ॐ मोक्षप्रदाननिपुणायै नमः ।
ॐ मनुरत्नाधिदेवतायै नमः ।
ॐ ब्रह्मण्यायै नमः ।
ॐ लोकजनन्यै नमः ।
ॐ लीलामानुषरूपिण्यै नमः ।
ॐ ब्रह्मज्ञानप्रदायै नमः ।
ॐ मायायै नमः ।
ॐ सच्चिदानंदविग्रहायै नमः । 40 ।

ॐ महापतिव्रतायै नमः ।
ॐ विष्णुगुणकीर्तनलोलुपायै नमः ।
ॐ प्रपन्नार्तिहरायै नमः ।
ॐ नित्यायै नमः ।
ॐ वेदसौधविहारिण्यै नमः ।
ॐ श्रीरंगनाथ माणिक्यमंजर्यै नमः ।
ॐ मंजुभाषिण्यै नमः ।
ॐ पद्मप्रियायै नमः ।
ॐ पद्महस्तायै नमः । 50 ।

ॐ वेदांतद्वयबोधिन्यै नमः ।
ॐ सुप्रसन्नायै नमः ।
ॐ भगवत्यै नमः ।
ॐ श्रीजनार्दनदीपिकायै नमः ।
ॐ सुगंधावयवायै नमः ।
ॐ चारुरंगमंगलदीपिकायै नमः ।
ॐ ध्वजवज्रांकुशाब्जांक मृदुपाद तलांचितायै नमः ।
ॐ तारकाकारनखरायै नमः ।
ॐ प्रवालमृदुलांगुल्यै नमः ।
ॐ कूर्मोपमेय पादोर्ध्वभागायै नमः । 60 ।

ॐ शोभनपार्ष्णिकायै नमः ।
ॐ वेदार्थभावतत्त्वज्ञायै नमः ।
ॐ लोकाराध्यांघ्रिपंकजायै नमः ।
ॐ आनंदबुद्बुदाकारसुगुल्फायै नमः ।
ॐ परमाणुकायै नमः ।
ॐ तेजःश्रियोज्ज्वलधृतपादांगुलि सुभूषितायै नमः ।
ॐ मीनकेतनतूणीर चारुजंघा विराजितायै नमः ।
ॐ ककुद्वज्जानुयुग्माढ्यायै नमः ।
ॐ स्वर्णरंभाभसक्थिकायै नमः ।
ॐ विशालजघनायै नमः । 70 ।

ॐ पीनसुश्रोण्यै नमः ।
ॐ मणिमेखलायै नमः ।
ॐ आनंदसागरावर्त गंभीरांभोज नाभिकायै नमः ।
ॐ भास्वद्वलित्रिकायै नमः ।
ॐ चारुजगत्पूर्णमहोदर्यै नमः ।
ॐ नववल्लीरोमराज्यै नमः ।
ॐ सुधाकुंभायितस्तन्यै नमः ।
ॐ कल्पमालानिभभुजायै नमः ।
ॐ चंद्रखंडनखांचितायै नमः ।
ॐ सुप्रवाशांगुलीन्यस्त महारत्नांगुलीयकायै नमः । 80 ।

ॐ नवारुणप्रवालाभ पाणिदेशसमंचितायै नमः ।
ॐ कंबुकंठ्यै नमः ।
ॐ सुचुबुकायै नमः ।
ॐ बिंबोष्ठ्यै नमः ।
ॐ कुंददंतयुजे नमः ।
ॐ कारुण्यरसनिष्यंद नेत्रद्वयसुशोभितायै नमः ।
ॐ मुक्ताशुचिस्मितायै नमः ।
ॐ चारुचांपेयनिभनासिकायै नमः ।
ॐ दर्पणाकारविपुलकपोल द्वितयांचितायै नमः ।
ॐ अनंतार्कप्रकाशोद्यन्मणि ताटंकशोभितायै नमः । 90 ।

ॐ कोटिसूर्याग्निसंकाश नानाभूषणभूषितायै नमः ।
ॐ सुगंधवदनायै नमः ।
ॐ सुभ्रुवे नमः ।
ॐ अर्धचंद्रललाटिकायै नमः ।
ॐ पूर्णचंद्राननायै नमः ।
ॐ नीलकुटिलालकशोभितायै नमः ।
ॐ सौंदर्यसीमायै नमः ।
ॐ विलसत्कस्तूरीतिलकोज्ज्वलायै नमः ।
ॐ धगद्धगायमानोद्यन्मणि सीमंतभूषणायै नमः ।
ॐ जाज्वल्यमानसद्रत्न दिव्यचूडावतंसकायै नमः । 100 ।

ॐ सूर्यार्धचंद्रविलसत् भूषणंचित वेणिकायै नमः ।
ॐ अत्यर्कानल तेजोधिमणि कंचुकधारिण्यै नमः ।
ॐ सद्रत्नांचितविद्योत विद्युत्कुंजाभ शाटिकायै नमः ।
ॐ नानामणिगणाकीर्ण हेमांगदसुभूषितायै नमः ।
ॐ कुंकुमागरु कस्तूरी दिव्यचंदनचर्चितायै नमः ।
ॐ स्वोचितौज्ज्वल्य विविधविचित्रमणिहारिण्यै नमः ।
ॐ असंख्येय सुखस्पर्श सर्वातिशय भूषणायै नमः ।
ॐ मल्लिकापारिजातादि दिव्यपुष्पस्रगंचितायै नमः । 108 ।

ॐ श्रीरंगनिलयायै नमः ।
ॐ पूज्यायै नमः ।
ॐ दिव्यदेशसुशोभितायै नमः । 111

इति श्री गोदाष्टोत्तरशतनामावलिः ।