॥ तृतीयमुंडके द्वितीयः खंडः ॥

स वेदैतत् परमं ब्रह्म धाम
यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं-येँ ह्यकामास्ते
शुक्रमेतदतिवर्तंति धीराः ॥ 1॥

कामान् यः कामयते मन्यमानः
स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु
इहैव सर्वे प्रविलीयंति कामाः ॥ 2॥

नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ 3॥

नायमात्मा बलहीनेन लभ्यो
न च प्रमादात् तपसो वाप्यलिंगात् ।
एतैरुपायैर्यतते यस्तु विद्वां-
स्तस्यैष आत्मा विशते ब्रह्मधाम ॥ 4॥

संप्राप्यैनमृषयो ज्ञानतृप्ताः
कृतात्मानो वीतरागाः प्रशांताः
ते सर्वगं सर्वतः प्राप्य धीरा
युक्तात्मानः सर्वमेवाविशंति ॥ 5॥

वेदांतविज्ञानसुनिश्चितार्थाः
संन्यासयोगाद् यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परांतकाले
परामृताः परिमुच्यंति सर्वे ॥ 6॥

गताः कलाः पंचदश प्रतिष्ठा
देवाश्च सर्वे प्रतिदेवतासु ।
कर्माणि विज्ञानमयश्च आत्मा
परेऽव्यये सर्वे एकीभवंति ॥ 7॥

यथा नद्यः स्यंदमानाः समुद्रेऽ
स्तं गच्छंति नामरूपे विहाय ।
तथा विद्वान् नामरूपाद्विमुक्तः
परात्परं पुरुषमुपैति दिव्यम् ॥ 8॥

स यो ह वै तत् परमं ब्रह्म वेद
ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ।
तरति शोकं तरति पाप्मानं गुहाग्रंथिभ्यो
विमुक्तोऽमृतो भवति ॥ 9॥

तदेतदृचाऽभ्युक्तम् ।
क्रियावंतः श्रोत्रिया ब्रह्मनिष्ठाः
स्वयं जुह्वत एकर्​षिं श्रद्धयंतः ।
तेषामेवैतां ब्रह्मविद्यां-वँदेत
शिरोव्रतं-विँधिवद् यैस्तु चीर्णम् ॥ 10॥

तदेतत् सत्यमृषिरंगिराः
पुरोवाच नैतदचीर्णव्रतोऽधीते ।
नमः परमृषिभ्यो नमः परमृषिभ्यः ॥ 11॥

॥ इति मुंडकोपनिषदि तृतीयमुंडके द्वितीयः खंडः ॥

॥ इत्यथर्ववेदीय मुंडकोपनिषत्समाप्ता ॥

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

॥ ॐ शांतिः शांतिः शांतिः ॥