अथ द्वितीयस्तोत्रम्

स्वजनोदधिसंवृद्धि पूर्णचंद्रो गुणार्णवः । (सुजनोदधिसंवृद्धि)
अमंदानंद सांद्रो नः सदाव्यादिंदिरापतिः ॥ 1॥ (प्रीयातामिंदिरापतिः)
रमाचकोरीविधवे दुष्टदर्पोदवह्नये । (दुष्टसर्पोदवह्नये)
सत्पांथजनगेहाय नमो नारायणाय ते ॥ 2॥

चिदचिद्भेदं अखिलं विधायाधाय भुंजते ।
अव्याकृतगुहस्थाय रमाप्रणयिने नमः ॥ 3॥

अमंदगुणसारोऽपि मंदहासेन वीक्षितः ।
नित्यमिंदिरयाऽनंदसांद्रो यो नौमि तं हरिम् ॥ 4॥

वशी वशो (वशे) न कस्यापि योऽजितो विजिताखिलः ।
सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥ 5॥

अगुणायगुणोद्रेक स्वरूपायादिकारिणे ।
विदारितारिसंघाय वासुदेवाय ते नमः ॥ 6॥

आदिदेवाय देवानां पतये सादितारये ।
अनाद्यज्ञानपाराय नमः पारावराश्रय ॥ 7॥ (नमो वरवराय ते)
अजाय जनयित्रेऽस्य विजिताखिलदानव ।
अजादि पूज्यपादाय नमस्ते गरुडध्वज ॥ 8॥

इंदिरामंदसांद्राग्र्य कटाक्षप्रेक्षितात्मने ।
अस्मदिष्टैक कार्याय पूर्णाय हरये नमः ॥ 9॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु द्वितीयस्तोत्रं संपूर्णम्