अथ नारायन हृदय स्तोत्रम्

अस्य श्रीनारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप्छंदः, श्रीलक्ष्मीनारायणो देवता, ॐ बीजं, नमश्शक्तिः, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे जपे विनियोगः ।

करन्यासः ।
ॐ नारायणः परं ज्योतिरिति अंगुष्ठाभ्यां नमः ।
नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।
नारायणः परो देव इति मध्यमाभ्यां नमः ।
नारायणः परं धामेति अनामिकाभ्यां नमः ।
नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः ।
विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः ।
अंगन्यासः ।
नारायणः परं ज्योतिरिति हृदयाय नमः ।
नारायणः परं ब्रह्मेति शिरसे स्वाहा ।
नारायणः परो देव इति शिखायै वौषट् ।
नारायणः परं धामेति कवचाय हुम् ।
नारायणः परो धर्म इति नेत्राभ्यां वौषट् ।
विश्वं नारायण इति अस्त्राय फट् ।
दिग्बंधः ।
ॐ ऐंद्र्यादिदशदिशं ॐ नमः सुदर्शनाय सहस्राराय हुं फट् बध्नामि नमश्चक्राय स्वाहा । इति प्रतिदिशं योज्यम् ।

अथ ध्यानम् ।
उद्यादादित्यसंकाशं पीतवासं चतुर्भुजम् ।
शंखचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥ 1 ॥

त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानंतभोगी
तन्मध्ये भूमिपद्मांकुशशिखरदलं कर्णिकाभूतमेरुम् ।
तत्रस्थं शांतमूर्तिं मणिमयमकुटं कुंडलोद्भासितांगं
लक्ष्मीनारायणाख्यं सरसिजनयनं संततं चिंतयामि ॥ 2 ॥

अथ मूलाष्टकम् ।
ओम् ॥ नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ 1 ॥

नारायणः परो देवो धाता नारायणः परः ।
नारायणः परो धाता नारायण नमोऽस्तु ते ॥ 2 ॥

नारायणः परं धाम ध्यानं नारायणः परः ।
नारायण परो धर्मो नारायण नमोऽस्तु ते ॥ 3 ॥

नारायणः परोवेद्यः विद्या नारायणः परः ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ 4 ॥

नारायणाद्विधिर्जातो जातो नारायणाद्भवः ।
जातो नारायणादिंद्रो नारायण नमोऽस्तु ते ॥ 5 ॥

रविर्नारायणस्तेजः चंद्रो नारायणो महः ।
वह्निर्नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ 6 ॥

नारायण उपास्यः स्याद्गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥ 7 ॥

नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् ।
सेव्योनारायणः शुद्धो नारायण नमोऽस्तु ते ॥ 8 ॥ [हरि]

अथ प्रार्थनादशकम् ।
नारायण त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरकः प्रेर्यमाणानां त्वया प्रेरितमानसः ॥ 9 ॥

त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् ।
नानोपासनमार्गाणां भवकृद्भावबोधकः ॥ 10 ॥

भावार्थकृद्भवातीतो भव सौख्यप्रदो मम ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ 11 ॥

त्वदधिष्ठानमात्रेण सा वै सर्वार्थकारिणी ।
त्वमेतां च पुरस्कृत्य सर्वकामान्प्रदर्शय ॥ 12 ॥

न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् ।
त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥ 13 ॥

यावत्सांसारिको भावो मनस्स्थो भावनात्मकः ।
तावत्सिद्धिर्भवेत्साध्या सर्वथा सर्वदा विभो ॥ 14 ॥

पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ 15 ॥

त्वयाहं नैव सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ 16 ॥

पापसंघपरिश्रांतः पापात्मा पापरूपधृत् ।
त्वदन्यः कोऽत्र पापेभ्यस्त्रातास्ति जगतीतले ॥ 17 ॥

त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव सेव्यश्च गुरुस्त्वमेव
त्वमेव सर्वं मम देव देव ॥ 18 ॥

प्रार्थनादशकं चैव मूलाष्टकमतः परम् ।
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ 19 ॥

नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् ।
लक्ष्मीहृदयकं स्तोत्रं यदि चेत्तद्विनाकृतम् ॥ 20 ॥

तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुद्ध्यति सर्वदा ।
एतत्संकलितं स्तोत्रं सर्वकामफलप्रदम् ॥ 21 ॥

लक्ष्मीहृदयकं चैव तथा नारायणात्मकम् ।
जपेद्यः संकलीकृत्य सर्वाभीष्टमवाप्नुयात् ॥ 22 ॥

नारायणस्य हृदयमादौ जप्त्वा ततः परम् ।
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ॥ 23 ॥

पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ।
पुनर्नारायणं जाप्यं संकलीकरणं भवेत् ॥ 24 ॥

एवं मध्ये द्विवारेण जपेत्संकलितं तु तत् ।
लक्ष्मीहृदयकं स्तोत्रं सर्वकामप्रकाशितम् ॥ 25 ॥

तद्वज्जपादिकं कुर्यादेतत्संकलितं शुभम् ।
सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् ॥ 26 ॥

गोप्यमेतत्सदा कुर्यान्न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रं प्राप्तं ब्रह्मादिकैः पुरा ॥ 27 ॥

तस्मात्सर्वप्रयत्नेन गोपयेत्साधयेसुधीः ।
यत्रैतत्पुस्तकं तिष्ठेल्लक्ष्मीनारायणात्मकम् ॥ 28 ॥

भूतपैशाचवेताल भयं नैव तु सर्वदा ।
लक्ष्मीहृदयकं प्रोक्तं विधिना साधयेत्सुधीः ॥ 29 ॥

भृगुवारे च रात्रौ च पूजयेत्पुस्तकद्वयम् ।
सर्वथा सर्वदा सत्यं गोपयेत्साधयेत्सुधीः ।
गोपनात्साधनाल्लोके धन्यो भवति तत्त्वतः ॥ 30 ॥

इत्यथर्वरहस्ये उत्तरभागे नारायणहृदयं संपूर्णम् ।

अथ लक्ष्मी हृदय स्तोत्रम्

अस्य श्री महालक्ष्मीहृदयस्तोत्र महामंत्रस्य भार्गव ऋषिः, अनुष्टुपादीनि नानाछंदांसि, आद्यादि श्रीमहालक्ष्मीर्देवता, श्रीं बीजं, ह्रीं शक्तिः, ऐं कीलकं, आद्यादिमहालक्ष्मी प्रसादसिद्ध्यर्थं जपे विनियोगः ॥

ऋष्यादिन्यासः –
ॐ भार्गवृषये नमः शिरसि ।
ॐ अनुष्टुपादिनानाछंदोभ्यो नमो मुखे ।
ॐ आद्यादिश्रीमहालक्ष्मी देवतायै नमो हृदये ।
ॐ श्रीं बीजाय नमो गुह्ये ।
ॐ ह्रीं शक्तये नमः पादयोः ।
ॐ ऐं कीलकाय नमो नाभौ ।
ॐ विनियोगाय नमः सर्वांगे ।

करन्यासः –
ॐ श्रीं अंगुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ऐं मध्यमाभ्यां नमः ।
ॐ श्रीं अनामिकाभ्यां नमः ।
ॐ ह्रीं कनिष्ठिकाभ्यां नमः ।
ॐ ऐं करतल करपृष्ठाभ्यां नमः ।

अंगन्यासः –
ॐ श्रीं हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ऐं शिखायै वषट् ।
ॐ श्रीं कवचाय हुम् ।
ॐ ह्रीं नेत्रत्रयाय वौषट् ।
ॐ ऐं अस्त्राय फट् ।
ॐ श्रीं ह्रीं ऐं इति दिग्बंधः ।

अथ ध्यानम् ।
हस्तद्वयेन कमले धारयंतीं स्वलीलया ।
हारनूपुरसंयुक्तां लक्ष्मीं देवीं विचिंतये ॥

कौशेयपीतवसनामरविंदनेत्रां
पद्मद्वयाभयवरोद्यतपद्महस्ताम् ।
उद्यच्छतार्कसदृशीं परमांकसंस्थां
ध्यायेद्विधीशनतपादयुगां जनित्रीम् ॥

पीतवस्त्रां सुवर्णांगीं पद्महस्तद्वायान्विताम् ।
लक्ष्मीं ध्यात्वेति मंत्रेण स भवेत्पृथिवीपतिः ॥
मातुलुंगं गदां खेटं पाणौ पात्रं च बिभ्रती ।
नागं लिंगं च योनिं च बिभ्रतीं चैव मूर्धनि ॥

[ इति ध्यात्वा मानसोपचारैः संपूज्य ।
शंखचक्रगदाहस्ते शुभ्रवर्णे सुवासिनी ।
मम देहि वरं लक्ष्मीः सर्वसिद्धिप्रदायिनी ।
इति संप्रार्थ्य ॐ श्रीं ह्रीं ऐं महालक्ष्म्यै कमलधारिण्यै सिंहवाहिन्यै स्वाहा इति मंत्रं जप्त्वा पुनः पूर्ववद्धृदयादि षडंगन्यासं कृत्वा स्तोत्रं पठेत् । ]

स्तोत्रम् ।
वंदे लक्ष्मीं परमशिवमयीं शुद्धजांबूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलांगीम् ।
बीजापूरं कनककलशं हेमपद्मं दधाना-
-माद्यां शक्तिं सकलजननीं विष्णुवामांकसंस्थाम् ॥ 1 ॥

श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् ।
सर्वकामफलावाप्तिसाधनैकसुखावहाम् ॥ 2 ॥

स्मरामि नित्यं देवेशि त्वया प्रेरितमानसः ।
त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ 3 ॥

समस्तसंपत्सुखदां महाश्रियं
समस्तसौभाग्यकरीं महाश्रियम् ।
समस्तकल्याणकरीं महाश्रियं
भजाम्यहं ज्ञानकरीं महाश्रियम् ॥ 4 ॥

विज्ञानसंपत्सुखदां सनातनीं
विचित्रवाग्भूतिकरीं मनोहराम् ।
अनंतसंमोदसुखप्रदायिनीं
नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ 5 ॥

समस्तभूतांतरसंस्थिता त्वं
समस्तभोक्त्रीश्वरि विश्वरूपे ।
तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु
त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ 6 ॥

दारिद्र्य दुःखौघतमोपहंत्री
त्वत्पादपद्मं मयि सन्निधत्स्व ।
दीनार्तिविच्छेदनहेतुभूतैः
कृपाकटाक्षैरभिषिंच मां श्रीः ॥ 7 ॥

अंब प्रसीद करुणासुधयार्द्रदृष्ट्या
मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व ।
आलोकय प्रणतहृद्गतशोकहंत्री
त्वत्पादपद्मयुगलं प्रणमाम्यहं श्रीः ॥ 8 ॥

शांत्यै नमोऽस्तु शरणागतरक्षणायै
कांत्यै नमोऽस्तु कमनीयगुणाश्रयायै ।
क्षांत्यै नमोऽस्तु दुरितक्षयकारणायै
दात्र्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ 9 ॥

शक्त्यै नमोऽस्तु शशिशेखरसंस्तुतायै
रत्यै नमोऽस्तु रजनीकरसोदरायै ।
भक्त्यै नमोऽस्तु भवसागरतारकायै
मत्यै नमोऽस्तु मधुसूदनवल्लभायै ॥ 10 ॥

लक्ष्म्यै नमोऽस्तु शुभलक्षणलक्षितायै
सिद्ध्यै नमोऽस्तु शिवसिद्धसुपूजितायै ।
धृत्यै नमोऽस्त्वमितदुर्गतिभंजनायै
गत्यै नमोऽस्तु वरसद्गतिदायिकायै ॥ 11 ॥

देव्यै नमोऽस्तु दिवि देवगणार्चितायै
भूत्यै नमोऽस्तु भुवनार्तिविनाशनायै ।
धात्र्यै नमोऽस्तु धरणीधरवल्लभायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ 12 ॥

सुतीव्रदारिद्र्यविदुःखहंत्र्यै
नमोऽस्तु ते सर्वभयापहंत्र्यै ।
श्रीविष्णुवक्षःस्थलसंस्थितायै
नमो नमः सर्वविभूतिदायै ॥ 13 ॥

जयतु जयतु लक्ष्मीर्लक्षणालंकृतांगी
जयतु जयतु पद्मा पद्मसद्माभिवंद्या ।
जयतु जयतु विद्या विष्णुवामांकसंस्था
जयतु जयतु सम्यक्सर्वसंपत्करी श्रीः ॥ 14 ॥

जयतु जयतु देवी देवसंघाभिपूज्या
जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।
जयतु जयतु नित्या निर्मलज्ञानवेद्या
जयतु जयतु सत्या सर्वभूतांतरस्था ॥ 15 ॥

जयतु जयतु रम्या रत्नगर्भांतरस्था
जयतु जयतु शुद्धा शुद्धजांबूनदाभा ।
जयतु जयतु कांता कांतिमद्भासितांगी
जयतु जयतु शांता शीघ्रमागच्छ सौम्ये ॥ 16 ॥

यस्याः कलायाः कमलोद्भवाद्या
रुद्राश्च शक्र प्रमुखाश्च देवाः ।
जीवंति सर्वेऽपि सशक्तयस्ते
प्रभुत्वमाप्ताः परमायुषस्ते ॥ 17 ॥

लिलेख निटिले विधिर्मम लिपिं विसृज्यांतरं
त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
तदंतरफलेस्फुटं कमलवासिनी श्रीरिमां
समर्पय समुद्रिकां सकलभाग्यसंसूचिकाम् ॥ 18 ॥

कलया ते यथा देवि जीवंति सचराचराः ।
तथा संपत्करे लक्ष्मि सर्वदा संप्रसीद मे ॥ 19 ॥

यथा विष्णुर्ध्रुवे नित्यं स्वकलां संन्यवेशयत् ।
तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ॥ 20 ॥

सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे ।
अचलां कुरु यत्नेन कलां मयि निवेशिताम् ॥ 21 ॥

मुदास्तां मत्फाले परमपदलक्ष्मीः स्फुटकला
सदा वैकुंठश्रीर्निवसतु कला मे नयनयोः ।
वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला
श्रियः श्वेतद्वीपे निवसतु कला मे स्वकरयोः ॥ 22 ॥

तावन्नित्यं ममांगेषु क्षीराब्धौ श्रीकला वसेत् ।
सूर्याचंद्रमसौ यावद्यावल्लक्ष्मीपतिः श्रियाः ॥ 23 ॥

सर्वमंगलसंपूर्णा सर्वैश्वर्यसमन्विता ।
आद्यादि श्रीर्महालक्ष्मी त्वत्कला मयि तिष्ठतु ॥ 24 ॥

अज्ञानतिमिरं हंतुं शुद्धज्ञानप्रकाशिका ।
सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ॥ 25 ॥

अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा ।
वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ 26 ॥

ऐश्वर्यमंगलोत्पत्तिस्त्वत्कलायां निधीयते ।
मयि तस्मात्कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ 27 ॥

भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि ।
त्वत्प्रसादात्पवित्रोऽहं लोकमातर्नमोऽस्तु ते ॥ 28 ॥

पुनासि मां त्वत्कलयैव यस्मा-
-दतः समागच्छ ममाग्रतस्त्वम् ।
परं पदं श्रीर्भव सुप्रसन्ना
मय्यच्युतेन प्रविशादिलक्ष्मीः ॥ 29 ॥

श्रीवैकुंठस्थिते लक्ष्मि समागच्छ ममाग्रतः ।
नारायणेन सह मां कृपादृष्ट्याऽवलोकय ॥ 30 ॥

सत्यलोकस्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् ।
वासुदेवेन सहिता प्रसीद वरदा भव ॥ 31 ॥

श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते ।
विष्णुना सहिते देवि जगन्मातः प्रसीद मे ॥ 32 ॥

क्षीरांबुधिस्थिते लक्ष्मि समागच्छ समाधवा ।
त्वत्कृपादृष्टिसुधया सततं मां विलोकय ॥ 33 ॥

रत्नगर्भस्थिते लक्ष्मि परिपूर्णे हिरण्मये ।
समागच्छ समागच्छ स्थित्वाऽऽशु पुरतो मम ॥ 34 ॥

स्थिरा भव महालक्ष्मि निश्चला भव निर्मले ।
प्रसन्ने कमले देवि प्रसन्नहृदया भव ॥ 35 ॥

श्रीधरे श्रीमहाभूते त्वदंतःस्थं महानिधिम् ।
शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ 36 ॥

वसुंधरे श्रीवसुधे वसुदोग्ध्रि कृपामये ।
त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे संप्रदर्शय ॥ 37 ॥

विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे ।
त्वद्गर्भगतहेमादीन् संप्रदर्शय दर्शय ॥ 38 ॥

रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः ।
न जाने परमं रूपं मातर्मे संप्रदर्शय ॥ 39 ॥

आविर्भव मनोवेगाच्छीघ्रमागच्छ मे पुरः ।
मा वत्स भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् ॥ 40 ॥

देवि शीघ्रं समागच्छ धरणीगर्भसंस्थिते ।
मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ 41 ॥

उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि ।
अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ 42 ॥

निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः ।
समुन्नतानना भूत्वा समाधेहि धरांतरात् ॥ 43 ॥

मत्सन्निधिं समागच्छ मदाहितकृपारसात् ।
प्रसीद श्रेयसां दोग्ध्री लक्ष्मीर्मे नयनाग्रतः ॥ 44 ॥

अत्रोपविश लक्ष्मि त्वं स्थिरा भव हिरण्मये ।
सुस्थिरा भव संप्रीत्या प्रसीद वरदा भव ॥ 45 ॥

आनीतांस्तु तथा देवि निधीन्मे संप्रदर्शय ।
अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ 46 ॥

मयि तिष्ठ तथा नित्यं यथेंद्रादिषु तिष्ठसि ।
अभयं कुरु मे देवि महालक्ष्मीर्नमोऽस्तु ते ॥ 47 ॥

समागच्छ महालक्ष्मि शुद्धजांबूनदप्रभे ।
प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ 48 ॥

लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्मयी ।
तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ 49 ॥

क्रीडंती बहुधा भूमौ परिपूर्णकृपामयि ।
मम मूर्धनि ते हस्तमविलंबितमर्पय ॥ 50 ॥

फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनी ।
प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ 51 ॥

अयोध्यादिषु सर्वेषु नगरेषु समास्थिते ।
वैभवैर्विविधैर्युक्तैः समागच्छ मुदान्विते ॥ 52 ॥

समागच्छ समागच्छ ममाग्रे भव सुस्थिरा ।
करुणारसनिष्यंदनेत्रद्वय विलासिनी ॥ 53 ॥ [निष्पन्न]

सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके ।
करुणासुधया मां त्वमभिषिंच्य स्थिरं कुरु ॥ 54 ॥

सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते । [मुदान्विते]
स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाऽभयं कुरु ॥ 55 ॥

सादरं मस्तके हस्तं मम त्वं कृपयार्पय ।
सर्वराजगृहे लक्ष्मि त्वत्कला मयि तिष्ठतु ॥ 56 ॥

आद्यादि श्रीमहालक्ष्मि विष्णुवामांकसंस्थिते ।
प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ॥ 57 ॥

प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे ।
अचला भव संप्रीत्या सुस्थिरा भव मद्गृहे ॥ 58 ॥

यावत्तिष्ठंति वेदाश्च यावच्चंद्रदिवाकरौ ।
यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि ॥ 59 ॥

चांद्रीकला यथा शुक्ले वर्धते सा दिने दिने ।
तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ 60 ॥

यथा वैकुंठनगरे यथा वै क्षीरसागरे ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ 61 ॥

योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ 62 ॥

नारायणस्य हृदये भवती यथास्ते
नारायणोऽपि तव हृत्कमले यथास्ते ।
नारायणस्त्वमपि नित्यमुभौ तथैव
तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ॥ 63 ॥

विज्ञानवृद्धिं हृदये कुरु श्रीः
सौभाग्यवृद्धिं कुरु मे गृहे श्रीः ।
दयासुवृद्धिं कुरुतां मयि श्रीः
सुवर्णवृद्धिं कुरु मे गृहे श्रीः ॥ 64 ॥

न मां त्यजेथाः श्रितकल्पवल्लि
सद्भक्तचिंतामणिकामधेनो ।
विश्वस्य मातर्भव सुप्रसन्ना
गृहे कलत्रेषु च पुत्रवर्गे ॥ 65 ॥

आद्यादिमाये त्वमजांडबीजं
त्वमेव साकारनिराकृतिस्त्वम् ।
त्वया धृताश्चाब्जभवांडसंघा-
-श्चित्रं चरित्रं तव देवि विष्णोः ॥ 66 ॥

ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः ।
महिमानं तव स्तोतुं मंदोऽहं शक्नुयां कथम् ॥ 67 ॥

अंब त्वद्वत्सवाक्यानि सूक्तासूक्तानि यानि च ।
तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् ॥ 68 ॥

भवतीं शरणं गत्वा कृतार्थाः स्युः पुरातनाः ।
इति संचिंत्य मनसा त्वामहं शरणं व्रजे ॥ 69 ॥

अनंता नित्यसुखिनस्त्वद्भक्तास्त्वत्परायणाः ।
इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ॥ 70 ॥

तव प्रतिज्ञा मद्भक्ता न नश्यंतीत्यपि क्वचित् ।
इति संचिंत्य संचिंत्य प्राणान् संधारयाम्यहम् ॥ 71 ॥

त्वदधीनस्त्वहं मातस्त्वत्कृपा मयि विद्यते ।
यावत्संपूर्णकामः स्यात्तावद्देहि दयानिधे ॥ 72 ॥

क्षणमात्रं न शक्नोमि जीवितुं त्वत्कृपां विना ।
न जीवंतीह जलजा जलं त्यक्त्वा जलग्रहाः ॥ 73 ॥

यथा हि पुत्रवात्सल्याज्जननी प्रस्नुतस्तनी ।
वत्सं त्वरितमागत्य संप्रीणयति वत्सला ॥ 74 ॥

यदि स्यां तव पुत्रोऽहं माता त्वं यदि मामकी ।
दयापयोधरस्तन्यसुधाभिरभिषिंच माम् ॥ 75 ॥

मृग्यो न गुणलेशोऽपि मयि दोषैकमंदिरे ।
पांसूनां वृष्टिबिंदूनां दोषाणां च न मे मतिः ॥ 76 ॥

पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ 77 ॥

विधिनाहं न सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ 78 ॥

कृपा मदग्रजा किं ते अहं किं वा तदग्रजः ।
विचार्य देहि मे वित्तं तव देवि दयानिधे ॥ 79 ॥

माता पिता त्वं गुरुसद्गतिः श्री-
-स्त्वमेव संजीवनहेतुभूता ।
अन्यं न मन्ये जगदेकनाथे
त्वमेव सर्वं मम देवि सत्ये ॥ 80 ॥

आद्यादिलक्ष्मीर्भव सुप्रसन्ना
विशुद्धविज्ञानसुखैकदोग्ध्री ।
अज्ञानहंत्री त्रिगुणातिरिक्ता
प्रज्ञाननेत्री भव सुप्रसन्ना ॥ 81 ॥

अशेषवाग्जाड्यमलापहंत्री
नवं नवं स्पष्टसुवाक्प्रदायिनी ।
ममेह जिह्वाग्र सुरंगनर्तकी [नर्तिनी]
भव प्रसन्ना वदने च मे श्रीः ॥ 82 ॥

समस्तसंपत्सुविराजमाना
समस्ततेजश्चयभासमाना ।
विष्णुप्रिये त्वं भव दीप्यमाना
वाग्देवता मे नयने प्रसन्ना ॥ 83 ॥

सर्वप्रदर्शे सकलार्थदे त्वं
प्रभासुलावण्यदयाप्रदोग्ध्री ।
सुवर्णदे त्वं सुमुखी भव श्री-
-र्हिरण्मयी मे नयने प्रसन्ना ॥ 84 ॥

सर्वार्थदा सर्वजगत्प्रसूतिः
सर्वेश्वरी सर्वभयापहंत्री ।
सर्वोन्नता त्वं सुमुखी भव श्री-
-र्हिरण्मयी मे नयने प्रसन्ना ॥ 85 ॥

समस्तविघ्नौघविनाशकारिणी
समस्तभक्तोद्धरणे विचक्षणा ।
अनंतसौभाग्यसुखप्रदायिनी
हिरण्मयी मे नयने प्रसन्ना ॥ 86 ॥

देवि प्रसीद दयनीयतमाय मह्यं
देवाधिनाथभवदेवगणाभिवंद्ये ।
मातस्तथैव भव सन्निहिता दृशोर्मे
पत्या समं मम मुखे भव सुप्रसन्ना ॥ 87 ॥

मा वत्स भैरभयदानकरोऽर्पितस्ते
मौलौ ममेति मयि दीनदयानुकंपे ।
मातः समर्पय मुदा करुणाकटाक्षं
मांगल्यबीजमिह नः सृज जन्म मातः ॥ 88 ॥

कटाक्ष इह कामधुक्तव मनस्तु चिंतामणिः
करः सुरतरुः सदा नवनिधिस्त्वमेवेंदिरे ।
भवे तव दयारसो मम रसायनं चान्वहं
मुखं तव कलानिधिर्विविधवांछितार्थप्रदम् ॥ 89 ॥

यथा रसस्पर्शनतोऽयसोऽपि
सुवर्णता स्यात्कमले तथा ते ।
कटाक्षसंस्पर्शनतो जनाना-
-ममंगलानामपि मंगलत्वम् ॥ 90 ॥

देहीति नास्तीति वचः प्रवेशा-
-द्भीतो रमे त्वां शरणं प्रपद्ये ।
अतः सदाऽस्मिन्नभयप्रदा त्वं
सहैव पत्या मयि सन्निधेहि ॥ 91 ॥

कल्पद्रुमेण मणिना सहिता सुरम्या
श्रीस्ते कला मयि रसेन रसायनेन ।
आस्तां यतो मम शिरःकरदृष्टिपाद-
-स्पृष्टाः सुवर्णवपुषः स्थिरजंगमाः स्युः ॥ 92 ॥

आद्यादिविष्णोः स्थिरधर्मपत्नी
त्वमेव पत्या मयि सन्निधेहि ।
आद्यादिलक्ष्मि त्वदनुग्रहेण
पदे पदे मे निधिदर्शनं स्यात् ॥ 93 ॥

आद्यादिलक्ष्मीहृदयं पठेद्यः
स राज्यलक्ष्मीमचलां तनोति ।
महादरिद्रोऽपि भवेद्धनाढ्य-
-स्तदन्वये श्रीः स्थिरतां प्रयाति ॥ 94 ॥

यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा ।
तस्याभीष्टं ददत्याशु तं पालयति पुत्रवत् ॥ 95 ॥

इदं रहस्यं हृदयं सर्वकामफलप्रदम् ।
जपः पंचसहस्रं तु पुरश्चरणमुच्यते ॥ 96 ॥

त्रिकालमेककालं वा नरो भक्तिसमन्वितः ।
यः पठेच्छृणुयाद्वापि स याति परमां श्रियम् ॥ 97 ॥

महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे ।
इदं श्रीहृदयं जप्त्वा पंचवारं धनी भवेत् ॥ 98 ॥

अनेन हृदयेनान्नं गर्भिण्या अभिमंत्रितम् ।
ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ॥ 99 ॥

नरेण वाऽथवा नार्या लक्ष्मीहृदयमंत्रिते ।
जले पीते च तद्वंशे मंदभाग्यो न जायते ॥ 100 ॥

य आश्विने मासि च शुक्लपक्षे
रमोत्सवे सन्निहिते सुभक्त्या ।
पठेत्तथैकोत्तरवारवृद्ध्या
लभेत्स सौवर्णमयीं सुवृष्टिम् ॥ 101 ॥

य एकभक्तोऽन्वहमेकवर्षं
विशुद्धधीः सप्ततिवारजापी ।
स मंदभाग्योऽपि रमाकटाक्षा-
-द्भवेत्सहस्राक्षशताधिकश्रीः ॥ 102 ॥

श्रीशांघ्रिभक्तिं हरिदासदास्यं
प्रसन्नमंत्रार्थदृढैकनिष्ठाम् ।
गुरोः स्मृतिं निर्मलबोधबुद्धिं
प्रदेहि मातः परमं पदं श्रीः ॥ 103 ॥

पृथ्वीपतित्वं पुरुषोत्तमत्वं
विभूतिवासं विविधार्थसिद्धिम् ।
संपूर्णकीर्तिं बहुवर्षभोगं
प्रदेहि मे लक्ष्मि पुनः पुनस्त्वम् ॥ 104 ॥

वादार्थसिद्धिं बहुलोकवश्यं
वयः स्थिरत्वं ललनासुभोगम् ।
पौत्रादिलब्धिं सकलार्थसिद्धिं
प्रदेहि मे भार्गवि जन्मजन्मनि ॥ 105 ॥

सुवर्णवृद्धिं कुरु मे गृहे श्रीः
सुधान्यवृद्धिं कुरू मे गृहे श्रीः ।
कल्याणवृद्धिं कुरु मे गृहे श्रीः
विभूतिवृद्धिं कुरु मे गृहे श्रीः ॥ 106 ॥

ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां
विद्युद्वर्णांबरवरधरां भूषणाढ्यां सुशोभाम् ।
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं
भर्त्रायुक्तां मुहुरभयदां मह्यमप्यच्युतश्रीः ॥ 107 ॥

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिता ॥ 108 ॥

इति श्रीअथर्वणरहस्ये श्रीलक्ष्मीहृदयस्तोत्रं संपूर्णम् ॥