कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-ञ्चतुर्थकाण्डे तृतीयः प्रश्नः – चितिवर्णनं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अ॒पा-न्त्वेम᳚न्-थ्सादयाम्य॒पा-न्त्वोद्म᳚न्-थ्सादयाम्य॒पा-न्त्वा॒ भस्म᳚न्-थ्सादयाम्य॒पा-न्त्वा॒ ज्योति॑षि सादयाम्य॒पा-न्त्वा-ऽय॑ने सादयाम्यर्ण॒वे सद॑ने सीद समु॒द्रे सद॑ने सीद सलि॒ले सद॑ने सीदा॒पा-ङ्क्षये॑ सीदा॒पाग्ं सधि॑षि सीदा॒पा-न्त्वा॒ सद॑ने सादयाम्य॒पा-न्त्वा॑ स॒धस्थे॑ सादयाम्य॒पा-न्त्वा॒ पुरी॑षे सादयाम्य॒पा-न्त्वा॒ योनौ॑ सादयाम्य॒पा-न्त्वा॒ पाथ॑सि सादयामि गाय॒त्री छन्द॑-स्त्रि॒ष्टु-प्छन्दो॒ जग॑ती॒ छन्दो॑-ऽनु॒ष्टु-प्छन्दः॑ प॒ङ्क्तिश्छन्दः॑ ॥ 1 ॥
(योनौ॒ – पञ्च॑दश च) (अ. 1)
अ॒य-म्पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्र-ङ्गा॑य॒त्रादु॑पा॒ग्ं॒ शुरु॑पा॒ग्ं॒ शोस्त्रि॒वृ-त्त्रि॒वृतो॑ रथन्त॒रग्ं र॑थन्त॒रा-द्वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑ति गृहीतया॒ त्वया᳚ प्रा॒ण-ङ्गृ॑ह्णामि प्र॒जाभ्यो॒-ऽय-न्द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒ण-ङ्ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑ ऐ॒डमै॒डा-द॑न्तर्या॒मो᳚ ऽन्तर्या॒मा-त्प॑ञ्चद॒शः प॑ञ्चद॒शा-द्बृ॒ह-द्बृ॑ह॒तो भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑ति गृहीतया॒ त्वया॒ मनो॑ [त्वया॒ मनः॑, गृ॒ह्णा॒मि॒ प्र॒जाभ्यो॒-ऽय-] 2
गृह्णामि प्र॒जाभ्यो॒-ऽय-म्प॒श्चा-द्वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सं-वँ॒र्॒षाणि॑ चाक्षु॒षाणि॒ जग॑ती वा॒र्॒षी जग॑त्या॒ ऋक्ष॑म॒मृक्ष॑माच्छु॒क्र-श्शु॒क्रा-थ्स॑प्तद॒श-स्स॑प्तद॒शा-द्वै॑रू॒पं-वैँ॑रू॒पा-द्वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑ति गृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑ इ॒दमु॑त्त॒रा-थ्सुव॒स्तस्य॒ श्रोत्रग्ं॑ सौ॒वग्ं श॒रच्छ्रौ॒त्र्य॑नु॒ष्टुप्-छा॑र॒द्य॑नु॒ष्टुभ॑-स्स्वा॒रग्ग् स्वा॒रान्म॒न्थी म॒न्थिन॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शा-द्वै॑रा॒जं-वैँ॑रा॒जाज्ज॒मद॑ग्नि॒र्॒ ऋषिः॑ प्र॒जाप॑ति गृहीतया॒ [गृहीतया, त्वया॒] 3
त्वया॒ श्रोत्र॑-ङ्गृह्णामि प्र॒जाभ्य॑ इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाम्मा॒ती हे॑म॒न्तो वा᳚च्याय॒नः प॒ङ्क्तिर्है॑म॒न्ती प॒क्त्यै-न्नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ᳚ग्रय॒णा-त्त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शाभ्याग्ं॑ शाक्वररैव॒ते शा᳚क्वररैव॒ताभ्यां᳚-विँ॒श्वक॒र्मर्षिः॑ प्र॒जाप॑ति गृहीतया॒ त्वया॒ वाच॑-ङ्गृह्णामि प्र॒जाभ्यः॑ ॥ 4 ॥
(त्वया॒ मनो॑-ज॒मद॑ग्नि॒र्॒ऋषिः॑ प्र॒जाप॑तिगृहीतया-त्रि॒ग्ं॒शच्च॑) (अ. 2)
प्राची॑ दि॒शां-वँ॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑ण-न्त्रि॒वृ-थ्स्तोम॒-स्स उ॑ पञ्चद॒शव॑र्तनि॒-स्त्र्यवि॒र्वयः॑ कृ॒तमया॑ना-म्पुरोवा॒तो वात॒-स्सान॑ग॒ ऋषि॑र्दक्षि॒णा दि॒शा-ङ्ग्री॒ष्म ऋ॑तू॒नामिन्द्रो॑ दे॒वता᳚ क्ष॒त्र-न्द्रवि॑ण-म्पञ्चद॒श-स्स्तोम॒-स्स उ॑ सप्तद॒श व॑र्तनि-र्दि॑त्य॒वाड्-वय॒स्त्रेता-ऽया॑ना-न्दक्षिणाद्वा॒तो वात॑-स्सना॒तन॒ ऋषिः॑ प्र॒तीची॑ दि॒शां-वँ॒र्॒षा ऋ॑तू॒नां-विँश्वे॑ दे॒वा दे॒वता॒ वि- [दे॒वता॒ विट्, द्रवि॑णग्ं] 5
-ड्द्रवि॑णग्ं सप्तद॒श स्तोम॒-स्स उ॑ वेकवि॒ग्ं॒ शव॑र्तनि-स्त्रिव॒थ्सो वयो᳚ द्वाप॒रो-ऽया॑ना-म्पश्चाद्वा॒तो वातो॑-ऽह॒भून॒ ऋषि॒रुदी॑ची दि॒शाग्ं श॒रद्-ऋ॑तू॒ना-म्मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्ट-न्द्रवि॑णमेकवि॒ग्ं॒श-स्स्तोम॒-स्स उ॑ त्रिण॒वव॑र्तनि-स्तुर्य॒वा-ड्वय॑ आस्क॒न्दो ऽया॑नामुत्तरा-द्वा॒तो वातः॑ प्र॒त्न ऋषि॑रू॒र्ध्वा दि॒शाग्ं हे॑मन्तशिशि॒रावृ॑तू॒ना-म्बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑ण-न्त्रिण॒व स्तोम॒-स्स उ॑ त्रयस्त्रि॒ग्ं॒शव॑र्तनिः पष्ठ॒वाद्वयो॑ ऽभि॒भूरया॑नां-विँष्वग्वा॒तो वात॑-स्सुप॒र्ण ऋषिः॑ पि॒तरः॑ पिताम॒हाः परे-ऽव॑रे॒ ते नः॑ पान्तु॒ ते नो॑-ऽवन्त्व॒स्मि-न्ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚-ऽस्या-मा॒शिष्य॒स्या-म्पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्या-न्दे॒वहू᳚त्याम् ॥ 6 ॥
(विट् – प॑ष्ठ॒वा-द्वयो॒ – ऽष्टाविग्ं॑शतिश्च) (अ. 3)
ध्रु॒वक्षि॑ति -र्ध्रु॒वयो॑नि-र्ध्रु॒वा-ऽसि॑ ध्रु॒वां-योँनि॒मा सी॑द सा॒द्ध्या । उख्य॑स्य के॒तु-म्प्र॑थ॒म-म्पु॒रस्ता॑द॒श्विना᳚-ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती ररा॑णा । स्वा॒स॒स्था त॒नुवा॒ सं-विँ॑शस्व पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॒-ऽश्विना᳚द्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ कु॒ला॒यिनी॒ वसु॑मती वयो॒धा र॒यि-न्नो॑ वर्ध बहु॒लग्ं सु॒वीर᳚म् । 7
अपाम॑ति-न्दुर्म॒ति-म्बाध॑माना रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒ सुव॑र्धेहि॒ यज॑मानाय॒ पोष॑म॒श्विना᳚-ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ अ॒ग्नेः पुरी॑षमसि देव॒यानी॒ ता-न्त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा ऽऽय॑जस्वा॒श्विना᳚ ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ दि॒वो मू॒र्धा-ऽसि॑ पृथि॒व्या नाभि॑र्वि॒ष्टम्भ॑नी दि॒शामधि॑पत्नी॒ भुव॑नानाम् । 8
ऊ॒र्मिर्द्र॒फ्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना᳚-ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ स॒जूर्-ऋ॒तुभि॑-स्स॒जूर्वि॒धाभि॑-स्स॒जूर्वसु॑भि-स्स॒जू रु॒द्रै-स्स॒जूरा॑दि॒त्यै-स्स॒जूर्विश्वै᳚र्दे॒वै-स्स॒जूर्दे॒वै-स्स॒जूर्दे॒वैर्व॑यो-ना॒धैर॒ग्नये᳚ त्वा वैश्वान॒राया॒श्विना᳚-ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ प्रा॒ण-म्मे॑ पाह्यपा॒न-म्मे॑ पाहि व्या॒न-म्मे॑ पाहि॒ चक्षु॑र्म उ॒र्व्या वि भा॑हि॒ श्रोत्र॑-म्मे श्लोकया॒प-स्पि॒न्वौष॑धीर्जिन्व द्वि॒पा-त्पा॑हि॒ चतु॑ष्पादव दि॒वो वृष्टि॒मेर॑य ॥ 9 ॥
(सु॒वीरं॒ – भुव॑नाना – मु॒र्व्या – स॒प्तद॑श च) (अ. 4)
त्र्यवि॒र्वय॑स्त्रि॒ष्टु-प्छन्दो॑ दित्य॒वा-ड्वयो॑ वि॒राट् छन्दः॒ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒थ्सो वय॑ उ॒ष्णिहा॒ छन्द॑ स्तुर्य॒वा-ड्वयो॑-ऽनु॒ष्टु-प्छन्दः॑ पष्ठ॒वा-द्वयो॑ बृह॒ती छन्द॑ उ॒क्षा वय॑-स्स॒तोबृ॑हती॒ छन्द॑ ऋष॒भो वयः॑ क॒कुच्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्दो॑-ऽन॒ड्वान्. वयः॑ प॒ङ्क्ति श्छन्दो॑ ब॒स्तो वयो॑ विव॒ल-ञ्छन्दो॑ वृ॒ष्णिर्वयो॑ विशा॒ल-ञ्छन्दः॒ पुरु॑षो॒ वय॑ स्त॒न्द्र-ञ्छन्दो᳚ व्या॒घ्रो वयो-ऽना॑धृष्ट॒-ञ्छन्द॑-स्सि॒ग्ं॒हो वय॑ श्छ॒दि श्छन्दो॑ विष्ट॒भों-वँयो-ऽधि॑पति॒ श्छन्दः॑, क्ष॒त्रं-वँयो॒ मय॑न्द॒-ञ्छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दो॑ मू॒र्धा वयः॑ प्र॒जाप॑ति॒ श्छन्दः॑ ॥ 10 ॥
(पुरु॑षो॒ वयः॒ – ष-ड्विग्ं॑शतिश्च) (अ. 5)
इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिष्ट॑का-न्दृग्ंहतं-युँ॒वम् । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष-ञ्च॒ वि बा॑धताम् ॥ वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वती॒-म्प्रथ॑स्वती॒-म्भास्व॑तीग्ं सूरि॒मती॒मा या द्या-म्भास्या पृ॑थि॒वीमोर्व॑न्तरि॑क्ष-म॒न्तरि॑क्षं-यँच्छा॒न्तरि॑क्ष-न्दृग्ंहा॒न्तरि॑क्ष॒-म्मा हिग्ं॑सी॒ र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒युस्त्वा॒-ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ [छ॒र्दिषा᳚, शन्त॑मेन॒ तया॑] 11
शन्त॑मेन॒ तया॑ दे॒व॑तया-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ राज्ञ्य॑सि॒ प्राची॒ दिग्-वि॒राड॑सि दक्षि॒णा दि-ख्स॒म्राड॑सि प्र॒तीची॒ दिख्-स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिगायु॑र्मे पाहि प्रा॒ण-म्मे॑ पाह्यपा॒न-म्मे॑ पाहि व्या॒न-म्मे॑ पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्र॑-म्मे पाहि॒ मनो॑ मे जिन्व॒ वाच॑-म्मे पिन्वा॒ ऽऽत्मान॑-म्मे पाहि॒ ज्योति॑र्मे यच्छ ॥ 12 ॥
(छ॒र्दिषा॑ – पिन्व॒ – षट्च॑) (अ. 6)
मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दो᳚-ऽस्री॒वि श्छन्दः॑ प॒ङ्क्ति श्छन्द॑ उ॒ष्णिहा॒ छन्दो॑ बृह॒ती छन्दो॑-ऽनु॒ष्टु-प्छन्दो॑ वि॒राट् छन्दो॑ गाय॒त्री छन्द॑-स्त्रि॒ष्टु-प्छन्दो॒ जग॑ती॒ छन्दः॑ पृथि॒वी छन्दो॒ ऽन्तरि॑क्ष॒-ञ्छन्दो॒ द्यौ श्छन्द॒-स्समा॒ श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ मन॒ श्छन्दो॒ वाक् छन्दः॑ कृ॒षि श्छन्दो॒ हिर॑ण्य॒-ञ्छन्दो॒ गौ श्छन्दो॒ ऽजा छन्दो ऽश्व॒ श्छन्दः॑ ॥ अ॒ग्निर्दे॒वता॒ [अ॒ग्निर्दे॒वता᳚, वातो॑ दे॒वता॒] 13
वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ ऽऽदि॒त्या दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॑ म॒रुतो॑ दे॒वता॒ बृह॒स्पति॑ र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ मू॒र्धा-ऽसि॒ रा-ड्ध्रु॒वा-ऽसि॑ ध॒रुणा॑ य॒न्त्र्य॑सि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा॒ यन्त्री॒ रा-ड्ध्रु॒वा-ऽसि॒ धर॑णी ध॒र्त्र्य॑सि॒ धरि॒त्र्यायु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से त्वा॒ बला॑य त्वा ॥ 14 ॥
(दे॒वता – ऽऽयु॑षे त्वा॒ – षट् च॑ ) (अ. 7)
आ॒शुस्त्रि॒वृ-द्भा॒न्तः प॑ञ्चद॒शो व्यो॑म सप्तद॒शः प्रतू᳚र्तिरष्टाद॒श स्तपो॑ नवद॒शो॑ ऽभिव॒र्त-स्स॑वि॒ग्ं॒शो ध॒रुण॑ एकवि॒ग्ं॒शो वर्चो᳚ द्वावि॒ग्ं॒श-स्स॒म्भर॑णस्त्रयोवि॒ग्ं॒शो योनि॑श्चतुर्वि॒ग्ं॒शो गर्भाः᳚ पञ्चवि॒ग्ं॒श ओज॑स्त्रिण॒वः क्रतु॑रेकत्रि॒ग्ं॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ग्ं॒शो ब्र॒द्ध्नस्य॑ वि॒ष्टप॑-ञ्चतुस्त्रि॒ग्ं॒शो नाक॑-ष्षट्त्रि॒ग्ं॒शो वि॑व॒र्तो᳚-ऽष्टाचत्वारि॒ग्ं॒शो ध॒र्त्रश्च॑तुष्टो॒मः ॥ 15 ॥
(आ॒शुः – स॒प्तत्रिग्ं॑शत्) (अ. 8)
अ॒ग्नेर्भा॒गो॑-ऽसि दी॒क्षाया॒ आधि॑पत्य॒-म्ब्रह्म॑ स्पृ॒त-न्त्रि॒वृ-थ्स्तोम॒ इन्द्र॑स्य भा॒गो॑-ऽसि॒ विष्णो॒राधि॑पत्य-ङ्क्ष॒त्रग्ग् स्पृ॒त-म्प॑ञ्चद॒श-स्स्तोमो॑ नृ॒चक्ष॑सा-म्भा॒गो॑-ऽसि धा॒तुराधि॑पत्य-ञ्ज॒नित्रग्ग्॑ स्पृ॒तग्ं स॑प्तद॒श-स्स्तोमो॑ मि॒त्रस्य॑ भा॒गो॑-ऽसि॒ वरु॑ण॒स्या-ऽऽधि॑पत्य-न्दि॒वो वृ॒ष्टिर्वाता᳚-स्स्पृ॒ता ए॑कवि॒ग्ं॒श-स्स्तोमो-ऽदि॑त्यै भा॒गो॑-ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑-स्स्पृ॒त-न्त्रि॑ण॒व-स्स्तोमो॒ वसू॑ना-म्भा॒गो॑-ऽसि [ ] 16
रु॒द्राणा॒माधि॑पत्य॒-ञ्चतु॑ष्पा-थ्स्पृ॒त-ञ्च॑तुर्वि॒ग्ं॒श-स्स्तोम॑ आदि॒त्याना᳚-म्भा॒गो॑-ऽसि म॒रुता॒माधि॑पत्य॒-ङ्गर्भा᳚-स्स्पृ॒ताः प॑ञ्चवि॒ग्ं॒श-स्स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो॑-ऽसि॒ बृह॒स्पते॒राधि॑पत्यग्ं स॒मीची॒र्दिश॑-स्स्पृ॒ताश्च॑तुष्टो॒म-स्स्तोमो॒ यावा॑ना-म्भा॒गो᳚-ऽस्यया॑वाना॒माधि॑पत्य-म्प्र॒जा-स्स्पृ॒ता-श्च॑तु-श्चत्वारि॒ग्ं॒श-स्स्तोम॑ ऋभू॒णा-म्भा॒गो॑-ऽसि॒ विश्वे॑षा-न्दे॒वाना॒माधि॑पत्य-म्भू॒त-न्निशा᳚न्तग्ग् स्पृ॒त-न्त्र॑यस्त्रि॒ग्ं॒श-स्स्तोमः॑ ॥ 17 ॥
(वसू॑ना-म्भा॒गो॑-ऽसि॒ – षट्च॑त्वारिग्ंशच्च) (अ. 9)
एक॑या-ऽस्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासी-त्ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒-रधि॑पतिरासी-त्प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒ताना॒-म्पति॒रधि॑पतिरासी-थ्स॒प्तभि॑रस्तुवत सप्त॒र्॒षयो॑-ऽसृज्यन्त धा॒ता-धि॑पतिरासी-न्न॒वभि॑रस्तुवत पि॒तरो॑-ऽसृज्य॒न्ता-ऽदि॑ति॒रधि॑पत्न्यासी-देकाद॒शभि॑-रस्तुवत॒र्तवो॑-ऽ सृज्यन्ता- ऽऽर्त॒वो-ऽधि॑पति-रासी-त्त्रयोद॒शभि॑-रस्तुवत॒ मासा॑ असृज्यन्त संवँथ्स॒रो-ऽधि॑पति- [-ऽधि॑पतिः, आ॒सी॒-त्प॒ञ्च॒द॒शभि॑रस्तुवत] 18
-रासी-त्पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रो ऽधि॑पतिरासी-थ्सप्तद॒शभि॑रस्तुवत प॒शवो॑-ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पति-रासीन्नवद॒शभि॑-रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विग्ं शत्या-ऽस्तुव॒तैक॑शफाः प॒शवो॑-ऽसृज्यन्त॒ वरु॒णो ऽधि॑पतिरासी॒-त्त्रयो॑विग्ंशत्या-ऽस्तुवत क्षु॒द्राः प॒शवो॑-ऽसृज्यन्त पू॒षा ऽधि॑पतिरासी॒-त्पञ्च॑विग्ंशत्या ऽस्तुवता-ऽऽर॒ण्याः प॒शवो॑-ऽसृज्यन्त वा॒युरधि॑पतिरासी-थ्स॒प्तविग्ं॑शत्या-ऽस्तुवत॒ द्यावा॑पृथि॒वी व्यै॑- [द्यावा॑पृथि॒वी वि, ई॒तां॒-वँस॑वो रु॒द्रा] 19
-तां॒-वँस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑य॒-न्तेषा॒माधि॑पत्यमासी॒-न्नव॑विग्ं शत्या-ऽस्तुवत॒ वन॒स्पत॑यो-ऽसृज्यन्त॒ सोमो ऽधि॑पतिरासी॒-देक॑त्रिग्ंशता ऽस्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑ना॒-ञ्चाया॑वाना॒-ञ्चा-ऽऽधि॑पत्यमासी॒-त्त्रय॑स्त्रिग्ंशता ऽस्तुवत भू॒तान्य॑शाम्य-न्प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ॥ 20 ॥
(सं॒वँ॒थ्स॒रो-ऽधि॑पति॒- र्वि – पञ्च॑त्रिग्ंशच्च) (अ. 10)
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्या-ञ्च॑रति॒ प्रवि॑ष्टा । व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एना-म्महि॒मान॑-स्सचन्ते ॥ छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नं-योँनि॒मनु॑ स॒ञ्चर॑न्ती । सूर्य॑पत्नी॒ वि च॑रतः प्रजान॒ती के॒तु-ङ्कृ॑ण्वा॒ने अ॒जर॒ भूरि॑रेतसा ॥ ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आ-ऽगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षा-ऽऽगुः॑ । प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका᳚ [ ] 21
व्र॒तमेका॑ रक्षति देवयू॒नाम् ॥ च॒तु॒ष्टो॒मो अ॑भव॒द्या तु॒रीया॑ य॒ज्ञस्य॑ प॒क्षावृ॑षयो॒ भव॑न्ती । गा॒य॒त्री-न्त्रि॒ष्टुभ॒-ञ्ज॑गतीमनु॒ष्टुभ॑-म्बृ॒हद॒र्कं-युँ॑ञ्जा॒ना-स्सुव॒रा-ऽभ॑रन्नि॒दम् ॥ प॒ञ्चभि॑र्धा॒ता वि द॑धावि॒दं-यँ-त्तासा॒ग्॒ स्वसॄ॑रजनय॒-त्पञ्च॑पञ्च । तासा॑मु यन्ति प्रय॒वेण॒ पञ्च॒ नाना॑ रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः ॥ त्रि॒ग्ं॒श-थ्स्वसा॑र॒ उप॑यन्ति निष्कृ॒तग्ं स॑मा॒न-ङ्के॒तु-म्प्र॑तिमु॒ञ्चमा॑नाः । 22
ऋ॒तूग्स्त॑न्वते क॒वयः॑ प्रजान॒तीर्मद्ध्ये॑छन्दसः॒ परि॑ यन्ति॒ भास्व॑तीः ॥ ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒ रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑ । वि प॑श्यन्ति प॒शवो॒ जाय॑माना॒ नाना॑रूपा मा॒तुर॒स्या उ॒पस्थे᳚ ॥ ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भ॑-म्महि॒मान॒मिन्द्र᳚म् । तेन॒ दस्यू॒न् व्य॑सहन्त दे॒वा ह॒न्ता-ऽसु॑राणा-मभव॒च्छची॑भिः ॥ अना॑नुजामनु॒जा-म्माम॑कर्त स॒त्यं-वँद॒न्त्यन्वि॑च्छ ए॒तत् । भू॒यास॑- [भू॒यास᳚म्, अ॒स्य॒ सु॒म॒तौ यथा॑] 23
मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त ॥ अभू॒न्मम॑ सुम॒तौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठामवि॑द॒द्धि गा॒धम् । भू॒यास॑मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्रयु॑क्त ॥ पञ्च॒ व्यु॑ष्टी॒रनु॒ पञ्च॒ दोहा॒ गा-म्पञ्च॑नाम्नीमृ॒तवो-ऽनु॒ पञ्च॑ । पञ्च॒ दिशः॑ पञ्चद॒शेन॑ कॢ॒प्ता-स्स॑मा॒नमू᳚र्ध्नीर॒भि लो॒कमेक᳚म् ॥ 24 ॥
ऋ॒तस्य॒ गर्भः॑ प्रथ॒मा व्यू॒षुष्य॒पामेका॑ महि॒मान॑-म्बिभर्ति । सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑ सवि॒तैका॒-न्नि य॑च्छति ॥ या प्र॑थ॒मा व्यौच्छ॒-थ्सा धे॒नुर॑भवद्य॒मे । सा नः॒ पय॑स्वती धु॒क्ष्वोत्त॑रामुत्तरा॒ग्ं॒ समा᳚म् ॥ शु॒क्रर्ष॑भा॒ नभ॑सा॒ ज्योति॒षा ऽऽगा᳚-द्वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः । स॒मा॒नमर्थग्ग्॑ स्वप॒स्यमा॑ना॒ बिभ्र॑ती ज॒राम॑जर उष॒ आ-ऽगाः᳚ ॥ ऋ॒तू॒ना-म्पत्नी᳚ प्रथ॒मेयमा-ऽगा॒दह्ना᳚-न्ने॒त्री ज॑नि॒त्री प्र॒जाना᳚म् । एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑च्छ॒स्यजी᳚र्णा॒ त्व-ञ्ज॑रयसि॒ सर्व॑म॒न्यत् ॥ 25 ॥
(ऊर्ज॒मेका᳚ – प्रतिमु॒ञ्चमा॑ना – भू॒यास॒ – मेकं॒ – पत्न्ये का॒न्न विग्ं॑श॒तिश्च॑) (अ. 11)
अग्ने॑ जा॒ता-न्प्रणु॑दा न-स्स॒पत्ना॒-न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒-न्तव॑ स्या॒ग्ं॒ शर्म॑-न्त्रि॒वरू॑थ उ॒द्भित् ॥ सह॑सा जा॒ता-न्प्रणु॑दान-स्स॒पत्ना॒-न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यग्ग् स्या॑म॒ प्रणु॑दा न-स्स॒पत्नान्॑ ॥ च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श-स्स्तोमो॒ वर्चो॒ द्रवि॑णग्ं षोड॒श-स्स्तोम॒ ओजो॒ द्रवि॑ण-म्पृथि॒व्याः पुरी॑षम॒- [पुरी॑षमसि, अफ्सो॒ नाम॑ ।] 26
-स्यफ्सो॒ नाम॑ । एव॒ श्छन्दो॒ वरि॑व॒ श्छन्द॑-श्श॒भूं श्छन्दः॑ परि॒भू श्छन्द॑ आ॒च्छच्छन्दो॒ मन॒ श्छन्दो॒ व्यच॒ श्छन्द॒-स्सिन्धु॒ श्छन्द॑-स्समु॒द्र-ञ्छन्द॑-स्सलि॒ल-ञ्छन्द॑-स्सं॒यँच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्त॒र-ञ्छन्दो॑ निका॒य श्छन्दो॑ विव॒ध श्छन्दो॒ गिर॒ श्छन्दो॒ भ्रज॒ श्छन्द॑-स्स॒ष्टु-प्छन्दो॑ ऽनु॒ष्टु-प्छन्दः॑ क॒कुच्छन्द॑ स्त्रिक॒कुच्छन्दः॑ का॒व्य-ञ्छन्दो᳚ -ऽङ्कु॒प-ञ्छन्दः॑ [-ऽङ्कु॒प-ञ्छन्दः॑, प॒दप॑ङ्क्ति॒ श्छन्दो॒] 27
प॒दप॑ङ्क्ति॒ श्छन्दो॒ ऽक्षर॑पङ्क्ति॒ श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒ श्छन्दः॑, क्षु॒रो भृज्वा॒ञ्छन्दः॑ प्र॒च्छच्छन्दः॑ प॒क्ष श्छन्द॒ एव॒ श्छन्दो॒ वरि॑व॒ श्छन्दो॒ वय॒ श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒ल-ञ्छन्दो॒ विष्प॑र्धा॒ श्छन्द॑ श्छ॒दि श्छन्दो॑ दूरोह॒ण-ञ्छन्द॑स्त॒न्द्र-ञ्छन्दो᳚ ऽङ्का॒ङ्क-ञ्छन्दः॑ ॥ 28 ॥
(अ॒स्य॒ – ङ्कु॒पञ्छन्द॒ – स्त्रय॑स्त्रिग्ंशच्च) (अ. 12)
अ॒ग्निर्वृ॒त्राणि॑ जङ्घन-द्द्रविण॒स्युर्वि॑प॒न्यया᳚ । समि॑द्ध-श्शु॒क्र आहु॑तः ॥ त्वग्ं सो॑मासि॒ सत्प॑ति॒स्त्वग्ं राजो॒त वृ॑त्र॒हा । त्व-म्भ॒द्रो अ॑सि॒ क्रतुः॑ ॥ भ॒द्रा ते॑ अग्ने स्वनीक स॒दृङ्ग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ । न य-त्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नुवि॒ रेप॒ आ धुः॑ ॥ भ॒द्र-न्ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य । 29
रुश॑-द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚क्षित-न्दृ॒श आ रू॒पे अन्न᳚म् ॥ सैना-ऽनी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाग्ं आय॑जिष्ठ-स्स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒व-द्दि॑दीहि ॥ स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । य-थ्सी॒महि॑ दिविजात॒ प्रश॑स्त॒-न्तद॒स्मासु॒ द्रवि॑ण-न्धेहि चि॒त्रम् ॥ यथा॑ होत॒र्मनु॑षो [होत॒र्मनु॑षः, दे॒वता॑ता] 30
दे॒वता॑ता य॒ज्ञेभि॑-स्सूनो सहसो॒ यजा॑सि । ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒-शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥ अ॒ग्निमी॑डे पु॒रोहि॑तं-यँ॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता॑रग्ं रत्न॒धात॑मम् ॥ वृषा॑ सोम द्यु॒माग्ं अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥ सान्त॑पना इ॒दग्ं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ॥ यो नो॒ मर्तो॑ वसवो दुर्हृणा॒युस्ति॒र-स्स॒त्यानि॑ मरुतो॒ [मरुतः, जिघाग्ं॑सात् ।] 31
जिघाग्ं॑सात् । द्रु॒हः पाश॒-म्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥ सं॒वँ॒थ्स॒रीणा॑ म॒रुत॑-स्स्व॒र्का उ॑रु॒क्षया॒-स्सग॑णा॒ मानु॑षेषु । ते᳚-ऽस्म-त्पाशा॒-न्प्र मु॑ञ्च॒न्त्वग्ंह॑स-स्सान्तप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑ ॥ पि॒प्री॒हि दे॒वाग्ं उ॑श॒तो य॑विष्ठ वि॒द्वाग्ं ऋ॒तूग्ंर्-ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वग्ं होतॄ॑णाम॒स्याय॑जिष्ठः ॥ अग्ने॒ यद॒द्य वि॒शो अ॑द्ध्वरस्य होतः॒ पाव॑क [पाव॑क, शो॒चे॒ वेष्ट्वग्ं हि] 32
शोचे॒ वेष्ट्वग्ं हि यज्वा᳚ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥ अ॒ग्निना॑ र॒यि-म॑श्ञव॒-त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑-वीँ॒रव॑त्तमम् ॥ ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वि-त्पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्र-स्सो॑म नो भव ॥ गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ मा-ऽप॑ भूतन । प्र॒मु॒ञ्चन्तो॑ नो॒ अग्ंह॑सः ॥ पू॒र्वीभि॒र्॒हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् । महो॑भि- [महो॑भिः, च॒र्॒ष॒णी॒नाम् ।] 33
-श्चर्षणी॒नाम् ॥ प्रबु॒द्ध्निया॑ ईरते वो॒ महाग्ं॑सि॒ प्रणामा॑नि प्रयज्यवस्तिरद्ध्वम् । स॒ह॒स्रिय॒-न्दम्य॑-म्भा॒गमे॒त-ङ्गृ॑हमे॒धीय॑-म्मरुतो जुषद्ध्वम् ॥ उप॒ यमेति॑ युव॒ति-स्सु॒दक्ष॑-न्दो॒षा वस्तोर्॑. ह॒विष्म॑ती घृ॒ताची᳚ । उप॒ स्वैन॑म॒रम॑तिर्व-सू॒युः ॥ इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्या ऽज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न ईग्ं सुर॒भीणि॑ वियन्तु ॥ क्री॒डं-वँ॒-श्शर्धो॒ मारु॑तमन॒र्वाणग्ं॑ रथे॒शुभ᳚म् । 34
कण्वा॑ अ॒भि प्र गा॑यत ॥ अत्या॑सो॒ न ये म॒रुत॒-स्स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः᳚ । ते ह॑र्म्ये॒ष्ठा-श्शिश॑वो॒ न शु॒भ्रा व॒थ्सासो॒ न प्र॑क्री॒डिनः॑ पयो॒धाः ॥ प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टय-स्स्व॒य-म्म॑हि॒त्व-म्प॑नयन्त॒ धूत॑यः ॥ उ॒प॒ह्व॒रेषु॒ यदचि॑द्ध्वं-यँ॒यिं-वँय॑ इव मरुतः॒ केन॑ [केन॑, चि॒-त्प॒था ।] 35
चि-त्प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥ अ॒ग्निम॑ग्नि॒ग्ं॒ हवी॑मभि॒-स्सदा॑ हवन्त वि॒श्पति᳚म् । ह॒व्य॒वाह॑-म्पुरुप्रि॒यम् ॥ तग्ं हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒व-ङ्घृ॑त॒श्चुता᳚ । अ॒ग्निग्ं ह॒व्याय॒ वोढ॑वे ॥ इन्द्रा᳚ग्नी रोच॒ना दि॒व-श्श्ञथ॑द्वृ॒त्र मिन्द्रं॑-वोँ वि॒श्वत॒स्परीन्द्र॒-न्नरो॒ विश्व॑कर्मन्. ह॒विषा॑ वावृधा॒नो विश्व॑कर्मन्. ह॒विषा॒ वर्ध॑नेन ॥ 36 ॥
(सूर्य॑स्य॒ – मनु॑षो – मरुतः॒ – पाव॑क॒ – महो॑भी – रथे॒शुभ॒ – ङ्केन॒ – षड्च॑त्वारिग्ंशच्च) (अ. 13)
(अ॒पान्त्वेम॑ – न्न॒य-म्पु॒रो भुवः॒ – प्राची᳚ – ध्रु॒वक्षि॑ति॒ – स्त्र्यवि॒ – रिन्द्रा᳚ग्नी॒ – मा छन्द॑ – आ॒शुस्त्रि॒वृ – द॒ग्नेर्भा॒गो᳚ – ऽस्येक॑ – ये॒यमे॒व सा या – ऽग्ने॑ जा॒ता – न॒ग्निर्वृ॒त्राणि॒ – त्रयो॑दश )
(अ॒पान्त्वे – न्द्रा᳚ग्नी – इ॒यमे॒व – दे॒वता॑ता॒ – षट्त्रिग्ं॑शत् )
(अ॒पान्त्वेम॑न्, ह॒विषा॒ वर्ध॑नेन)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-ञ्चतुर्थ काण्डे तृतीयः प्रश्न-स्समाप्तः ॥