नारायणीयं दशक 58

त्वयि विहरणलोले बालजालैः प्रलंब-प्रमथनसविलंबे धेनवः स्वैरचाराः ।तृणकुतुकनिविष्टा दूरदूरं चरंत्यःकिमपि विपिनमैषीकाख्यमीषांबभूवुः ॥1॥ अनधिगतनिदाघक्रौर्यवृंदावनांतात्बहिरिदमुपयाताः काननं धेनवस्ताः ।तव विरहविषण्णा ऊष्मलग्रीष्मताप-प्रसरविसरदंभस्याकुलाः स्तंभमापुः ॥2॥ तदनु सह सहायैर्दूरमन्विष्य शौरेगलितसरणिमुंजारण्यसंजातखेदम् ।पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा-त्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृंभे ॥3॥…

Read more

नारायणीयं दशक 57

रामसखः क्वापि दिने कामद भगवन् गतो भवान् विपिनम् ।सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥1॥ संदर्शयन् बलाय स्वैरं वृंदावनश्रियं विमलाम् ।कांडीरैः सह बालैर्भांडीरकमागमो वटं क्रीडन् ॥2॥ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।दैत्यः प्रलंबनामा प्रलंबबाहुं भवंतमापेदे ॥3॥…

Read more

नारायणीयं दशक 56

रुचिरकंपितकुंडलमंडलः सुचिरमीश ननर्तिथ पन्नगे ।अमरताडितदुंदुभिसुंदरं वियति गायति दैवतयौवते ॥1॥ नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।परिमथन् पदपंकरुहा चिरं व्यहरथाः करतालमनोहरम् ॥2॥ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयोः ॥3॥ अयि पुरैव…

Read more

नारायणीयं दशक 55

अथ वारिणि घोरतरं फणिनंप्रतिवारयितुं कृतधीर्भगवन् ।द्रुतमारिथ तीरगनीपतरुंविषमारुतशोषितपर्णचयम् ॥1॥ अधिरुह्य पदांबुरुहेण च तंनवपल्लवतुल्यमनोज्ञरुचा ।ह्रदवारिणि दूरतरं न्यपतःपरिघूर्णितघोरतरंग्गणे ॥2॥ भुवनत्रयभारभृतो भवतोगुरुभारविकंपिविजृंभिजला ।परिमज्जयति स्म धनुश्शतकंतटिनी झटिति स्फुटघोषवती ॥3॥ अथ दिक्षु विदिक्षु परिक्षुभित-भ्रमितोदरवारिनिनादभरैः ।उदकादुदगादुरगाधिपति-स्त्वदुपांतमशांतरुषाऽंधमनाः ॥4॥…

Read more

नारायणीयं दशक 54

त्वत्सेवोत्कस्सौभरिर्नाम पूर्वंकालिंद्यंतर्द्वादशाब्दं तपस्यन् ।मीनव्राते स्नेहवान् भोगलोलेतार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥1॥ त्वद्वाहं तं सक्षुधं तृक्षसूनुंमीनं कंचिज्जक्षतं लक्षयन् सः ।तप्तश्चित्ते शप्तवानत्र चेत्त्वंजंतून् भोक्ता जीवितं चापि मोक्ता ॥2॥ तस्मिन् काले कालियः क्ष्वेलदर्पात्सर्पारातेः कल्पितं भागमश्नन्…

Read more

नारायणीयं दशक 53

अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगंडवयो मनोज्ञम् ।उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥1॥ उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः ।गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवाऽऽरभथास्तदा यत् ॥2॥ कदापि रामेण समं वनांते वनश्रियं वीक्ष्य चरन् सुखेन ।श्रीदामनाम्नः…

Read more

नारायणीयं दशक 52

अन्यावतारनिकरेष्वनिरीक्षितं तेभूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।ब्रह्मा परीक्षितुमनाः स परोक्षभावंनिन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥1॥ वत्सानवीक्ष्य विवशे पशुपोत्करे ता-नानेतुकाम इव धातृमतानुवर्ती ।त्वं सामिभुक्तकबलो गतवांस्तदानींभुक्तांस्तिरोऽधित सरोजभवः कुमारान् ॥2॥ वत्सायितस्तदनु गोपगणायितस्त्वंशिक्यादिभांडमुरलीगवलादिरूपः ।प्राग्वद्विहृत्य विपिनेषु चिराय सायंत्वं माययाऽथ…

Read more

नारायणीयं दशक 51

कदाचन व्रजशिशुभिः समं भवान्वनाशने विहितमतिः प्रगेतराम् ।समावृतो बहुतरवत्समंडलैःसतेमनैर्निरगमदीश जेमनैः ॥1॥ विनिर्यतस्तव चरणांबुजद्वया-दुदंचितं त्रिभुवनपावनं रजः ।महर्षयः पुलकधरैः कलेबरै-रुदूहिरे धृतभवदीक्षणोत्सवाः ॥2॥ प्रचारयत्यविरलशाद्वले तलेपशून् विभो भवति समं कुमारकैः ।अघासुरो न्यरुणदघाय वर्तनीभयानकः सपदि शयानकाकृतिः…

Read more

नारायणीयं दशक 50

तरलमधुकृत् वृंदे वृंदावनेऽथ मनोहरेपशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।हलधरसखो देव श्रीमन् विचेरिथ धारयन्गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥1॥ विहितजगतीरक्षं लक्ष्मीकरांबुजलालितंददति चरणद्वंद्वं वृंदावने त्वयि पावने ।किमिव न बभौ संपत्संपूरितं तरुवल्लरी-सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥2॥ विलसदुलपे कांतारांते समीरणशीतलेविपुलयमुनातीरे गोवर्धनाचलमूर्धसु…

Read more

नारायणीयं दशक 49

भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।अहेतुमुत्पातगणं विशंक्य प्रयातुमन्यत्र मनो वितेनुः ॥1॥ तत्रोपनंदाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।इतः प्रतीच्यां विपिनं मनोज्ञं वृंदावनं नाम विराजतीति ॥2॥ बृहद्वनं तत् खलु नंदमुख्या विधाय गौष्ठीनमथ क्षणेन ।त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता…

Read more