अष्टावक्र उवाच ॥

यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः ।
तस्मै सुखैकरूपाय नमः शांताय तेजसे ॥ 18-1॥

अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् ।
न हि सर्वपरित्यागमंतरेण सुखी भवेत् ॥ 18-2॥

कर्तव्यदुःखमार्तंडज्वालादग्धांतरात्मनः ।
कुतः प्रशमपीयूषधारासारमृते सुखम् ॥ 18-3॥

भवोऽयं भावनामात्रो न किंचित् परमार्थतः ।
नास्त्यभावः स्वभावानां भावाभावविभाविनाम् ॥ 18-4॥

न दूरं न च संकोचाल्लब्धमेवात्मनः पदम् ।
निर्विकल्पं निरायासं निर्विकारं निरंजनम् ॥ 18-5॥

व्यामोहमात्रविरतौ स्वरूपादानमात्रतः ।
वीतशोका विराजंते निरावरणदृष्टयः ॥ 18-6॥

समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः ।
इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ॥ 18-7॥

आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ ।
निष्कामः किं विजानाति किं ब्रूते च करोति किम् ॥ 18-8॥

अयं सोऽहमयं नाहमिति क्षीणा विकल्पना ।
सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः ॥ 18-9॥

न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता ।
न सुखं न च वा दुःखमुपशांतस्य योगिनः ॥ 18-10॥

स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने ।
निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ॥ 18-11॥

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।
इदं कृतमिदं नेति द्वंद्वैर्मुक्तस्य योगिनः ॥ 18-12॥

कृत्यं किमपि नैवास्ति न कापि हृदि रंजना ।
यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः ॥ 18-13॥

क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता ।
सर्वसंकल्पसीमायां विश्रांतस्य महात्मनः ॥ 18-14॥

येन विश्वमिदं दृष्टं स नास्तीति करोतु वै ।
निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥ 18-15॥

येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिंतयेत् ।
किं चिंतयति निश्चिंतो द्वितीयं यो न पश्यति ॥ 18-16॥

दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ ।
उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ॥ 18-17॥

धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् ।
न समाधिं न विक्षेपं न लोपं स्वस्य पश्यति ॥ 18-18॥

भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः ।
नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता ॥ 18-19॥

प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः ।
यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् ॥ 18-20॥

निर्वासनो निरालंबः स्वच्छंदो मुक्तबंधनः ।
क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ॥ 18-21॥

असंसारस्य तु क्वापि न हर्षो न विषादता ।
स शीतलमना नित्यं विदेह इव राजये ॥ 18-22॥

कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् ।
आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ॥ 18-23॥

प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया ।
प्राकृतस्येव धीरस्य न मानो नावमानता ॥ 18-24॥

कृतं देहेन कर्मेदं न मया शुद्धरूपिणा ।
इति चिंतानुरोधी यः कुर्वन्नपि करोति न ॥ 18-25॥

अतद्वादीव कुरुते न भवेदपि बालिशः ।
जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ॥ 18-26॥

नानाविचारसुश्रांतो धीरो विश्रांतिमागतः ।
न कल्पते न जानाति न श‍ऋणोति न पश्यति ॥ 18-27॥

असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः ।
निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ॥ 18-28॥

यस्यांतः स्यादहंकारो न करोति करोति सः ।
निरहंकारधीरेण न किंचिदकृतं कृतम् ॥ 18-29॥

नोद्विग्नं न च संतुष्टमकर्तृ स्पंदवर्जितम् ।
निराशं गतसंदेहं चित्तं मुक्तस्य राजते ॥ 18-30॥

निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते ।
निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते ॥ 18-31॥

तत्त्वं यथार्थमाकर्ण्य मंदः प्राप्नोति मूढताम् ।
अथवा याति संकोचममूढः कोऽपि मूढवत् ॥ 18-32॥

एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् ।
धीराः कृत्यं न पश्यंति सुप्तवत्स्वपदे स्थिताः ॥ 18-33॥

अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिम् ।
तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥ 18-34॥

शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयम् ।
आत्मानं तं न जानंति तत्राभ्यासपरा जनाः ॥ 18-35॥

नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा ।
धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ॥ 18-36॥

मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति ।
अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ॥ 18-37॥

निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः ।
एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ॥ 18-38॥

न शांतिं लभते मूढो यतः शमितुमिच्छति ।
धीरस्तत्त्वं विनिश्चित्य सर्वदा शांतमानसः ॥ 18-39॥

क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते ।
धीरास्तं तं न पश्यंति पश्यंत्यात्मानमव्ययम् ॥ 18-40॥

क्व निरोधो विमूढस्य यो निर्बंधं करोति वै ।
स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ॥ 18-41॥

भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः ।
उभयाभावकः कश्चिद् एवमेव निराकुलः ॥ 18-42॥

शुद्धमद्वयमात्मानं भावयंति कुबुद्धयः ।
न तु जानंति संमोहाद्यावज्जीवमनिर्वृताः ॥ 18-43॥

मुमुक्षोर्बुद्धिरालंबमंतरेण न विद्यते ।
निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ॥ 18-44॥

विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः ।
विशंति झटिति क्रोडं निरोधैकाग्रसिद्धये ॥ 18-45॥

निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदंतिनः ।
पलायंते न शक्तास्ते सेवंते कृतचाटवः ॥ 18-46॥

न मुक्तिकारिकां धत्ते निःशंको युक्तमानसः ।
पश्यन् श‍ऋण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ॥ 18-47॥

वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः ।
नैवाचारमनाचारमौदास्यं वा प्रपश्यति ॥ 18-48॥

यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः ।
शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥ 18-49॥

स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परम् ।
स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम् ॥ 18-50॥

अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा ।
तदा क्षीणा भवंत्येव समस्ताश्चित्तवृत्तयः ॥ 18-51॥

उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते ।
न तु सस्पृहचित्तस्य शांतिर्मूढस्य कृत्रिमा ॥ 18-52॥

विलसंति महाभोगैर्विशंति गिरिगह्वरान् ।
निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ॥ 18-53॥

श्रोत्रियं देवतां तीर्थमंगनां भूपतिं प्रियम् ।
दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना ॥ 18-54॥

भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः ।
विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ॥ 18-55॥

संतुष्टोऽपि न संतुष्टः खिन्नोऽपि न च खिद्यते ।
तस्याश्चर्यदशां तां तां तादृशा एव जानते ॥ 18-56॥

कर्तव्यतैव संसारो न तां पश्यंति सूरयः ।
शून्याकारा निराकारा निर्विकारा निरामयाः ॥ 18-57॥

अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः ।
कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥ 18-58॥

सुखमास्ते सुखं शेते सुखमायाति याति च ।
सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शांतधीः ॥ 18-59॥

स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः ।
महाह्रद इवाक्षोभ्यो गतक्लेशः सुशोभते ॥ 18-60॥

निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते ।
प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ॥ 18-61॥

परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते ।
देहे विगलिताशस्य क्व रागः क्व विरागता ॥ 18-62॥

भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा ।
भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ॥ 18-63॥

सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः ।
न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि ॥ 18-64॥

स एव धन्य आत्मज्ञः सर्वभावेषु यः समः ।
पश्यन् श‍ऋण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः ॥ 18-65॥

क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् ।
आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ॥ 18-66॥

स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः ।
अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ॥ 18-67॥

बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः ।
भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः ॥ 18-68॥

महदादि जगद्द्वैतं नाममात्रविजृंभितम् ।
विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ॥ 18-69॥

भ्रमभूतमिदं सर्वं किंचिन्नास्तीति निश्चयी ।
अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ॥ 18-70॥

शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः ।
क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा ॥ 18-71॥

स्फुरतोऽनंतरूपेण प्रकृतिं च न पश्यतः ।
क्व बंधः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ॥ 18-72॥

बुद्धिपर्यंतसंसारे मायामात्रं विवर्तते ।
निर्ममो निरहंकारो निष्कामः शोभते बुधः ॥ 18-73॥

अक्षयं गतसंतापमात्मानं पश्यतो मुनेः ।
क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ॥ 18-74॥

निरोधादीनि कर्माणि जहाति जडधीर्यदि ।
मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ॥ 18-75॥

मंदः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् ।
निर्विकल्पो बहिर्यत्नादंतर्विषयलालसः ॥ 18-76॥

ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् ।
नाप्नोत्यवसरं कर्तुं वक्तुमेव न किंचन ॥ 18-77॥

क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन ।
निर्विकारस्य धीरस्य निरातंकस्य सर्वदा ॥ 18-78॥

क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा ।
अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ॥ 18-79॥

न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि ।
बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन ॥ 18-80॥

नैव प्रार्थयते लाभं नालाभेनानुशोचति ।
धीरस्य शीतलं चित्तममृतेनैव पूरितम् ॥ 18-81॥

न शांतं स्तौति निष्कामो न दुष्टमपि निंदति ।
समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति ॥ 18-82॥

धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति ।
हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ॥ 18-83॥

निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च ।
निश्चिंतः स्वशरीरेऽपि निराशः शोभते बुधः ॥ 18-84॥

तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः ।
स्वच्छंदं चरतो देशान् यत्रस्तमितशायिनः ॥ 18-85॥

पततूदेतु वा देहो नास्य चिंता महात्मनः ।
स्वभावभूमिविश्रांतिविस्मृताशेषसंसृतेः ॥ 18-86॥

अकिंचनः कामचारो निर्द्वंद्वश्छिन्नसंशयः ।
असक्तः सर्वभावेषु केवलो रमते बुधः ॥ 18-87॥

निर्ममः शोभते धीरः समलोष्टाश्मकांचनः ।
सुभिन्नहृदयग्रंथिर्विनिर्धूतरजस्तमः ॥ 18-88॥

सर्वत्रानवधानस्य न किंचिद् वासना हृदि ।
मुक्तात्मनो वितृप्तस्य तुलना केन जायते ॥ 18-89॥

जानन्नपि न जानाति पश्यन्नपि न पश्यति ।
ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते ॥ 18-90॥

भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते ।
भावेषु गलिता यस्य शोभनाशोभना मतिः ॥ 18-91॥

क्व स्वाच्छंद्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः ।
निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ॥ 18-92॥

आत्मविश्रांतितृप्तेन निराशेन गतार्तिना ।
अंतर्यदनुभूयेत तत् कथं कस्य कथ्यते ॥ 18-93॥

सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च ।
जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ॥ 18-94॥

ज्ञः सचिंतोऽपि निश्चिंतः सेंद्रियोऽपि निरिंद्रियः ।
सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहंकृतिः ॥ 18-95॥

न सुखी न च वा दुःखी न विरक्तो न संगवान् ।
न मुमुक्षुर्न वा मुक्ता न किंचिन्न च किंचन ॥ 18-96॥

विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् ।
जाड्येऽपि न जडो धन्यः पांडित्येऽपि न पंडितः ॥ 18-97॥

मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः ।
समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ॥ 18-98॥

न प्रीयते वंद्यमानो निंद्यमानो न कुप्यति ।
नैवोद्विजति मरणे जीवने नाभिनंदति ॥ 18-99॥

न धावति जनाकीर्णं नारण्यमुपशांतधीः ।
यथातथा यत्रतत्र सम एवावतिष्ठते ॥ 18-100॥