अष्टावक्र उवाच ॥

विहाय वैरिणं काममर्थं चानर्थसंकुलम् ।
धर्ममप्येतयोर्हेतुं सर्वत्रानादरं कुरु ॥ 10-1॥

स्वप्नेंद्रजालवत् पश्य दिनानि त्रीणि पंच वा ।
मित्रक्षेत्रधनागारदारदायादिसंपदः ॥ 10-2॥

यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै ।
प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव ॥ 10-3॥

तृष्णामात्रात्मको बंधस्तन्नाशो मोक्ष उच्यते ।
भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः ॥ 10-4॥

त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा ।
अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते ॥ 10-5॥

राज्यं सुताः कलत्राणि शरीराणि सुखानि च ।
संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि ॥ 10-6॥

अलमर्थेन कामेन सुकृतेनापि कर्मणा ।
एभ्यः संसारकांतारे न विश्रांतमभून् मनः ॥ 10-7॥

कृतं न कति जन्मानि कायेन मनसा गिरा ।
दुःखमायासदं कर्म तदद्याप्युपरम्यताम् ॥ 10-8॥