अथ द्वितीयोऽध्यायः ।

श्रीशुकः उवाच ।
गोविंदभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीत् नारदः अभीक्ष्णं कृष्णौपासनलालसः ॥ 1॥

को नु राजन् इंद्रियवान् मुकुंदचरणांबुजम् ।
न भजेत् सर्वतः मृत्युः उपास्यं अमरौत्तमैः ॥ 2॥

तं एकदा देवर्षिं वसुदेवः गृह आगतम् ।
अर्चितं सुखं आसीनं अभिवाद्य इदं अब्रवीत् ॥ 3॥

वसुदेवः उवाच ।
भगवन् भवतः यात्रा स्वस्तये सर्वदेहिनाम् ।
कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ 4॥

भूतानां देवचरितं दुःखाय च सुखाय च ।
सुखाय एव हि साधूनां त्वादृशां अच्युत आत्मनाम् ॥ 5॥

भजंति ये यथा देवान् देवाः अपि तथा एव तान् ।
छाया इव कर्मसचिवाः साधवः दीनवत्सलाः ॥ 6॥

ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव ।
यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः भयात् ॥ 7॥

अहं किल पुरा अनंतं प्रजार्थः भुवि मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितः देवमायया ॥ 8॥

यया विचित्रव्यसनात् भवद्भिः विश्वतः भयात् ।
मुच्येम हि अंजसा एव अद्धा तथा नः शाधि सुव्रत ॥ 9॥

श्रीशुकः उवाच ।
राजन् एवं कृतप्रश्नः वसुदेवेन धीमता ।
प्रीतः तं आह देवर्षिः हरेः संस्मारितः गुणैः ॥ 10॥

नारदः उवाच ।
सम्यक् एतत् व्यवसितं भवता सात्वतर्षभ ।
यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥

11॥

श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः ।
सद्यः पुनाति सद्धर्मः देवविश्वद्रुहः अपि ॥ 12॥

त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।
स्मारितः भगवान् अद्य देवः नारायणः मम ॥ 13॥

अत्र अपि उदाहरंति इमं इतिहासं पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ 14॥

प्रियव्रतः नाम सुतः मनोः स्वायंभुवस्य यः ।
तस्य अग्नीध्रः ततः नाभिः ऋषभः तत् सुतः स्मृतः ॥ 15॥

तं आहुः वासुदेवांशं मोक्षधर्मविवक्षया ।
अवतीर्णं सुतशतं तस्य आसीत् वेदपारगम् ॥ 16॥

तेषां वै भरतः ज्येष्ठः नारायणपरायणः ।
विख्यातं वर्षं एतत् यत् नाम्ना भारतं अद्भुतम् ॥ 17॥

सः भुक्तभोगां त्यक्त्वा इमां निर्गतः तपसा हरिम् ।
उपासीनः तत् पदवीं लेभे वै जन्मभिः त्रिभिः ॥ 18॥

तेषां नव नवद्वीपपतयः अस्य समंततः ।
कर्मतंत्रप्रणेतारः एकाशीतिः द्विजातयः ॥ 19॥

नव अभवन् महाभागाः मुनयः हि अर्थशंसिनः ।
श्रमणाः वातः अशनाः आत्मविद्याविशारदाः ॥ 20॥

कविः हरिः अंतरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः ॥ 21॥

एते वै भगवद्रूपं विश्वं सदसद् आत्मकम् ।
आत्मनः अव्यतिरेकेण पश्यंतः व्यचरत् महीम् ॥ 22॥

अव्याहत इष्टगतयाः सुरसिद्धसिद्धसाध्य
गंधर्वयक्षनरकिन्नरनागलोकान् ।
मुक्ताः चरंति मुनिचारणभूतनाथ
विद्याधरद्विजगवां भुवनानि कामम् ॥ 23॥

तः एकदा निमेः सत्रं उपजग्मुः यत् ऋच्छया ।
वितायमानं ऋषिभिः अजनाभे महात्मनः ॥ 24॥

तान् दृष्ट्वा सूर्यसंकाशान् महाभगवतान् नृपः ।
यजमानः अग्नयः विप्राः सर्वः एव उपतस्थिरे ॥ 25॥

विदेहः तान् अभिप्रेत्य नारायणपरायणान् ।
प्रीतः संपूजयान् चक्रे आसनस्थान् यथा अर्हतः ॥ 26॥

तान् रोचमानान् स्वरुचा ब्रह्मपुत्रौपमान् नव ।
पप्रच्छ परमप्रीतः प्रश्रय अवनतः नृपः ॥ 27॥

विदेहः उवाच ।
मन्ये भगवतः साक्षात् पार्षदान् वः मधुद्विषः ।
विष्णोः भूतानि लोकानां पावनाय चरंति हि ॥ 28॥

दुर्लभः मानुषः देहः देहिनां क्षणभंगुरः ।
तत्र अपि दुर्लभं मन्ये वैकुंठप्रियदर्शनम् ॥ 29॥

अतः आत्यंतिकं कहेमं पृच्छामः भवतः अनघाः ।
संसारे अस्मिन् क्षणार्धः अपि सत्संगः शेवधिः नृणाम् ॥

30॥

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानं अपि अजः ॥ 31॥

श्रीनारदः उवाच ।
एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।
प्रतिपूज्य अब्रुवन् प्रीत्या ससदसि ऋत्विजं नृपम् ॥ 32॥

कविः उवाच ।
मन्ये अकुतश्चित् भयं अच्युतस्य
पादांबुजौपासनं अत्र नित्यम् ।
उद्विग्नबुद्धेः असत् आत्मभावात्
विश्वात्मना यत्र निवर्तते भीः ॥ 33॥

ये वै भगवता प्रोक्ताः उपायाः हि आत्मलब्धये ।
अंजः पुंसां अविदुषां विद्धि भागवतान् हि तान् ॥ 34॥

यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन पतेत् इह ॥ 35॥

कायेन वाचा मनसा इंद्रियैः वा
बुद्ध्या आत्मना वा अनुसृतस्वभावात् ।
करोति यत् यत् सकलं परस्मै
नारायणाय इति समर्पयेत् तत् ॥ 36॥

भयं द्वितीयाभिनिवेशतः स्यात्
ईशात् अपेतस्य विपर्ययः अस्मृतिः ।
तत् मायया अतः बुधः आभजेत् तं
भक्त्या एक ईशं गुरुदेवतात्मा ॥ 37।
अविद्यमानः अपि अवभाति हि द्वयोः
ध्यातुः धिया स्वप्नमनोरथौ यथा ।
तत् कर्मसंकल्पविकल्पकं मनः
बुधः निरुंध्यात् अभयं ततः स्यात् ॥ 38॥

श्रुण्वन् सुभद्राणि रथांगपाणेः
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तत् अर्थकानि
गायन् विलज्जः विचरेत् असंगः ॥ 39॥

एवं व्रतः स्वप्रियनामकीर्त्या
जातानुरागः द्रुतचित्तः उच्चैः ।
हसति अथः रोदिति रौति गायति
उन्मादवत् नृत्यति लोकबाह्यः ॥ 40॥

खं वायुं अग्निं सलिलं महीं च
ज्योतींषि सत्त्वानि दिशः द्रुमादीन् ।
सरित् समुद्रान् च हरेः शरीरं
यत्किंच भूतं प्रणमेत् अनन्यः ॥ 41॥

भक्तिः परेश अनुभवः विरक्तिः
अन्यत्र एष त्रिकः एककालः ।
प्रपद्यमानस्य यथा अश्नतः स्युः
तुष्टिः पुष्टिः क्षुत् अपायः अनुघासम् ॥ 42॥

इति अच्युत अंघ्रिं भजतः अनुवृत्त्या
भक्तिः विरक्तिः भगवत् प्रबोधः ।
भवंति वै भागवतस्य राजन्
ततः परां शांतिं उपैति साक्षात् ॥ 43॥

राजा उवाच ।
अथ भागवतं ब्रूत यत् धर्मः यादृशः नृणाम् ।
यथा चरति यत् ब्रूते यैः लिंगैः भगवत् प्रियः ॥ 44॥

हरिः उवाच ।
सर्वभूतेषु यः पश्येत् भगवत् भाव आत्मनः ।
भूतानि भागवति आत्मनि एष भागवतौत्तमः ॥ 45॥

ईश्वरे तत् अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपाउपेक्षा यः करोति स मध्यमः ॥ 46॥

अर्चायां एव हरये पूजां यः श्रद्धया ईहते ।
न तत् भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः ॥

47॥

गृहीत्वा अपि इंद्रियैः अर्थान्यः न द्वेष्टि न हृष्यति ।
विष्णोः मायां इदं पश्यन् सः वै भागवत उत्तमः ॥ 48॥

देहैंद्रियप्राणमनःधियां यः
जन्मापिअयक्षुत् भयतर्षकृच्छ्रैः ।
संसारधर्मैः अविमुह्यमानः
स्मृत्या हरेः भागवतप्रधानः ॥ 49॥

न कामकर्मबीजानां यस्य चेतसि संभवः ।
वासुदेवेकनिलयः सः वै भागवत उत्तमः ॥ 50॥

न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।
सज्जते अस्मिन् अहंभावः देहे वै सः हरेः प्रियः ॥ 51॥

न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा ।
सर्वभूतसमः शांतः सः वौ भागवत उत्तमः ॥ 52॥

त्रिभुवनविभवहेतवे अपि अकुंठस्मृतिः
अजितात्मसुरादिभिः विमृग्यात् ।
न चलति भगवत् पद अरविंदात्
लवनिमिष अर्धं अपि यः सः वैष्णव अग्र्यः ॥ 53॥

भगवतः उरुविक्रम अंघ्रिशाखा
नखमणिचंद्रिकया निरस्ततापे ।
हृदि कथं उपसीदतां पुनः सः
प्रभवति चंद्रः इव उदिते अर्कतापः ॥ 54॥

विसृजति हृदयं न यस्य साक्षात्
हरिः अवश अभिहितः अपि अघौघनाशः ।
प्रणयः अशनया धृत अंघ्रिपद्मः
सः भवति भागवतप्रधानः उक्तः ॥ 55॥

इति श्रीमत् भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कंधे निमिजायंतसंवादे द्वितीयः
अध्यायः ॥