आनंदरूप भगवन्नयि तेऽवतारे
प्राप्ते प्रदीप्तभवदंगनिरीयमाणैः ।
कांतिव्रजैरिव घनाघनमंडलैर्द्या-
मावृण्वती विरुरुचे किल वर्षवेला ॥1॥

आशासु शीतलतरासु पयोदतोयै-
राशासिताप्तिविवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां
क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥2॥

बाल्यस्पृशाऽपि वपुषा दधुषा विभूती-
रुद्यत्किरीटकटकांगदहारभासा ।
शंखारिवारिजगदापरिभासितेन
मेघासितेन परिलेसिथ सूतिगेहे ॥3॥

वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी-
मंदाक्षलक्षितकटाक्षविमोक्षभेदैः ।
तन्मंदिरस्य खलकंसकृतामलक्ष्मी-
मुन्मार्जयन्निव विरेजिथ वासुदेव ॥4॥

शौरिस्तु धीरमुनिमंडलचेतसोऽपि
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ॥
आनंदवाष्पपुलकोद्गमगद्गदार्द्र-
स्तुष्टाव दृष्टिमकरंदरसं भवंतम् ॥5॥

देव प्रसीद परपूरुष तापवल्ली-
निर्लूनदात्रसमनेत्रकलाविलासिन् ।
खेदानपाकुरु कृपागुरुभिः कटाक्षै-
रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥6॥

मात्रा च नेत्रसलिलास्तृतगात्रवल्या
स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
मातुर्गिरा दधिथ मानुषबालवेषम् ॥7॥

त्वत्प्रेरितस्तदनु नंदतनूजया ते
व्यत्यासमारचयितुं स हि शूरसूनुः ।
त्वां हस्तयोरधृत चित्तविधार्यमार्यै-
रंभोरुहस्थकलहंसकिशोररम्यम् ॥8॥

जाता तदा पशुपसद्मनि योगनिद्रा ।
निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात् किमिव चित्रमचेतनैर्यद्-
द्वारैः स्वयं व्यघटि संघटितैः सुगाढम् ॥9॥

शेषेण भूरिफणवारितवारिणाऽथ
स्वैरं प्रदर्शितपथो मणिदीपितेन ।
त्वां धारयन् स खलु धन्यतमः प्रतस्थे
सोऽयं त्वमीश मम नाशय रोगवेगान् ॥10॥