Print Friendly, PDF & Email

(तै. सं. 1.4.6)
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्​होता॑ निष॒सादा॑ पि॒ता नः॑ ।
स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ 1

वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् ।
तेषा॑मि॒ष्टानि॒ समि॒षा म॑दंति॒ यत्र॑ सप्त॒र्​षीन्प॒र एक॑मा॒हुः ॥ 2

यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्या सज्ज॒जान॑ ।
यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तग्ं सं॑प्र॒श्नंभुव॑ना यंत्य॒न्या ॥ 3

त आय॑जंत॒ द्रवि॑ण॒ग्ं सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ 4

न तं-विँ॑दाथ॒ य इ॒दं ज॒जाना॒न्यद्यु॒ष्माक॒मंत॑रंभवाति ।
नी॒हा॒रेण॒ प्रावृ॑ता जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरंति ॥ 5

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् ।
कग्ं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छंत॒ विश्वे ॥ 6

तमिद्गर्भं॑प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छंत॒ विश्वे॑ ।
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒-यँस्मि॑न्नि॒दं-विँश्वं॒भुवन॒मधि॑ श्रि॒तम् ॥ 7

वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्गं॑ध॒र्वो अ॑भवद्द्वि॒तीयः॑ ।
तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒-व्यँ॑दधात्पुरु॒त्रा ॥ 8

चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने ।
य॒देदंता॒ अद॑दृग्ंहंत॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ 9

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् ।
संबा॒हुभ्यां॒ नम॑ति॒ संपत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नयं॑दे॒व एकः॑ ॥ 10

किग्ं स्वि॑दासीदधि॒ष्ठान॑मा॒रंभ॑णं कत॒मत्स्वि॒त्किमा॑सीत् ।
यदी॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥ 11

किग्ं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ ॥ 12

या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं-यँ॑जस्व त॒नुवं॑ जुषा॒णः ॥ 13

वा॒चस्पतिं॑-विँ॒श्वक॑र्माणमू॒तये॑ मनो॒युजं॒-वाँजे॑ अ॒द्या हु॑वेम ।
स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वशं॑भू॒रव॑से सा॒धुक॑र्मा ॥ 14

विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं-यँ॑जस्व त॒नुवं॑ जुषा॒णः ।
मुह्यं॑त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु ॥ 15

विश्व॑कर्मन्ह॒विषा वर्ध॑नेन त्रा॒तार॒मिंद्र॑मकृणोरव॒ध्यम् ।
तस्मै॒ विशः॒ सम॑नमंत पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथास॑त् ॥ 16

स॒मु॒द्राय॑ व॒युना॑य॒ सिंधू॑नां॒पत॑ये॒ नमः॑ ।
न॒दीना॒ग्ं सर्वा॑सांपि॒त्रे जु॑हु॒ता
वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यग्ं ह॒विः ।