Print Friendly, PDF & Email

वेदांतडिंडिमास्तत्वमेकमुद्धोषयंति यत् ।
आस्तां पुरस्तांतत्तेजो दक्षिणामूर्तिसंज्ञितम् ॥ 1

आत्माऽनात्मा पदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ ।
ब्रह्मेवाऽऽत्मान देहादिरिति वेदांतडिंडिमः ॥ 2

ज्ञानाऽज्ञाने पदार्थों द्वावात्मनो बंधमुक्तिदौ ।
ज्ञानान्मुक्ति निर्बंधोऽन्यदिति वेदांतडिंडिमः ॥ 3

ज्ञातृ ज्ञेयं पदार्थौ द्वौ भास्य भासकलक्षणौ ।
ज्ञाता ब्रह्म जगत् ज्ञेय मिति वेदांतडिंडिमः ॥ 4

सुखदुःखे पदार्थौ द्वौ प्रियविप्रियकारकौ ।
सुखं ब्रह्म जगहुःख मिति वेदांतडिंडिमः॥ 5

समष्टिव्यष्टिरूपौ द्वौ पदार्थौ सर्वसंमतौ ।
समष्टिरीश्वरो व्यष्टिर्जीवो वेदांतडिंडिमः ॥ 6

ज्ञानं कर्म पदार्थौ द्वौ वस्तुकत्रात्म तंत्रकौ ।
ज्ञानान्मोक्षो न कर्मभ्य इति वेदांतडिंडिमः ॥ 7

श्रोतव्याऽश्रव्यरूपी द्वौ पदार्थों सुखदुःखदौ ।
श्रोतव्यं ब्रह्म नैवाऽन्य दिति वेदांतडिंडिमः॥ 8

चिंत्याऽचिंत्ये पदाथौ द्वौ विश्रांति श्रांतिदायकौ ।
चिंत्यं ब्रह्म परं नाऽन्य दिति वेदांतडिंडिमः॥ 9

ध्येयाऽध्वेये पदार्थौ द्वौ द्वौ धीसमाध्यसमाधिदौ ।
ध्यातव्यं ब्रह्म नैवाऽन्य दिति वेदांतडिंडिमः॥ 10

योगिनो भोगिनो वाऽपि त्यागिनो रागिणोऽपि च ।
ज्ञानान्मोक्षो न संदेह इति वेदांतडिंडिमः ॥ 11

न वर्णाश्रम संकेतैः न कोपासनादिभिः।
ब्रह्मज्ञानं विना मोक्षः इति वेदांतडिंडिमः ॥ 12

असत्यस्सर्वसंसारो रसामासादिदूषितः ।
उपेक्ष्यो ब्रह्म विज्ञेय मिति वेदांतडिंडिमः ॥ 13

वृथा क्रियां वृथाऽलापान् वृथावादान् मनोरथान् ।
त्यत्वैकं ब्रह्म विज्ञेय मिति वेदांतडिंडिमः ॥ 14

स्थितो ब्रह्मात्मना जीवो ब्रह्म जीवात्मना स्थितम् ।
इति संपश्यतां मुक्ति रिति वेदांतडिंडिमः॥ 15

जीवो ब्रह्मात्मना ज्ञेयो ज्ञेयं जीवात्मना परम् ।
मुक्तिस्त दैक्यविज्ञान मिति वेदांतडिंडिमः ॥ 16

सर्वात्मना परं ब्रह्म श्रोतुरात्मतया स्थितम् ।
नाऽऽयास स्तव विज्ञप्तौ इति वेदांतडिंडिमः ॥ 17

ऐहिकं चाऽऽमुध्मिकं च तापांतं कर्मसंचयम् ।
त्यत्वा ब्रह्मैव विज्ञेय मिति वेदांतडिंडिमः ॥ 18

अद्वैतद्वैतवादौ द्वौ सूक्ष्मस्थूलदशां गतौ ।
अद्वैतवादान्मोक्षस्स्या दिति वेदांतडिंडिमः ॥19

कर्मिणो विनिवर्तंते निवर्तंत उपासकाः।
ज्ञानिनो न निवर्तंते इति वेदांतडिंडिमः ॥ 20

परोक्षाऽसत्फलं कर्मज्ञानं प्रत्यक्षसत्फलम् ।
ज्ञानमेवाऽभ्यसेत्तस्मात् इति वेदांतडिंडिमः ॥21

वृथा श्रमोऽयं विदुषा वृथाऽयं-कर्मिणां श्रमः ।
यदि न ब्रह्मविज्ञानं इति ॥ वेदांतडिंडिमः ॥ 22

अलं यागैरलं योगैरलं भोगै रलं धनैः ।
परस्मिन्ब्रह्मणि ज्ञात इति वेदांतडिंडिमः ॥23

अलं वेदैरलं शास्त्रैरलमं स्मृतिपुराणकैः ।
परमात्मनि विज्ञाते इति वेदांतडिंडिमः ॥ 24

नर्चा न यजुषोऽर्थोऽस्ति न सान्नर्थोऽति कश्चन ।
जाते ब्रह्मात्मविज्ञाने इति वेदांतडिंडिमः ॥ 25

कर्माणि चित्तशुद्ध्यर्थं मैकाग्र्यार्थ मुपासनम् ।
मोक्षार्थं ब्रह्मविज्ञान मिति वेदांतडिंडिमः ॥ 26

संचितागामिकर्माणि दह्यंते ज्ञानकर्मणा ।
प्रारब्धानुभवान्मोक्ष इति वेदांतडिंडिमः॥ 27

न पुण्यकर्मणा वृद्धिः न हानिः पापकर्मणा ।
नित्यासंगात्मनिष्ठानामिति वेदांतडिंडिमः॥ 28

दृग्दृश्यौ द्वौ पदार्थौ तौ परस्परविलक्षणौ ।
दृग्ब्रह्म दृश्यं माया स्यादिति वेदांतडिंडिमः ॥ 29

अविद्योपाधिको जीवो मायोपाधिक ईश्वरः ।
मायाऽविद्यागुणातीतः इति वेदांतडिंडिमः ॥ 30

बुद्धिपूर्वाऽबुद्धिपूर्वकृतानां पापकर्मणाम् ।
प्रायश्चित्तमहोज्ञान मिति वेदांतडिंडिमः ॥ 31

साकारं च निराकारं निर्गुणं च गुणात्मकम् ।
तत्त्वं तत्परमं ब्रह्म इति वेदांतडिंडिमः ॥ 32

द्विजत्वं विध्यनुष्ठानात् विप्रत्वं वेदपाठतः ।
ब्राह्मण्यं ब्रह्मविज्ञानात् इति वेदांतडिंडिमः ॥ 33

सर्वात्मना स्थितं ब्रह्म सर्वं ब्रह्मात्मना स्थितम् ।
न कार्यं कारणाद्भिन्न मिति वेदांतडिंडिमः ॥ 34

सत्तास्फुरणसौख्यानि भासंते सर्ववस्तुषु ।
तस्माद्ब्रह्ममयं सर्व मिति वेदांतडिंडिमः ॥ 35

अवस्थात्रितयं यस्य क्रीडाभूमितया स्थितम् ।
तदेव ब्रह्म जानीयात् इति वेदांतडिंडिमः॥ 36

यन्नाऽऽदौ यश्च नाऽस्त्यंते तन्मध्ये भातमप्यसत् ।
अतो मिथ्या जगत्सर्वमिति वेदांतडिंडिमः ॥ 37

यदस्त्यादौ यदस्त्यंते यन्मध्ये भाति तत्स्वयम् ।
प्रौकमिदं सत्य मिति वेदांतडिंडिमः ॥ 38

पुरुषार्थत्रयाविष्टाः पुरुषाः पशवो धृवम् ।
मोक्षार्थी पुरुषः श्रेष्ठः इति वेदांतडिंडिमः ॥ 39

घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तथा ब्रह्म जगत्सर्व मिति वेदांतडिंडिमः ॥ 40

षण्णिहत्य त्रयं हित्वा द्वयं भिस्वाऽखिलागतिम् ।
एकं बुद्धाऽऽश्रुते मोक्ष मिति वेदांतडिंडिमः ॥ 41

भित्वा षट् पंच भित्त्वाऽथ भिश्वाऽथ चतुरखिकम् ।
द्वयं हित्वा श्रयेदेक मिति वेदांतडिंडिमः ॥ 42

देहो नाह महं देही देहसाक्षीति निश्चयात् ।
जन्ममृत्युपहीणोऽसौ इति वेदांतडिंडिमः ॥ 43

प्राणोनाहमहं देवः प्राणस्साक्षीति निश्चयात् ।
क्षुत्पिपासोपशांति स्स्यात् इति वेदांतडिंडिमः ॥ 44

मनो नाऽह महं देवो मनस्साक्षीति निश्चयात् ।
शोकमोहापहानिरस्यात् वेदांतडिंडिमः ॥ 45

बुद्धिर्नाऽहमहं देवो बुद्धिसाक्षीति निश्चयात् ।
कर्तृभावनिर्वृत्तिस्स्यात् इति वेदांतडिंडिमः ॥ 46

नाज्ञानं स्यामहं देवोऽज्ञानसाक्षीति निश्चयात् ।
सर्वानर्थनिवृत्तिस्यात् इति वेदांतडिंडिमः ॥ 47

अहं साक्षीति यो विद्यात् विविच्यैवं पुन: पुनः ।
स एव मुक्तोऽसौ विद्वान् इति वेदांतडिंडिमः ॥ 48

नाहं माया न तत्कार्यं न साक्षी परमोऽस्म्यहम् ।
इति निस्संशयज्ञानात् मुक्तिर्वे वेदांतडिंडिमः ॥ 49

नाऽहं सर्व महं सर्वं मयि सर्वमिति स्फुटम् ।
ज्ञाते तत्वे कुतो दुःख मिति वेदांतडिंडिमः ॥ 50

देहादिपंचकोशस्था या सत्ता प्रतिभासते ।
सा सत्तास्स्त्मा न संदेह इति वेदांतडिंडिमः ॥ 51

देहादिपंचकोशस्था या स्फूर्ति रनुभूयते ।
सा स्फूर्तिरात्मा नैवाऽन्य दिति वेदांतडिंडिमः ॥ 52

देहादिपंचकोशस्था या प्रीतिरनुभूयते ।
सा प्रीतिरात्मा कूटस्थः इति वेदांतडिंडिमः ॥ 53

व्योमादिपंचभूतस्था यासत्ता भासते नृणाम् ।
सा सत्ता परमं ब्रह्म इति वेदांतडिंडिमः ॥ 54

व्योमादिपंचभूतस्था या चिदेकाऽनुभूयते ।
सा चिदेव परं ब्रह्म इति वेदांतडिंडिमः ॥ 55

व्योमादिपंचभूतस्था या प्रीतिरनुभूयते ।
साप्रीतिरेव ब्रह्म स्यात् इति वेदांतडिंडिमः ॥ 56

देहादिकोशगा सत्ता या सा व्योमादिभूतगा ।
मानोऽभावान्न तद्भेदः इति वेदांतडिंडिमः ॥ 57

देहाविकोशगा स्फूर्तिर्या सा व्योमादिभूतगा ।
मानोऽभावा न तद्भेद इति वेदांतडिंडिमः ॥ 58

देहादिकोशगा प्रीतिर्या सा व्योमादिभूतगा ।
मानाऽभावा न्न तद्भेद इति वेदांतडिंडिमः॥ 59

सच्चिदानंदरूपत्वात् ब्रह्मैवाऽत्मा न संशयः।
प्रमाणकोटिसंघानात् इति वेदांतडिंडिमः॥60

न जीवब्रह्मणोर्भेदः सत्तारूपेण विद्यते।
सत्ताभेदे न मानं स्यात् इति वेदांतडिंडिमः॥61

न जीवब्रह्मणोर्भेदः स्फूर्तिरूपेण विद्यते ।
स्फूर्तिभेदे न मानं स्यात् इति वेदांतडिंडिमः ॥62

न जीवब्रह्मणोर्भेदः प्रियरूपेण विद्यते ।
प्रियभेदे न मानं स्यात् इति वेदांतडिंडिमः ॥ 63

न जीवब्रह्मणोर्भेदो नाना रूपेण विद्यते ।
नाम्नो रूपस्य मिथ्यात्वात् इति वेदांतडिंडिमः ॥ 64

न जीवब्रह्मणोर्भेदः पिंडब्रह्मांडभेदतः ।
व्यष्टेस्समष्टेरेकत्वात् इति वेदांतडिंडिमः ॥ 65

ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नाऽपरः ।
जीवन्मुक्तस्तु तद्विद्वान् इति वेदांतडिंडिमः ॥ 66

न नामरूपे नियते सर्वत्र व्यभिचारतः ।
अनामरूपं सर्वं स्यात् इति वेदांतडिंडिमः ॥ 67

अनामरूपं सकलं सन्मयं चिन्मयं परम् ।
कुतो भेदः कुतो बंधः इति वेदांतडिंडिमः ॥ 68

न तत्त्वात्कथ्यते लोको नामाद्यैर्व्यभिचारतः।
वटुर्जरठ इत्याद्यै रिति वेदांतडिंडिमः ॥ 69

नामरूपात्मकं विश्वमिंद्रजालं विदुर्बुधाः ।
अनामत्वादयुक्तत्वात् इति वेदांतडिंडिमः ॥ 70

अभेददर्शनं मोक्षः संसाये भेददर्शनम् ।
सर्ववेदांतसिद्धांतः इति वेदांतडिंडिमः ॥ 71

न मताभिनिवेशित्वात् न भाषावेशमात्रतः ।
मुक्ति र्विनाऽऽत्मविज्ञानात् इति वेदांतडिंडिमः ॥ 72

न कास्यप्रतिषिद्धाभिः क्रियाभि मोक्षवासना ।
ईश्वरानुग्रहात्सा स्यात् इति वेदांतडिंडिमः ॥ 73

अविज्ञाते जन्म नष्टं विज्ञाते जन्म सार्थकम् ।
ज्ञातुरात्मा न दूरे स्यात् इति वेदांतडिंडिमः ॥ 74

दशमस्य परिज्ञानेनाऽऽयासोऽस्ति यथाः तथा ।
स्वस्थ ब्रह्मात्मविज्ञाने इति वेदांतडिंडिमः ॥ 75

उपेक्ष्योपाधिकान् दोषान् गृह्यंते विषमा यथा ।
उपेक्ष्य दृश्यं य द्ब्रह्म इति वेदांतडिंडिमः ॥ 76

सुखमल्पं बहुः क्लेशोविषयमाहिणां नृणाम् ।
अनंतं ब्रह्मनिष्ठानां इति वेदांतडिंडिमः ॥ 77

धनैर्वा धनदैः पुत्रैः दारागारसहोदरैः ।
धृवं प्राणहरैर्दुःखं इति वेदांतडिंडिमः॥ 78

सुप्ते रुत्थाय सुप्त्यंत्यं ब्रह्मैकं प्रविचिंत्यताम् ।
नातिदूरे नृणां मृत्युः इति वेदांतडिंडिमः ॥ 79

पंचानामपिकोशानां मायाऽनर्थाव्ययोचिता ।
तत्साक्षि ब्रह्म विज्ञान मिति वेदांतडिंडिमः ॥ 80

दशमत्वपरिज्ञाने ननज्ञस्य यथा सुखम् ।
तथा जीवस्य सत्प्राप्तौ इति वेदांतडिंडिमः॥ 81

नवभ्योऽस्ति परं प्रत्यक्नस वेद परं परम् ।
तद्विज्ञानाद्भवेत्तुर्या मुक्ति र्वेदांतडिंडिमः ॥ 82

नवाऽऽभासानवज्ञत्वात् नवोपाधीन्नवात्मना ।
मिथ्या ज्ञात्वाऽवशिष्टे तु मौनं वेदांतडिंडिमः॥ 83

परमे ब्रह्मणि स्वस्मिन् प्रविलाप्याऽखिलं जगत् ।
गायनद्वतमानंदं आस्ते वेदांतडिंडिमः ॥ 84

प्रतिलोमानुलोमाभ्यां विश्वारोपापवादयोः ।
चिंतने शिष्यते तत्वं इति वेदांतडिंडिमः ॥ 85

नामरूपाभिमानस्थात् संसारसर्वदेहिनाम् ।
सच्चिदानंददृष्टिस्त्यात् मुक्तिर्वेदांतडिंडिमः ॥ 86

सचिदानंदसत्यत्वे मिथ्यात्वे नामरूपयोः।
विज्ञाते किमिदं ज्ञेयं इति वेदांतडिंडिमः ॥ 86

सालंबनं निरालंबं सर्वालंबावलंबितम् ।
आलंबेनाऽखिलालंब मिति वेदांतडिंडिमः॥ 88

न कुर्या न्न विजानीयात् सर्वं ब्रह्मेत्यनुस्मरन् ।
यथा सुखं तथा तिष्ठेत् इति वेदांतडिंडिमः॥ 89

स्वकर्मपाशवशगः प्राज्ञोऽन्यो वा जनो ध्रुवम् ।
प्राज्ञस्सुखं नयेत्काल मिति वेदांतडिंडिमः॥ 90

न विद्वान् संतपे चित्तं करणाकरणे ध्रुवम् ।
सर्वमात्मेति विज्ञानात् इति वेदांतडिंडिमः. ॥ 91

नैवास्स्भासं स्पृशेत्कर्ममिथ्योपाधिमपि स्वयम् ।
कुतोऽधिष्ठानमत्यच्छमिति वेदांतडिंडिमः॥ 92

अहोऽस्माक मलं मोहैरात्मा ब्रह्मेति निर्भयम् ।
श्रुतिभेरीरवोऽद्याऽपि श्रूयते श्रुतिरंजनः ॥ 93

वेदांतभेरीझवारः प्रतिवादिभयंकरः ।
श्रूयतां ब्राह्मणैः श्रीमद्दक्षिणामूर्त्यनुग्रहात् ॥ 94

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकर-
भगवत्पूज्यपादकृतिषु वेदांतडिंडिमः॥