Print Friendly, PDF & Email

नवो॑नवो॑ भवति॒ जाय॑मा॒णोऽह्नां᳚ के॒तुरु॒-षसा॑मे॒त्यग्ने᳚ ।
भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र चं॒द्रमा᳚-स्तिरति दी॒र्घमायुः॑ ॥
श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षश्श॒तेंद्रिय॒ आयु॑ष्ये॒-वेंद्रि॒ये प्रति॑-तिष्ठति ॥

सु॒मं॒ग॒लीरि॒यं-वँ॒धूरिमाग्ं स॒मेत॒-पश्य॑त् ।
सौभा᳚ग्यम॒स्यै द॒त्वा यथास्तं॒-विँप॑रेतन ॥

इ॒मां त्वमिं॑द्रमी-ढ्वस्सुपु॒त्रग्ं सु॒भगां᳚ कुरु ।
दशा᳚स्यां पु॒त्रानाधे॑हि॒ पति॑-मेकाद॒सं कृ॑धि ॥

क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्राणाग्ं श॒तभि॑षग्-वसि॑ष्ठः । तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑ ॥

श॒ताय॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र᳚म् । आयु॑रे॒वावरुं॑धे । सर्व॒स्मै॒ स्वाहेत्याह । रमे॒वाव॑रुंधे ॥

श्रेयो॒-वसी॑य आ॒यध्संभू॑तं भू॒तम् । चि॒त्रः के॒तुः प्र॒भाना॒भान्-थ्स॒भान् । ज्योति॑श्मा॒ग॒स्तेज॑-स्वाना॒तप॒ग॒स्त-प॑न्नभितपन्न् ॥ रो॒च॒नो रोच॑मान-श्शो॒भ॒न-श्शोभ॒मानः कल्याणः॑ ॥

श्री॒-र्वर्च॑स्य-मायु॑ष्य॒-मारो᳚ग्य॒मावि॑धात्-शोभ॑मानं मही॒यते᳚ ।
धा॒न्यं ध॒नं प॒शुं ब॒हुपुत्रला॒भं श॒तसं᳚​वँत्स॒रं दी॒र्घमायुः॑ ॥