माणिक्यं –
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥
मुत्यं –
यस्य त्वेतानि चत्वारि वानरेंद्र यथा तव ।
स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥ 2 ॥
प्रवालं –
अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखम् ।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ 3 ॥
मरकतं –
नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेंद्रयमानिलेभ्यः
नमोऽस्तु चंद्रार्कमरुद्गणेभ्यः ॥ 4 ॥
पुष्यरागं –
प्रियान्न संभवेद्दुःखं अप्रियादधिकं भयम् ।
ताभ्यां हि ये वियुज्यंते नमस्तेषां महात्मनाम् ॥ 5 ॥
हीरकं –
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।
रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे ॥ 6 ॥
इंद्रनीलं –
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।
दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥ 7 ॥
गोमेधिकं –
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि वास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ 8 ॥
वैडूर्यं –
निवृत्तवनवासं तं त्वया सार्धमरिंदमम् ।
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ 9 ॥
इति श्री आंजनेय नवरत्नमाला स्तोत्रम् ।