नारायणीयं दशक 33

वैवस्वताख्यमनुपुत्रनभागजात-नाभागनामकनरेंद्रसुतोऽंबरीषः ।सप्तार्णवावृतमहीदयितोऽपि रेमेत्वत्संगिषु त्वयि च मग्नमनास्सदैव ॥1॥ त्वत्प्रीतये सकलमेव वितन्वतोऽस्यभक्त्यैव देव नचिरादभृथाः प्रसादम् ।येनास्य याचनमृतेऽप्यभिरक्षणार्थंचक्रं भवान् प्रविततार सहस्रधारम् ॥2॥ स द्वादशीव्रतमथो भवदर्चनार्थंवर्षं दधौ मधुवने यमुनोपकंठे ।पत्न्या समं सुमनसा महतीं वितन्वन्पूजां…

Read more

नारायणीयं दशक 32

पुरा हयग्रीवमहासुरेण षष्ठांतरांतोद्यदकांडकल्पे ।निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥1॥ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।करांजलौ संज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥2॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽंबुपात्रेण मुनिः स्वगेहम् ।स्वल्पैरहोभिः कलशीं च कूपं वापीं…

Read more

नारायणीयं दशक 31

प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथाऽपित्वामाराध्यन्नजित रचयन्नंजलिं संजगाद ।मत्तः किं ते समभिलषितं विप्रसूनो वद त्वंवित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥1॥ तामीक्षणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ-प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वंसर्वं देहीति…

Read more

नारायणीयं दशक 30

शक्रेण संयति हतोऽपि बलिर्महात्माशुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।विक्रांतिमान् भयनिलीनसुरां त्रिलोकींचक्रे वशे स तव चक्रमुखादभीतः ॥1॥ पुत्रार्तिदर्शनवशाददितिर्विषण्णातं काश्यपं निजपतिं शरणं प्रपन्ना ।त्वत्पूजनं तदुदितं हि पयोव्रताख्यंसा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥2॥ तस्यावधौ त्वयि निलीनमतेरमुष्याःश्यामश्चतुर्भुजवपुः स्वयमाविरासीः…

Read more

नारायणीयं दशक 29

उद्गच्छतस्तव करादमृतं हरत्सुदैत्येषु तानशरणाननुनीय देवान् ।सद्यस्तिरोदधिथ देव भवत्प्रभावा-दुद्यत्स्वयूथ्यकलहा दितिजा बभूवुः ॥1॥ श्यामां रुचाऽपि वयसाऽपि तनुं तदानींप्राप्तोऽसि तुंगकुचमंडलभंगुरां त्वम् ।पीयूषकुंभकलहं परिमुच्य सर्वेतृष्णाकुलाः प्रतिययुस्त्वदुरोजकुंभे ॥2॥ का त्वं मृगाक्षि विभजस्व सुधामिमामि-त्यारूढरागविवशानभियाचतोऽमून् ।विश्वस्यते मयि…

Read more

नारायणीयं दशक 28

गरलं तरलानलं पुरस्ता-ज्जलधेरुद्विजगाल कालकूटम् ।अमरस्तुतिवादमोदनिघ्नोगिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥ विमथत्सु सुरासुरेषु जातासुरभिस्तामृषिषु न्यधास्त्रिधामन् ।हयरत्नमभूदथेभरत्नंद्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥ जगदीश भवत्परा तदानींकमनीया कमला बभूव देवी ।अमलामवलोक्य यां विलोलःसकलोऽपि स्पृहयांबभूव लोकः ॥3॥ त्वयि दत्तहृदे तदैव…

Read more

नारायणीयं दशक 27

दर्वासास्सुरवनिताप्तदिव्यमाल्यंशक्राय स्वयमुपदाय तत्र भूयः ।नागेंद्रप्रतिमृदिते शशाप शक्रंका क्षांतिस्त्वदितरदेवतांशजानाम् ॥1॥ शापेन प्रथितजरेऽथ निर्जरेंद्रेदेवेष्वप्यसुरजितेषु निष्प्रभेषु ।शर्वाद्याः कमलजमेत्य सर्वदेवानिर्वाणप्रभव समं भवंतमापुः ॥2॥ ब्रह्माद्यैः स्तुतमहिमा चिरं तदानींप्रादुष्षन् वरद पुरः परेण धाम्ना ।हे देवा दितिजकुलैर्विधाय…

Read more

नारायणीयं दशक 26

इंद्रद्युम्नः पांड्यखंडाधिराज-स्त्वद्भक्तात्मा चंदनाद्रौ कदाचित् ।त्वत् सेवायां मग्नधीरालुलोकेनैवागस्त्यं प्राप्तमातिथ्यकामम् ॥1॥ कुंभोद्भूतिः संभृतक्रोधभारःस्तब्धात्मा त्वं हस्तिभूयं भजेति ।शप्त्वाऽथैनं प्रत्यगात् सोऽपि लेभेहस्तींद्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥2॥ दग्धांभोधेर्मध्यभाजि त्रिकूटेक्रीडंछैले यूथपोऽयं वशाभिः ।सर्वान् जंतूनत्यवर्तिष्ट शक्त्यात्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥3॥…

Read more

नारायणीयं दशक 25

स्तंभे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय-न्नाघूर्णज्जगदंडकुंडकुहरो घोरस्तवाभूद्रवः ।श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतंकंपः कश्चन संपपात चलितोऽप्यंभोजभूर्विष्टरात् ॥1॥ दैत्ये दिक्षु विसृष्टचक्षुषि महासंरंभिणि स्तंभतःसंभूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ।किं किं भीषणमेतदद्भुतमिति…

Read more

नारायणीयं दशक 24

हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवताहते शोकक्रोधग्लपितधृतिरेतस्य सहजः ।हिरण्यप्रारंभः कशिपुरमरारातिसदसिप्रतिज्ञमातेने तव किल वधार्थं मधुरिपो ॥1॥ विधातारं घोरं स खलु तपसित्वा नचिरतःपुरः साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् ।वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदंपरिक्षुंदन्निंद्रादहरत दिवं त्वामगणयन् ॥2॥ निहंतुं…

Read more