सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालांतरंकारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम्।गंडोद्यन्मकराभकुंडलयुगं कंठोज्वलत्कौस्तुभंत्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे॥1॥ केयूरांगदकंकणोत्तममहारत्नांगुलीयांकित-श्रीमद्बाहुचतुष्कसंगतगदाशंखारिपंकेरुहाम् ।कांचित् कांचनकांचिलांच्छितलसत्पीतांबरालंबिनी-मालंबे विमलांबुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥2॥ यत्त्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्कांतं कांतिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।सौंदर्योत्तरतोऽपि सुंदरतरं त्वद्रूपमाश्चर्यतोऽ-प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥3॥…
Read more