नारायणीयं दशक 73

निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥1॥ करुणानिधिरेष नंदसूनुः कथमस्मान् विसृजेदनन्यनाथाः ।बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥2॥ चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमंडलैश्च ।परितापभरं नितंबिनीनां…

Read more

नारायणीयं दशक 72

कंसोऽथ नारदगिरा व्रजवासिनं त्वा-माकर्ण्य दीर्णहृदयः स हि गांदिनेयम् ।आहूय कार्मुकमखच्छलतो भवंत-मानेतुमेनमहिनोदहिनाथशायिन् ॥1॥ अक्रूर एष भवदंघ्रिपरश्चिरायत्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा-मानंदभारमतिभूरितरं बभार ॥2॥ सोऽयं रथेन सुकृती भवतो निवासंगच्छन् मनोरथगणांस्त्वयि धार्यमाणान् ।आस्वादयन् मुहुरपायभयेन दैवंसंप्रार्थयन्…

Read more

नारायणीयं दशक 71

यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबंधुः ।त्वां सिंधुजावाप्य इतीव मत्वा संप्राप्तवान् सिंधुजवाजिरूपः ॥1॥ गंधर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरापतत्त्वाम् ॥2॥ तार्क्ष्यार्पितांघ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम्…

Read more

नारायणीयं दशक 70

इति त्वयि रसाकुलं रमितवल्लभे वल्लवाःकदापि पुरमंबिकामितुरंबिकाकानने ।समेत्य भवता समं निशि निषेव्य दिव्योत्सवंसुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥1॥ समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला-दमुंचति भवत्पदे न्यपति पाहि पाहीति तैः ।तदा खलु पदा भवान् समुपगम्य पस्पर्श तंबभौ स…

Read more

नारायणीयं दशक 69

केशपाशधृतपिंछिकाविततिसंचलन्मकरकुंडलंहारजालवनमालिकाललितमंगरागघनसौरभम् ।पीतचेलधृतकांचिकांचितमुदंचदंशुमणिनूपुरंरासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥1॥ तावदेव कृतमंडने कलितकंचुलीककुचमंडलेगंडलोलमणिकुंडले युवतिमंडलेऽथ परिमंडले ।अंतरा सकलसुंदरीयुगलमिंदिरारमण संचरन्मंजुलां तदनु रासकेलिमयि कंजनाभ समुपादधाः ॥2॥ वासुदेव तव भासमानमिह रासकेलिरससौरभंदूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला ।वेषभूषणविलासपेशलविलासिनीशतसमावृतानाकतो युगपदागता वियति…

Read more

नारायणीयं दशक 68

तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पंकजेक्षण ।अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥1॥ तदनु काचन त्वत्करांबुजं सपदि गृह्णती निर्विशंकितम् ।घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥2॥ तव विभोऽपरा कोमलं भुजं निजगलांतरे पर्यवेष्टयत् ।गलसमुद्गतं…

Read more

नारायणीयं दशक 67

स्फुरत्परानंदरसात्मकेन त्वया समासादितभोगलीलाः ।असीममानंदभरं प्रपन्ना महांतमापुर्मदमंबुजाक्ष्यः ॥1॥ निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविंद् तिरोहितोऽभूः ॥2॥ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥3॥…

Read more

नारायणीयं दशक 66

उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।अभिवांछितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥1॥ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥2॥ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं…

Read more

नारायणीयं दशक 65

गोपीजनाय कथितं नियमावसानेमारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।सांद्रेण चांद्रमहसा शिशिरीकृताशेप्रापूरयो मुरलिकां यमुनावनांते ॥1॥ सम्मूर्छनाभिरुदितस्वरमंडलाभिःसम्मूर्छयंतमखिलं भुवनांतरालम् ।त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य-स्तत्तादृशं कमपि चित्तविमोहमापुः ॥2॥ ता गेहकृत्यनिरतास्तनयप्रसक्ताःकांतोपसेवनपराश्च सरोरुहाक्ष्यः ।सर्वं विसृज्य मुरलीरवमोहितास्तेकांतारदेशमयि कांततनो समेताः ॥3॥ काश्चिन्निजांगपरिभूषणमादधानावेणुप्रणादमुपकर्ण्य…

Read more

नारायणीयं दशक 64

आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।विश्वेश्वरं त्वामभिमत्य विश्वे नंदं भवज्जातकमन्वपृच्छन् ॥1॥ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावत् बहुमानभारः ॥2॥ ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या।उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा…

Read more