नारायणीयं दशक 63

ददृशिरे किल तत्क्षणमक्षत-स्तनितजृंभितकंपितदिक्तटाः ।सुषमया भवदंगतुलां गताव्रजपदोपरि वारिधरास्त्वया ॥1॥ विपुलकरकमिश्रैस्तोयधारानिपातै-र्दिशिदिशि पशुपानां मंडले दंड्यमाने ।कुपितहरिकृतान्नः पाहि पाहीति तेषांवचनमजित श्रृण्वन् मा बिभीतेत्यभाणीः ॥2॥ कुल इह खलु गोत्रो दैवतं गोत्रशत्रो-र्विहतिमिह स रुंध्यात् को नु…

Read more

नारायणीयं दशक 62

कदाचिद्गोपालान् विहितमखसंभारविभवान्निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमनाः ।विजानन्नप्येतान् विनयमृदु नंदादिपशुपा-नपृच्छः को वाऽयं जनक भवतामुद्यम इति ॥1॥ बभाषे नंदस्त्वां सुत ननु विधेयो मघवतोमखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।नृणां वर्षायत्तं निखिलमुपजीव्यं महितलेविशेषादस्माकं…

Read more

नारायणीयं दशक 61

ततश्च वृंदावनतोऽतिदूरतोवनं गतस्त्वं खलु गोपगोकुलैः ।हृदंतरे भक्ततरद्विजांगना-कदंबकानुग्रहणाग्रहं वहन् ॥1॥ ततो निरीक्ष्याशरणे वनांतरेकिशोरलोकं क्षुधितं तृषाकुलम् ।अदूरतो यज्ञपरान् द्विजान् प्रतिव्यसर्जयो दीदिवियाचनाय तान् ॥2॥ गतेष्वथो तेष्वभिधाय तेऽभिधांकुमारकेष्वोदनयाचिषु प्रभो ।श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिंन किंचिदूचुश्च महीसुरोत्तमाः ॥3॥…

Read more

नारायणीयं दशक 60

मदनातुरचेतसोऽन्वहं भवदंघ्रिद्वयदास्यकाम्यया ।यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥1॥ तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् ।उपहारशतैरपूजयन् दयितो नंदसुतो भवेदिति ॥2॥ इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥3॥ नियमावसितौ निजांबरं तटसीमन्यवमुच्य…

Read more

नारायणीयं दशक 59

त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।ब्रह्म तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥1॥ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः ।गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥2॥ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाऽभिरेमिरे ॥3॥ काननांतमितवान् भवानपि स्निग्धपादपतले मनोरमे ।व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत…

Read more

नारायणीयं दशक 58

त्वयि विहरणलोले बालजालैः प्रलंब-प्रमथनसविलंबे धेनवः स्वैरचाराः ।तृणकुतुकनिविष्टा दूरदूरं चरंत्यःकिमपि विपिनमैषीकाख्यमीषांबभूवुः ॥1॥ अनधिगतनिदाघक्रौर्यवृंदावनांतात्बहिरिदमुपयाताः काननं धेनवस्ताः ।तव विरहविषण्णा ऊष्मलग्रीष्मताप-प्रसरविसरदंभस्याकुलाः स्तंभमापुः ॥2॥ तदनु सह सहायैर्दूरमन्विष्य शौरेगलितसरणिमुंजारण्यसंजातखेदम् ।पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा-त्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृंभे ॥3॥…

Read more

नारायणीयं दशक 57

रामसखः क्वापि दिने कामद भगवन् गतो भवान् विपिनम् ।सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥1॥ संदर्शयन् बलाय स्वैरं वृंदावनश्रियं विमलाम् ।कांडीरैः सह बालैर्भांडीरकमागमो वटं क्रीडन् ॥2॥ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।दैत्यः प्रलंबनामा प्रलंबबाहुं भवंतमापेदे ॥3॥…

Read more

नारायणीयं दशक 56

रुचिरकंपितकुंडलमंडलः सुचिरमीश ननर्तिथ पन्नगे ।अमरताडितदुंदुभिसुंदरं वियति गायति दैवतयौवते ॥1॥ नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।परिमथन् पदपंकरुहा चिरं व्यहरथाः करतालमनोहरम् ॥2॥ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयोः ॥3॥ अयि पुरैव…

Read more

नारायणीयं दशक 55

अथ वारिणि घोरतरं फणिनंप्रतिवारयितुं कृतधीर्भगवन् ।द्रुतमारिथ तीरगनीपतरुंविषमारुतशोषितपर्णचयम् ॥1॥ अधिरुह्य पदांबुरुहेण च तंनवपल्लवतुल्यमनोज्ञरुचा ।ह्रदवारिणि दूरतरं न्यपतःपरिघूर्णितघोरतरंग्गणे ॥2॥ भुवनत्रयभारभृतो भवतोगुरुभारविकंपिविजृंभिजला ।परिमज्जयति स्म धनुश्शतकंतटिनी झटिति स्फुटघोषवती ॥3॥ अथ दिक्षु विदिक्षु परिक्षुभित-भ्रमितोदरवारिनिनादभरैः ।उदकादुदगादुरगाधिपति-स्त्वदुपांतमशांतरुषाऽंधमनाः ॥4॥…

Read more

नारायणीयं दशक 54

त्वत्सेवोत्कस्सौभरिर्नाम पूर्वंकालिंद्यंतर्द्वादशाब्दं तपस्यन् ।मीनव्राते स्नेहवान् भोगलोलेतार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥1॥ त्वद्वाहं तं सक्षुधं तृक्षसूनुंमीनं कंचिज्जक्षतं लक्षयन् सः ।तप्तश्चित्ते शप्तवानत्र चेत्त्वंजंतून् भोक्ता जीवितं चापि मोक्ता ॥2॥ तस्मिन् काले कालियः क्ष्वेलदर्पात्सर्पारातेः कल्पितं भागमश्नन्…

Read more