अथ तृतीयोऽध्यायः ।
परस्य विष्णोः ईशस्य मायिनाम अपि मोहिनीम् ।
मायां वेदितुं इच्छामः भगवन्तः ब्रुवन्तु नः ॥ 1॥
न अनुतृप्ये जुषन् युष्मत् वचः हरिकथा अमृतम् ।
संसारतापनिःतप्तः मर्त्यः तत् ताप भेषजम् ॥ 2॥
अन्तरिक्षः उवाच ।
एभिः भूतानि भूतात्मा महाभूतैः महाभुज ।
ससर्जोत् च अवचानि आद्यः स्वमात्रप्रसिद्धये ॥ 3॥
एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः ।
एकधा दशधा आत्मानं विभजन् जुषते गुणान् ॥ 4॥
गुणैः गुणान् सः भुञ्जानः आत्मप्रद्योदितैः प्रभुः ।
मन्यमानः इदं सृष्टं आत्मानं इह सज्जते ॥ 5॥
कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।
तत् तत् कर्मफलं गृह्णन् भ्रमति इह सुखैतरम् ॥ 6॥
इत्थं कर्मगतीः गच्छन् बह्वभद्रवहाः पुमान् ।
आभूतसम्प्लवात् सर्गप्रलयौ अश्नुते अवशः ॥ 7॥
धातु उपप्लवः आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
अनादिनिधनः कालः हि अव्यक्ताय अपकर्षति ॥ 8॥
शतवर्षाः हि अनावृष्टिः भविष्यति उल्बणा भुवि ।
तत् काल उपचित उष्ण अर्कः लोकान् त्रीन् प्रतपिष्यति ॥9॥
पातालतलं आरभ्य सङ्कर्षणमुख अनलः ।
दहन् ऊर्ध्वशिखः विष्वक् वर्धते वायुना ईरितः ॥ 10॥
सांवर्तकः मेघगणः वर्षति स्म शतं समाः ।
धाराभिः हस्तिहस्ताभिः लीयते सलिले विराट् ॥ 11॥
ततः विराजं उत्सृज्य वैराजः पुरुषः नृप ।
अव्यक्तं विशते सूक्ष्मं निरिन्धनः इव अनलः ॥ 12॥
वायुना हृतगन्धा भूः सलिलत्वाय कल्पते ।
सलिलं तत् धृतरसं ज्योतिष्ट्वाय उपकल्पते ॥ 13॥
हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।
हृतस्पर्शः अवकाशेन वायुः नभसि लीयते ।
कालात्मना हृतगुणं नवः आत्मनि लीयते ॥ 14॥
इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप ।
प्रविशन्ति हि अहङ्कारं स्वगुणैः अहं आत्मनि ॥ 15॥
एषा माया भगवतः सर्गस्थिति अन्तकारिणी ।
त्रिवर्णा वर्णिता अस्माभिः किं भूयः श्रोतुं इच्छसि ॥ 16॥
राजा उवाच ।
यथा एतां ऐश्वरीं मायां दुस्तरां अकृतात्मभिः ।
तरन्ति अञ्जः स्थूलधियः महर्षः इदं उच्यताम् ॥ 17॥
प्रबुद्धः उवाच ।
कर्माणि आरभमाणानां दुःखहत्यै सुखाय च ।
पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ 18॥
नित्यार्तिदेन वित्तेन दुर्लभेन आत्ममृत्युना ।
गृह अपत्याप्तपशुभिः का प्रीतिः साधितैः चलैः ॥
19॥
एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् ।
सतुल्य अतिशय ध्वंसं यथा मण्डलवर्तिनाम् ॥ 20॥
तस्मात् गुरुं प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मणि उपशमाश्रयम् ॥ 21॥
तत्र भागवतान् धर्मान् शिक्षेत् गुरुआत्मदैवतः ।
अमायया अनुवृत्या यैः तुष्येत् आत्मा आत्मदः हरिः ॥ 22॥
सर्वतः मनसः असङ्गं आदौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेषु अद्धा यथा उचितम् ॥ 23॥
शौचं तपः तितिक्षां च मौनं स्वाध्यायं आर्जवम् ।
ब्रह्मचर्यं अहिंसां च समत्वं द्वन्द्वसञ्ज्ञयोः ॥ 24॥
सर्वत्र आत्मेश्वर अन्वीक्षां कैवल्यं अनिकेतताम् ।
विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ 25॥
श्रद्धां भागवते शास्त्रे अनिन्दां अन्यत्र च अपि हि ।
मनोवाक् कर्मदण्डं च सत्यं शमदमौ अपि ॥ 26॥
श्रवणं कीर्तनं ध्यानं हरेः अद्भुतकर्मणः ।
जन्मकर्मगुणानां च तदर्थे अखिलचेष्टितम् ॥ 27॥
इष्टं दत्तं तपः जप्तं वृत्तं यत् च आत्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ 28॥
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां च उभयत्र महत्सु नृषु साधुषु ॥ 29॥
परस्पर अनुकथनं पावनं भगवत् यशः ।
मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः ॥ 30॥
स्मरन्तः स्मारयन्तः च मिथः अघौघहरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकां तनुम् ॥ 31॥
क्वचित् रुदन्ति अच्युतचिन्तया क्वचित्
हसन्ति नन्दन्ति वदन्ति अलौकिकाः ।
नृत्यन्ति गायन्ति अनुशीलयन्ति
अजं भवन्ति तूष्णीं परं एत्य निर्वृताः ॥ 32॥
इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।
नारायणपरः मायं अञ्जः तरति दुस्तराम् ॥ 33॥
राजा उवाच ।
नारायण अभिधानस्य ब्रह्मणः परमात्मनः ।
निष्ठां अर्हथ नः वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ 34॥
पिप्पलायनः उवाच ।
स्थिति उद्भवप्रलयहेतुः अहेतुः अस्य
यत् स्वप्नजागरसुषुप्तिषु सत् बहिः च ।
देह इन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तत् अवेहि परं नरेन्द्र ॥ 35॥
न एतत् मनः विशति वागुत चक्षुः आत्मा
प्राणेन्द्रियाणि च यथा अनलं अर्चिषः स्वाः ।
शब्दः अपि बोधकनिषेधतया आत्ममूलम्
अर्थ उक्तं आह यदृते न निषेधसिद्धिः ॥ 36॥
सत्वं रजः तमः इति त्रिवृदेकं आदौ
सूत्रं महान् अहं इति प्रवदन्ति जीवम् ।
ज्ञानक्रिया अर्थफलरूपतयोः उशक्ति
ब्रह्म एव भाति सत् असत् च तयोः परं यत् ॥ 37॥
न आत्मा जजान न मरिष्यति न एधते असौ
न क्षीयते सवनवित् व्यभिचारिणां हि ।
सर्वत्र शस्वदनपायि उपलब्धिमात्रं
प्राणः यथा इन्द्रियवलेन विकल्पितं सत् ॥ 38॥
अण्डेषु पेशिषु तरुषु अविनिश्चितेषु
प्राणः हि जीवं उपधावति तत्र तत्र ।
सन्ने यत् इन्द्रियगणे अहमि च प्रसुप्ते
कूटस्थः आशयमृते तत् अनुस्मृतिः नः ॥ 39॥
यः हि अब्ज नाभ चरण एषणयोः उभक्त्या
चेतोमलानि विधमेत् गुणकर्मजानि ।
तस्मिन् विशुद्धः उपलभ्यतः आत्मतत्त्वम्
साक्षात् यथा अमलदृशः सवितृप्रकाशः ॥ 40॥
कर्मयोगं वदत नः पुरुषः येन संस्कृतः ।
विधूय इह आशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ 41॥
एवं प्रश्नं ऋषिन् पूर्वं अपृच्छं पितुः अन्तिके ।
न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणं उच्यताम् ॥ 42॥
आविर्होत्रः उवाच ।
कर्म अकर्मविकर्म इति वेदवादः न लौकिकः ।
वेदस्य च ईश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ 43॥
परोक्षवादः वेदः अयं बालानां अनुशासनम् ।
कर्ममोक्षाय कर्माणि विधत्ते हि अगदं यथा ॥ 44॥
न आचरेत् यः तु वेद उक्तं स्वयं अज्ञः अजितेन्द्रियः ।
विकर्मणा हि अधर्मेण मृत्योः मृत्युं उपैति सः ॥ 45॥
वेद उक्तं एव कुर्वाणः निःसङ्गः अर्पितं ईश्वरे ।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ 46॥
यः आशु हृदयग्रन्थिं निर्जिहीषुः परात्मनः ।
विधिना उपचरेत् देवं तन्त्र उक्तेन च केशवम् ॥ 47॥
लब्ध अनुग्रहः आचार्यात् तेन सन्दर्शितागमः ।
महापुरुषं अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ 48॥
शुचिः सम्मुखं आसीनः प्राणसंयमनादिभिः ।
पिण्डं विशोध्य सन्न्यासकृतरक्षः अर्चयेत् हरिम् ॥ 49॥
अर्चादौ हृदये च अपि यथालब्ध उपचारकैः ।
द्रव्यक्षितिआत्मलिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम् ॥ 50॥
पाद्यादीन् उपकल्प्या अथ सन्निधाप्य समाहितः ।
हृत् आदिभिः कृतन्यासः मूलमन्त्रेण च अर्चयेत् ॥ 51॥
साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः ।
पाद्य अर्घ्याचमनीयाद्यैः स्नानवासःविभूषणैः ॥ 52॥
गन्धमाल्याक्षतस्रग्भिः धूपदीपहारकैः ।
साङ्गं सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ 53॥
आत्मां तन्मयं ध्यायन् मूर्तिं सम्पूजयेत् हरेः ।
शेषां आधाय शिरसि स्वधाम्नि उद्वास्य सत्कृतम् ॥ 54॥
एवं अग्नि अर्कतोयादौ अतिथौ हृदये च यः ।
यजति ईश्वरं आत्मानं अचिरात् मुच्यते हि सः ॥ 55॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे निमिजायन्तसंवादे
मायाकर्मब्रह्मनिरूपणं तृतीयोऽध्यायः ॥