यदि मन्यसे सुवेदेति दहरमेवापि
नूनं त्वं-वेँत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं-यँदस्य देवेष्वथ नु
मीमाम्स्यमेव ते मन्ये विदितम् ॥ 1॥
नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ 2॥
यस्यामतं तस्य मतं मतं-यँस्य न वेद सः ।
अविज्ञातं-विँजानतां-विँज्ञातमविजानताम् ॥ 3॥
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं-विँद्यया विन्दतेऽमृतम् ॥ 4॥
इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति ॥ 5॥
॥ इति केनोपनिषदि द्वितीयः खण्डः ॥