ॐ श्रीरङ्गनायक्यै नमः ।
ॐ गोदायै नमः ।
ॐ विष्णुचित्तात्मजायै नमः ।
ॐ सत्यै नमः ।
ॐ गोपीवेषधरायै नमः ।
ॐ देव्यै नमः ।
ॐ भूसुतायै नमः ।
ॐ भोगशालिन्यै नमः ।
ॐ तुलसीकाननोद्भूतायै नमः ।
ॐ श्रीधन्विपुरवासिन्यै नमः । 10 ।
ॐ भट्टनाथप्रियकर्यै नमः ।
ॐ श्रीकृष्णहितभोगिन्यै नमः ।
ॐ आमुक्तमाल्यदायै नमः ।
ॐ बालायै नमः ।
ॐ रङ्गनाथप्रियायै नमः ।
ॐ परायै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ कलालापायै नमः ।
ॐ यतिराजसहोदर्यै नमः ।
ॐ कृष्णानुरक्तायै नमः । 20 ।
ॐ सुभगायै नमः ।
ॐ सुलभश्रियै नमः ।
ॐ सुलक्षणायै नमः ।
ॐ लक्ष्मीप्रियसख्यै नमः ।
ॐ श्यामायै नमः ।
ॐ दयाञ्चितदृगञ्चलायै नमः ।
ॐ फल्गुन्याविर्भवायै नमः ।
ॐ रम्यायै नमः ।
ॐ धनुर्मासकृतव्रतायै नमः ।
ॐ चम्पकाशोकपुन्नाग मालती विलसत्कचायै नमः । 30 ।
ॐ आकारत्रयसम्पन्नायै नमः ।
ॐ नारायणपदाश्रितायै नमः ।
ॐ श्रीमदष्टाक्षरी मन्त्रराजस्थित मनोरथायै नमः ।
ॐ मोक्षप्रदाननिपुणायै नमः ।
ॐ मनुरत्नाधिदेवतायै नमः ।
ॐ ब्रह्मण्यायै नमः ।
ॐ लोकजनन्यै नमः ।
ॐ लीलामानुषरूपिण्यै नमः ।
ॐ ब्रह्मज्ञानप्रदायै नमः ।
ॐ मायायै नमः ।
ॐ सच्चिदानन्दविग्रहायै नमः । 40 ।
ॐ महापतिव्रतायै नमः ।
ॐ विष्णुगुणकीर्तनलोलुपायै नमः ।
ॐ प्रपन्नार्तिहरायै नमः ।
ॐ नित्यायै नमः ।
ॐ वेदसौधविहारिण्यै नमः ।
ॐ श्रीरङ्गनाथ माणिक्यमञ्जर्यै नमः ।
ॐ मञ्जुभाषिण्यै नमः ।
ॐ पद्मप्रियायै नमः ।
ॐ पद्महस्तायै नमः । 50 ।
ॐ वेदान्तद्वयबोधिन्यै नमः ।
ॐ सुप्रसन्नायै नमः ।
ॐ भगवत्यै नमः ।
ॐ श्रीजनार्दनदीपिकायै नमः ।
ॐ सुगन्धावयवायै नमः ।
ॐ चारुरङ्गमङ्गलदीपिकायै नमः ।
ॐ ध्वजवज्राङ्कुशाब्जाङ्क मृदुपाद तलाञ्चितायै नमः ।
ॐ तारकाकारनखरायै नमः ।
ॐ प्रवालमृदुलाङ्गुल्यै नमः ।
ॐ कूर्मोपमेय पादोर्ध्वभागायै नमः । 60 ।
ॐ शोभनपार्ष्णिकायै नमः ।
ॐ वेदार्थभावतत्त्वज्ञायै नमः ।
ॐ लोकाराध्याङ्घ्रिपङ्कजायै नमः ।
ॐ आनन्दबुद्बुदाकारसुगुल्फायै नमः ।
ॐ परमाणुकायै नमः ।
ॐ तेजःश्रियोज्ज्वलधृतपादाङ्गुलि सुभूषितायै नमः ।
ॐ मीनकेतनतूणीर चारुजङ्घा विराजितायै नमः ।
ॐ ककुद्वज्जानुयुग्माढ्यायै नमः ।
ॐ स्वर्णरम्भाभसक्थिकायै नमः ।
ॐ विशालजघनायै नमः । 70 ।
ॐ पीनसुश्रोण्यै नमः ।
ॐ मणिमेखलायै नमः ।
ॐ आनन्दसागरावर्त गम्भीराम्भोज नाभिकायै नमः ।
ॐ भास्वद्वलित्रिकायै नमः ।
ॐ चारुजगत्पूर्णमहोदर्यै नमः ।
ॐ नववल्लीरोमराज्यै नमः ।
ॐ सुधाकुम्भायितस्तन्यै नमः ।
ॐ कल्पमालानिभभुजायै नमः ।
ॐ चन्द्रखण्डनखाञ्चितायै नमः ।
ॐ सुप्रवाशाङ्गुलीन्यस्त महारत्नाङ्गुलीयकायै नमः । 80 ।
ॐ नवारुणप्रवालाभ पाणिदेशसमञ्चितायै नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ सुचुबुकायै नमः ।
ॐ बिम्बोष्ठ्यै नमः ।
ॐ कुन्ददन्तयुजे नमः ।
ॐ कारुण्यरसनिष्यन्द नेत्रद्वयसुशोभितायै नमः ।
ॐ मुक्ताशुचिस्मितायै नमः ।
ॐ चारुचाम्पेयनिभनासिकायै नमः ।
ॐ दर्पणाकारविपुलकपोल द्वितयाञ्चितायै नमः ।
ॐ अनन्तार्कप्रकाशोद्यन्मणि ताटङ्कशोभितायै नमः । 90 ।
ॐ कोटिसूर्याग्निसङ्काश नानाभूषणभूषितायै नमः ।
ॐ सुगन्धवदनायै नमः ।
ॐ सुभ्रुवे नमः ।
ॐ अर्धचन्द्रललाटिकायै नमः ।
ॐ पूर्णचन्द्राननायै नमः ।
ॐ नीलकुटिलालकशोभितायै नमः ।
ॐ सौन्दर्यसीमायै नमः ।
ॐ विलसत्कस्तूरीतिलकोज्ज्वलायै नमः ।
ॐ धगद्धगायमानोद्यन्मणि सीमन्तभूषणायै नमः ।
ॐ जाज्वल्यमानसद्रत्न दिव्यचूडावतंसकायै नमः । 100 ।
ॐ सूर्यार्धचन्द्रविलसत् भूषणञ्चित वेणिकायै नमः ।
ॐ अत्यर्कानल तेजोधिमणि कञ्चुकधारिण्यै नमः ।
ॐ सद्रत्नाञ्चितविद्योत विद्युत्कुञ्जाभ शाटिकायै नमः ।
ॐ नानामणिगणाकीर्ण हेमाङ्गदसुभूषितायै नमः ।
ॐ कुङ्कुमागरु कस्तूरी दिव्यचन्दनचर्चितायै नमः ।
ॐ स्वोचितौज्ज्वल्य विविधविचित्रमणिहारिण्यै नमः ।
ॐ असङ्ख्येय सुखस्पर्श सर्वातिशय भूषणायै नमः ।
ॐ मल्लिकापारिजातादि दिव्यपुष्पस्रगञ्चितायै नमः । 108 ।
ॐ श्रीरङ्गनिलयायै नमः ।
ॐ पूज्यायै नमः ।
ॐ दिव्यदेशसुशोभितायै नमः । 111
इति श्री गोदाष्टोत्तरशतनामावलिः ।