ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
[धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्-प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥]
ओम् ॥ स॒ह॒स्र॒शीर्॑ष-न्दे॒वं॒ वि॒श्वाक्षं॑-विँ॒श्वश॑म्भुवम् ।
विश्व॑-न्ना॒राय॑ण-न्दे॒व॒म॒क्षर॑-म्पर॒म-म्पदम् ।
वि॒श्वतः॒ पर॑मान्नि॒त्यं॒-विँ॒श्व-न्ना॑राय॒णग्ं ह॑रिम् ।
विश्व॑मे॒वेद-म्पुरु॑ष॒-स्तद्विश्व-मुप॑जीवति ।
पतिं॒-विँश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒व-म॑च्युतम् ।
ना॒राय॒ण-म्म॑हाज्ञे॒यं॒-विँ॒श्वात्मा॑न-म्प॒राय॑णम् ।
ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ।
ना॒राय॒णपर॑-म्ब्र॒ह्म॒ तत्त्व-न्ना॑राय॒णः प॑रः ।
ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒न-न्ना॑राय॒णः प॑रः ।
यच्च॑ कि॒ञ्चिज्जगत्स॒र्व॒-न्दृ॒श्यते᳚ श्रूय॒ते-ऽपि॑ वा ॥
अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒-व्याँ॒प्य ना॑राय॒ण-स्स्थि॑तः ।
अनन्त॒मव्यय॑-ङ्क॒विग्ं स॑मु॒द्रें-ऽतं॑-विँ॒श्वश॑म्भुवम् ।
प॒द्म॒को॒श-प्र॑तीका॒श॒ग्ं॒ हृ॒दय॑-ञ्चाप्य॒धोमु॑खम् ।
अधो॑ नि॒ष्ट्या वि॑तस्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
ज्वा॒ल॒मा॒लाकु॑ल-म्भा॒ती॒ वि॒श्वस्या॑यत॒न-म्म॑हत् ।
सन्त॑तग्ं शि॒लाभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्म-न्तस्मिन्᳚ स॒र्व-म्प्रति॑ष्ठितम् ।
तस्य॒ मध्ये॑ म॒हान॑ग्नि-र्वि॒श्वार्चि॑-र्वि॒श्वतो॑मुखः ।
सो-ऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒-न्नाहा॑रमज॒रः क॒विः ।
ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ।
स॒न्ता॒पय॑ति स्व-न्दे॒हमापा॑दतल॒मस्त॑कः ।
तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः ।
नी॒लतो॑-यद॑मध्य॒स्था॒-द्वि॒ध्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ।
तस्या᳚-श्शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ।
स ब्रह्म॒ स शिव॒-स्स हरि॒-स्सेन्द्र॒-स्सो-ऽक्ष॑रः पर॒म-स्स्व॒राट् ॥
ऋतग्ं स॒त्य-म्प॑र-म्ब्र॒ह्म॒ पु॒रुष॑-ङ्कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
ओ-न्ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥