तैत्तिरीय अरण्यक – चतुर्थः प्रश्नः
ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
अम्भस्यपारे (4.1)
अम्भ॑स्य पा॒रे भुव॑नस्य॒ मद्ध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् । शु॒क्रेण॒ ज्योतीग्ं॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । यस्मि॑न्नि॒दग्ं सञ्च॒ विचैति॒ सर्वं॒-यँस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः । तदे॒व भू॒तं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन्न् । येना॑ वृ॒तं खञ्च॒ दिवं॑ म॒हीञ्च॒ येना॑दि॒त्य-स्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च । यम॒न्तः स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः । यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान् व्यच॑सर्ज॒ (व्यस॑सर्ज॒) भूम्या᳚म् । यदोष॑धीभिः पु॒रुषा᳚न् प॒शूग्ग्श्च॒ विवे॑श भू॒तानि॑ चराच॒राणि॑ । अतः॑ परं॒ नान्य॒-दणी॑यसहि॒ परा᳚त् परं॒-यँन् मह॑तो म॒हान्त᳚म् । यदे॑क-म॒व्यक्त॒-मन॑न्तरूपं॒-विँश्वं॑ पुरा॒णं तम॑सः॒ पर॑स्तात् ॥ 1.5 (तै. अर. 6.1.1)
तदे॒वर्तं तदु॑ स॒त्यमा॑हु॒-स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम् । इ॒ष्टा॒पू॒र्तं ब॑हु॒धा जा॒तं जाय॑मानं-विँ॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑ । तदे॒वाग्नि-स्तद्वा॒यु-स्तथ्सूर्य॒स्तदु॑ च॒न्द्रमाः᳚ । तदे॒व शु॒क्रम॒मृतं॒ तद्ब्रह्म॒ तदापः॒ स प्र॒जाप॑तिः । सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युतः॒ पुरु॑षा॒दधि॑ । क॒ला मु॑हू॒र्ताः काष्ठा᳚श्चाहो-रा॒त्राश्च॑ सर्व॒शः । अ॒र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ संवँथ्स॒रश्च॑ कल्पन्ताम् । स आपः॑ प्रदु॒घे उ॒भे इ॒मे अ॒न्तरि॑क्ष॒-मथो॒ सुवः॑ । नैन॑-मू॒र्ध्वं न ति॒र्यं च॒ न मद्ध्ये॒ परि॑जग्रभत् । न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ ॥ 1.10 (तै. अर. 6.1.2)
न स॒दृंशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन᳚म् । हृ॒दा म॑नी॒षा मन॑सा॒ऽभि क्लृ॑प्तो॒ य ए॑नं-विँ॒दु-रमृ॑ता॒स्ते भ॑वन्ति । अ॒द्भ्यः सम्भू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ । ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अ॒न्तः । स वि॒जाय॑मानः सजनि॒ष्यमा॑णः प्र॒त्यं-मुखा᳚ स्तिष्ठति वि॒श्वतो॑मुखः । वि॒श्वत॑श्च-क्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒-र्द्यावा॑ पृथि॒वी ज॒नय॑न् दे॒व एकः॑ । वे॒नस्तत् पश्य॒न्. विश्वा॒ भुव॑नानि वि॒द्वान्. यत्र॒ विश्वं॒ भव॒त्येक॑-नीलम् । यस्मि॑न्नि॒दग्ं सञ्च॒ विचैक॒ग्ं॒ स ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ । प्रतद्वो॑चे अ॒मृत॒न्नु वि॒द्वान् ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु ॥ 1.15 (तै. अर. 6.1.3)
त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ताऽस॑त् । स नो॒ बन्धु॑-र्जनि॒ता स वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ । यत्र॑ दे॒वा अ॒मृत॑मान-शा॒नास्तृ॒तीये॒ धामा᳚न्य॒-भ्यैर॑यन्त । परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒कान् परि॒ दिशः॒ परि॒ सुवः॑ । ऋ॒तस्य॒ तन्तुं॑-विँततं-विँ॒चृत्य॒ तद॑पश्य॒त् तद॑भवत् प्र॒जासु॑ । प॒रीत्य॑ लो॒कान् प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒-ऽऽत्मान॑-म॒भि-सम्ब॑भूव । सद॑स॒स्पति॒-मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् । सनिं॑ मे॒धा म॑यासिषम् । उद्दी᳚प्यस्व जातवेदो ऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑ ॥ 1.19 (तै. अर. 6.1.4)
प॒शूग्ग्श्च॒ मह्य॒माव॑ह॒ जीव॑नञ्च॒ दिशो॑ दिश । मानो॑ हिग्ंसी ज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् । अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ॥ 1.21 (तै. अर. 6.1.5)
गायत्री मन्त्राः (4.2)
पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥।
तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥
तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ नन्दिः प्रचो॒दया᳚त् ॥
तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि । तन्नः॑ षण्मुखः प्रचो॒दया᳚त् ॥
तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि । तन्नो॑ गरुडः प्रचो॒दया᳚त् ॥
वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि । तन्नो᳚ ब्रह्म प्रचो॒दया᳚त् ॥
ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्ण-द॒ग्ग्॒ष्ट्राय॑ धीमहि । तन्नो॑ नारसिग्ंहः प्रचो॒दया᳚त् ॥
भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि । तन्नो॑ आदित्यः प्रचो॒दया᳚त् ॥
वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय॑ धीमहि । तन्नो॑ अग्निः प्रचो॒दया᳚त् ॥
का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥ 1.33 (तै. अर. 6.1.5-7)
दूर्वा सूक्तं (4.3)
स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा । सर्वग्ं॑ हरतु॑ मे पा॒पं॒ दू॒र्वा दुः॑स्वप्न॒ नाश॑नी । काण्डा᳚त् काण्डात् प्र॒रोह॑न्ती॒ परु॑षः परुषः॒ परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च । या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या᳚स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् । अश्व॑क्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा᳚न्ते व॒सुन्ध॑रा । शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मां᳚ पदे॒ पदे ॥ 1.37 (तै. अर. 6.1.8)
मृत्तिका सूक्तम् (4.4)
भूमि-र्धेनु-र्धरणी लो॑कधा॒रिणी । उ॒धृता॑ऽसि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑त बा॒हुना । मृ॒त्तिके॑ हन॑ मे पा॒पं॒-यँ॒न्म॒या दु॑ष्कृतं॒ कृतम् । मृ॒त्तिके᳚ ब्रह्म॑दत्ता॒ऽसि॒ का॒श्यपे॑नाभि॒मन्त्रि॑ता । मृ॒त्तिके॑ देहि॑ मे पु॒ष्टिं॒ त्व॒यि स॑र्वं प्र॒तिष्ठि॑तम् ॥ 1.39
मृ॒त्तिके᳚ प्रतिष्ठि॑ते स॒र्वं॒ त॒न्मे नि॑र्णुद॒ मृत्ति॑के । तया॑ ह॒तेन॑ पापे॒न॒ ग॒च्छा॒मि प॑रमां॒ गतिम् ॥ 1.40 (तै. अर. 6.1.9)
शत्रुजय मन्त्राः (4.5)
यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वन् छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्पति॑-र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु । आपा᳚न्त-मन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वां॒-छरु॑माग्ं ऋजी॒षी । सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥ 1.44
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्-विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ । स्यो॒ना पृ॑थिवि॒ भवा॑ नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚ । ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् । श्री᳚र्मे भ॒जतु । अलक्ष्मी᳚र्मे न॒श्यतु । विष्णु॑मुखा॒ वै दे॒वाः छन्दो॑-भिरि॒मांल्लोँ॒का-न॑नपज॒य्य-म॒भ्य॑जयन्न् । म॒हाग्ं इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु ॥ 1.48 (तै. अर. 6.1.10)
स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒-योँ᳚ऽस्मान् द्वेष्टि॑ । सो॒मान॒ग्ग्॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒-यँ औ॑शि॒जम् । शरी॑रं-यँज्ञशम॒लं कुसी॑दं॒ तस्मि᳚न् थ्सीदतु॒ यो᳚ऽस्मान् द्वेष्टि॑ । चर॑णं प॒वित्रं॒-विँत॑तं पुरा॒णं-येँन॑ पू॒त-स्तर॑ति दुष्कृ॒तानि॑ । तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति॑ पा॒प्मान॒-मरा॑तिं तरेम । स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रू॒ग्ं॒ रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः । सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒-र्या᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मः । आपो॒ हिष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । 1.53 (तै. अर. 6.1.11)
म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒-स्तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒ती-रि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ 1.54 (तै. अर. 6.1.12)
अघमर्षण सूक्तम् (4.6)
हिर॑ण्यशृङ्गं॒-वँरु॑णं॒ प्रप॑द्ये ती॒र्थं मे॑ देहि॒ याचि॑तः । य॒न्मया॑ भु॒क्त-म॒साधू॑नां पा॒पेभ्य॑श्च प्र॒तिग्र॑हः । यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृतं॒ कृतम् । तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पतिः॑ सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः । नमो॒ऽग्नये᳚-ऽफ्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो वारुण्यै॑ नमो॒ऽद्भ्यः ॥ 1.57
यद॒पां क्रू॒रं-यँद॑मे॒द्ध्यं-यँद॑शा॒न्तं तदप॑गच्छतात् । अ॒त्या॒श॒ना-द॑तीपा॒ना॒-द्य॒च्च उ॒ग्रात् प्र॑ति॒ग्रहा᳚त् । तन्नो॒ वरु॑णो रा॒जा॒ पा॒णिना᳚ ह्यव॒मर्श॑तु । सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकि॒ल्बिषः । नाक॑स्य पृ॒ष्ठमारु॑ह्य॒ गच्छे॒-द्ब्रह्म॑सलो॒कताम् । यश्चा॒॑फ्सु वरु॑णः॒ स पु॒नात्व॑घमर्ष॒णः । इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमग्ं॑ सचता॒ परु॒ष्णिया । अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒या-ऽऽर्जी॑कीये शृणु॒ह्या सु॒षोम॑या । ऋ॒तञ्च॑ स॒त्यञ्चा॒-भी᳚द्धा॒ त्तप॒सोऽद्ध्य॑जायत । ततो॒ रात्रि॑-रजायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ 1.63 (तै. अर. 6.1.13)
स॒मु॒द्रा-द॑र्ण॒वा-दधि॑ संवँथ्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒-द्(मि॒दध॒द्) विश्व॑स्य मिष॒तो व॒शी । सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑था पू॒र्व म॑कल्पयत् । दिव॑ञ्च पृथि॒वीं चा॒न्तरि॑क्ष॒ मथो॒ सुवः॑ । यत् पृ॑थि॒व्याग्ं रज॑स्स्व॒ मान्तरि॑क्षे वि॒रोद॑सी । इ॒माग्ग् स्तदा॒पो व॑रुणः पु॒नात्व॑घमर्ष॒णः । पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्ष॒णः । ए॒ष भू॒तस्य॑ म॒द्ध्ये भुव॑नस्य गो॒प्ता । ए॒ष पु॒ण्यकृ॑तां-लोँ॒का॒ने॒ष मृ॒त्यो-र्हि॑र॒ण्मय᳚म् । द्यावा॑पृथि॒व्यो-र्हि॑र॒ण्मय॒ग्ं॒ सग्ग्श्रि॑त॒ग्ं॒ सुवः॑ । 1.66 (तै. अर. 6.1.14)
स नः॒ सुवः॒ सग्ं शि॑शाधि । आर्द्रं॒ ज्वल॑ति॒ ज्योति॑-र॒हम॑स्मि । ज्योति॒-र्ज्वल॑ति॒ ब्रह्मा॒हम॑स्मि । यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहा᳚ । अ॒का॒र्य॒-का॒र्य॑व की॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः । वरु॑णो॒-ऽपाम॑घमर्ष॒ण-स्तस्मा᳚त् पा॒पात् प्रमु॑च्यते । र॒जोभूमि॑स्त्व॒माग्ं रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः᳚ । आक्रा᳚न्थ्-समु॒द्रः प्र॑थ॒मे विध॑र्म-ञ्ज॒नय॑न् प्र॒जा भुव॑नस्य॒ राजा᳚ । वृषा॑ प॒वित्रे॒ अधि॒सानो॒ अव्ये॑ बृ॒हथ् सोमो॑ वावृधे सुवा॒न इन्दुः॑ ॥ 1.70
(पुर॑स्ता॒-द्- यशो॒ – गुहा॑सु॒ – मम॑ – चक्रतु॒ण्डाय॑ धीमहि – तीक्षद॒ग्ग्॒ष्ठ्राय॑ धीमहि॒ – परि॑ – प्र॒तिष्ठि॑तं – देभु–र् यच्छतु – दधातना॒- द्भ्यो᳚ – ऽर्ण॒वः – सुवो॒ – राजैकं॑ च) (आ1)
दुर्गा सूक्तम् (4.7)
जा॒तवे॑दसे सुनवाम॒ सोम॑-मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ।ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं-वैँ॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् । दु॒र्गां दे॒वीग्ं शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ ।अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ् स्व॒स्ति-भि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोँः । विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑पर्षि । अग्ने॑ अत्रि॒वन् मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोद्ध्यवि॒ता त॒नूना᳚म् । पृ॒त॒ना॒जित॒ग्ं॒ सह॑मान-मु॒ग्रम॒ग्निग्ं हु॑वेम पर॒माथ् स॒धस्था᳚त् । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दुरि॒ताऽत्य॒ग्निः । प्र॒त्नोषि॑-क॒मीड्यो॑ अद्ध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सथ्सि॑ । स्वाञ्चा᳚ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑जस्व । गोभि॒-र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒-रनु॒सञ्च॑रेम । नाक॑स्य पृ॒ष्ठम॒भि सं॒वँसा॑नो॒ वैष्ण॑वीं-लोँ॒क इ॒ह मा॑दयन्ताम् ॥ 2.7 (दु॒रि॒ताऽत्य॒ग्निश्च॒त्वारि॑ च) (तै. अर. 6.2.1)
[ ॐ का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥ ]
व्याहृति होम मन्त्राः (4.8)
भू-रन्न॑-म॒ग्नये॑ पृथि॒व्यै स्वाहा॒, भुवोऽन्नं॑-वाँ॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒, सुव॒रन्न॑-मादि॒त्याय॑ दि॒वे स्वाहा॒, भूर्भुव॒स्सुव॒-रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒, नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒-रन्न॒मोम् ॥ 3.1 (तै. अर. 6.3.1)
भू-र॒ग्नये॑ पृथि॒व्यै स्वाहा॒, भुवो॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒ ,
सुव॑रादि॒त्याय॑ दि॒वे स्वाहा॒, भू-र्भुव॒स्सुव॑-श्च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒, नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒-रग्न॒ ओम् ॥ 4.1
भू-र॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒, भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॒, सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॒, भू-र्भुव॒स्सुव॑-श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॒, नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒-र्मह॒रोम् ॥ 5.1 (तै. अर. 6.4.1)
ज्ञानप्राप्त्यर्था होममन्त्राः (4.9)
पाहि नो अग्न एन॑से स्वा॒हा । पाहि नो विश्ववेद॑से स्वा॒हा । यज्ञं पाहि विभाव॑सो स्वा॒हा । सर्वं पाहि शतक्र॑तो स्वा॒हा ॥ 6.1 (तै. अर. 6.7.1)
पा॒हि नो॑ अग्न॒ एक॑या । पा॒ह्यु॑त द्वि॒तीय॑या । पा॒ह्यूर्जं॑ तृ॒तीय॑या । पा॒हि गी॒र्भि-श्च॑त॒सृभि॑-र्वसो॒ स्वाहा᳚ ॥ 7.1 (तै. अर. 6.6.1)
वेदाविस्मरणाय जपमन्त्राः (4.10)
यः छन्द॑सा-मृष॒भो वि॒श्वरू॑पः॒ छन्दो᳚भ्यः॒ छन्दाग्ग्॑स्या वि॒वेश॑ । सचाग्ं शिक्यः पुरो वाचो॑पनि॒ष-दिन्द्रो᳚ ज्ये॒ष्ठ इ॑न्द्रि॒याय॒ ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुवः॒ छन्द॒ ओम् ॥ 8.1 (तै. अर. 6.8.1)
नमो॒ ब्रह्म॑णे धा॒रणं॑ मे अ॒स्त्व-नि॑राकरणं-धा॒रयि॑ता भूयासं॒ कर्ण॑योः श्रु॒तं माच्यो᳚ढ्वं॒ ममा॒मुष्य॒ ओम् ॥ 9.1 (तै. अर. 6.9.1)
तपः प्रशंसा (4.11)
ऋ॒तं तपः॑ स॒त्यं तपः॑ श्रु॒तं तपः॑ शा॒न्तं तपो॒ दम॒ स्तपः॒ शम॒स्तपो॒ दानं॒ तपो॒ यज्ञं॒ तपो॒ भूर्भुव॒स्सुव॒-र्ब्रह्मै॒-तदुपा᳚स्यै॒-तत्तपः॑ ॥ 10.1 (तै. अर. 6.10.1)
विहिताचरण प्रशंसा निषिद्धाचरण निन्दा च (4.12)
यथा॑ वृ॒क्षस्य॑ स॒पुंष्पि॑तस्य दू॒रा-द्ग॒न्धो वा᳚त्ये॒वं पुण्य॑स्य क॒र्मणो॑ दू॒रा-द्ग॒न्धो वा॑ति॒ यथा॑ऽसिधा॒रां क॒र्तेऽव॑हिता-मव॒क्रामे॒ यद्युवे॒ युवे॒ हवा॑ वि॒ह्वयि॑ष्यामि क॒र्तं प॑तिष्या॒मीत्ये॒व-म॒मृता॑-दा॒त्मानं॑ जु॒गुफ्से᳚त् ॥ 11.1 (तै. अर. 6.11.1)
दहर विद्या (4.13)
अ॒णो-रणी॑यान् मह॒तो मही॑या-ना॒त्मा गुहा॑यां॒ निहि॑तोऽस्य ज॒न्तोः । तम॑क्रतुं पश्यति वीतशो॒को धा॒तुः प्र॒सादा᳚न्-महि॒मान॑मीशम् । स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा᳚थ् स॒प्तार्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः । स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑या॒-न्निहि॑ताः स॒प्त स॑प्त । अतः॑ समु॒द्रा गि॒रय॑श्च॒ सर्वे॒ऽस्माथ् स्यन्द॑न्ते॒ सिन्ध॑वः॒ सर्व॑रूपाः । अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा᳚च्च॒ येनै॑ष भू॒त-स्ति॑ष्ठत्यन्तरा॒त्मा । ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒-र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् । श्ये॒नो गृध्रा॑णा॒ग्ग्॒ स्वधि॑ति॒-र्वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒ मत्ये॑ति॒ रेभन्न्॑ । अ॒जा मेकां॒-लोँहि॑त-शुक्ल-कृ॒ष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्ती॒ग्ं॒ सरू॑पाम् । अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा᳚त्येनां भु॒क्त-भो॑गा॒मजो᳚ऽन्यः ॥ 12.5 (तै. अर. 6.12.1)
ह॒ग्ं॒स-श्शु॑चि॒ष-द्वसु॑-रन्तरिक्ष॒-सद्धोता॑ वेदि॒ष-दति॑थि-र्दुरोण॒सत् । नृ॒ष-द्व॑र॒स-दृ॑त॒स-द्व्यो॑म॒स-द॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् । घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑-र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ । अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑ कृतं-वृँषभ वक्षि ह॒व्यम् । स॒मु॒द्रा दू॒र्मि-र्मधु॑मा॒ग्ं॒ उदा॑र-दुपा॒ग्ं॒शुना॒ सम॑मृत॒त्व मा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒-यँदस्ति॑ जि॒ह्वा दे॒वाना॑-म॒मृत॑स्य॒ नाभिः॑ । व॒यं नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन्. य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑ शृङ्गो ऽवमी-द्गौ॒र ए॒तत् । च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र॒.षे स॒प्त हस्ता॑सो अ॒स्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ग्ं॒ आवि॑वेश ॥ 12.10 (तै. अर. 6.12.2)
त्रिधा॑ हि॒तं प॒णिभि॑-र्गु॒ह्यमा॑नं॒ गवि॑-दे॒वासो॑ घृ॒तमन्व॑विन्दन्न् । इन्द्र॒ एक॒ग्ं॒ सूर्य॒ एकं॑ जजान वे॒ना देकग्ग्॑ स्व॒धया॒ निष्ट॑तक्षुः । यो दे॒वानां᳚ प्रथ॒मं पु॒रस्ता॒-द्विश्वा॒धियो॑ रु॒द्रो म॒हर्षिः॑ । हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मान॒ग्ं॒ सनो॑ दे॒वः शु॒भया॒ स्मृत्या॒ संयुँ॑नक्तु । यस्मा॒त्परं॒ नाप॑र॒ मस्ति॒ किञ्चि॒द्यस्मा॒न् नाणी॑यो॒ न ज्यायो᳚ऽस्ति॒ कश्चि॑त् । वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒-त्येक॒स्तेने॒दं पू॒र्णं पुरु॑षेण॒ सर्व᳚म् ॥ 12.13
(सन्यास सूक्तम्)
न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्व-मा॑न॒शुः । परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां-विँ॒भ्राज॑दे॒त-द्यत॑यो वि॒शन्ति॑ ॥ वे॒दा॒न्त॒ वि॒ज्ञान॒-सुनि॑श्चिता॒र्थाः सन्या॑स यो॒गाद्यत॑यः शुद्ध॒ सत्त्वाः᳚ । ते ब्र॑ह्मलो॒के तु॒ परा᳚न्तकाले॒ परा॑मृता॒त् परि॑मुच्यन्ति॒ सर्वे᳚ । द॒ह्रं॒-विँ॒पा॒पं प॒रमे᳚श्म भूतं॒-यँत् पु॑ण्डरी॒कं पु॒रम॑द्ध्य स॒ग्ग्॒स्थम् ।
त॒त्रा॒पि॒ द॒ह्रं ग॒गनं॑-विँशोक॒-स्तस्मि॑न्. यद॒न्तस्त-दुपा॑सित॒व्यम् ॥ यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः । तस्य॑ प्र॒कृति॑-लीन॒स्य॒ यः॒ परः॑ स॒ म॒हेश्व॑रः ॥ 12.17 (तै. अर. 6.12.3)
(अजो᳚ऽन्य॒ – आवि॑वेश॒ – सर्वे॑ च॒त्वारि॑ च)
नारायण सूक्तं (4.14)
स॒ह॒स्र॒शीर्षं॑ दे॒वं॒-विँ॒श्वाक्षं॑-विँ॒श्व शं॑ भुवम् । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒-विँ॒श्वं ना॑राय॒णग्ं ह॑रिम् । विश्व॑मे॒वेदं पुरु॑ष॒-स्त-द्विश्व॒मुप॑जीवति । पतिं॒-विँश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒वम॑च्युतम् । ना॒राय॒णं म॑हाज्ञे॒यं॒-विँ॒श्वात्मा॑नं प॒राय॑णम् । ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा ना॑रय॒णः प॑रः । ना॒राय॒ण प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः । ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः । यच्च॑ कि॒ञ्चिज्-ज॑गथ् स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा । 13.4 (तै. अर. 6.13.1)
अन्त॑-र्ब॒हिश्च॑ तथ् स॒र्वं॒-व्याँ॒प्य ना॑राय॒णः स्थि॑तः । अन॑न्त॒ मव्य॑यं क॒विग्ं स॑मु॒द्रेऽन्तं॑-विँ॒श्व श॑भुंवँम् । प॒द्म॒को॒श-प्र॑तीका॒श॒ग्ं॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् । अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒ला कु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् । सन्त॑तग्ं शि॒लाभि॑स्तु॒ लम्ब॑त्या कोश॒सन्नि॑भम् । तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मि᳚न्थ् स॒र्वं प्रति॑ष्ठितम् । तस्य॒ मद्ध्ये॑ म॒हान॑ग्नि-र्वि॒श्वार्चि॑-र्वि॒श्वतो॑ मुखः । सोऽग्र॑भु॒ग् विभ॑जन् ति॒ष्ठ॒न्-नाहा॑र-मज॒रः क॒विः । ति॒र्य॒गू॒र्ध्व म॑धः शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता । स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒ मस्त॑कः । तस्य॒ मद्ध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः । नी॒लतो॑ यद॑ मद्ध्य॒स्था॒-द्वि॒द्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒ शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा । तस्याः᳚ शिखा॒या म॑द्ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट् ॥ 13.12 (तै. अर. 6.13.2)
(अपि॑ वा॒ – सन्त॑ता॒ षट् च॑)
आदित्य मण्डले परब्रह्मोपासनं (4.15)
आ॒दि॒त्यो वा ए॒ष ए॒तन् म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ग्ं॒ स ऋ॒चां-लोँ॒कोऽथ॒य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ऽर्चि-र्दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां-लोँ॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजूग्ं॑षि॒ स यजु॑षा मण्डल॒ग्ं॒ स यजु॑षां-लोँ॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो᳚ऽन्त-रा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः ॥ 14.1 (तै. अर. 6.14.1)
आदित्यपुरुषस्य सर्वात्मकत्व प्रदर्शनं (4.16)
आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒-यँश॒-श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑ म॒न्यु-र्मनु॑-र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तथ् स॒त्यमन्न॑-म॒मृता॑ जी॒वो विश्वः॑ कत॒मः स्व॑य॒भुं ब्रह्मै॒ तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒-मधि॑पति॒-र्ब्रह्म॑णः॒ सायु॑ज्यग्ं सलो॒कता॑-माप्नो-त्ये॒तासा॑मे॒व दे॒वता॑ना॒ग्ं॒ सायु॑ज्यग्ं सा॒र्ष्टिताग्ं॑ समान लो॒कता॑-माप्नोति॒ य ए॒वं-वेँदे᳚त्युप॒निषत् ॥ 15.1 (तै. अर. 6.15.1)
शिवोपासन मन्त्राः (4.17)
निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः । 16.1 (तै. अर. 6.16.1)
भवाय॒ नमः । भवलिङ्गाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।
आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।
परमाय॒ नमः । परमलिङ्गाय॒ नमः ।
एतथ्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम् ॥ 16.1 (तै. अर. 6.16.2)
पश्चिमवक्त्र प्रतिपादक मन्त्रः (4.18)
तै. अर. 6.17.1
स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ 17.1
उत्तर वक्त्र प्रतिपादक मन्त्रः (4.19)
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥ 18.1 (तै. अर. 6.18.1)
दक्षिण वक्त्र प्रतिपादक मन्त्रः (4.20)
अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ 19.1 (तै. अर. 6.19.1)
प्राग्वक्त्र प्रतिपादक मन्त्रः (4.21)
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ 20.1 (तै. अर. 6.20.1)
ऊर्ध्व वक्त्र प्रतिपादक मन्त्रः (4.22)
ईशानः सर्व॑विद्या॒ना॒- मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒-र्ब्रह्म॒णोऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ 21.1 (तै. अर. 6.21.1)
नमस्कारार्थ मन्त्राः (4.23)
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये ऽबिङ्कापतय उमापतये पशुपतये॑ नमो॒ नमः ॥ 22.1 (तै. अर. 6.22.1)
ऋ॒तग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥ 23.1 (तै. अर. 6.23.1)
सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नमः॑ । विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत् । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ 24.1 (तै. अर. 6.24.1)
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मग्ं हृ॒दे ॥ सर्वो॒ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ 25.1 (तै. अर. 6.25.1)
अग्निहोत्र हवण्याः उपयुक्तस्य वृक्ष विशेष-स्याभिधानम् (4.24-25)
यस्य॒ वै क॑ङ्कत्यग्नि-होत्र॒हव॑णी भवति॒ प्रत्ये॒वा-स्याहु॑तय-स्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै ॥ 26.1 (तै. अर. 6.26.1)
भूदेवताक मन्त्रः (4.26)
अदि॑ति-र्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो-ऽसु॑रा॒-स्तेषाग्ं॑ सर्व भू॒तानां᳚ मा॒ता मे॒दिनी॑ मह॒ता म॒ही सा॑वि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता क॑त॒मा काया सा स॒त्ये-त्य॒मृतेति॑ वसि॒ष्ठः ॥ 28.1 (तै. अर. 6.28.1)
सर्वा देवता आपः (4.27)
आपो॒ वा इ॒दग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापो -ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडापः॒
छन्दा॒ग्ग्॒स्यापो॒ ज्योती॒ग्ग्॒ष्यापो॒ यजू॒ग्ग्॒ष्यापः॑ स॒त्यमापः॒ सर्वा॑
दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ओम् ॥ 29.1 (तै. अर. 6.29.1)
सन्ध्यावन्दन मन्त्राः (4.28)
आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् । पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒-र्ब्रह्म॑ पू॒ता पु॑नातु॒ माम् । यदुच्छि॑ष्ट॒-मभो᳚ज्यं॒-यँद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामापो॑-ऽस॒ताञ्च॑ प्रति॒ग्रह॒ग्ग्॒ स्वाहा᳚ ॥ 30.2 (तै. अर. 6.30.1)
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्॒षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्या-मुदरे॑ण शि॒श्ना । अह॒स्तद॑वलु॒पन्तु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमह-माममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ 31.1 (तै. अर. 6.31.1)
सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्॒षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्या-मुदरे॑ण शि॒श्ना । रात्रि॒-स्तद॑वलु॒पन्तु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमह-माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ 32.1 (तै. अर. 6.32.1)
प्रणवस्य ऋष्यादि विवरणं (4.29)
ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्षम् । गायत्रं छन्दं परमात्मं॑ सरू॒पम् । सायुज्यं-विँ॑नियो॒गम् ॥ 33.1 (तै. अर. 6.33.1)
गायत्र्यावाहन मन्त्राः (4.30)
आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्रीं᳚ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे । यदह्ना᳚त् कुरु॑ते पा॒पं॒ तदह्ना᳚त् प्रति॒मुच्य॑ते । य-द्रात्रिया᳚त् कुरु॑ते पा॒पं॒ त-द्रात्रिया᳚त् प्रति॒मुच्य॑ते । सर्व॑ व॒र्णे म॑हादे॒वि॒ स॒न्ध्या वि॑द्ये स॒रस्व॑ति ॥ 34.2 (तै. अर. 6.34.1)
ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु-रभिभूरों-गायत्री-मावा॑हया॒मि॒ सावित्री-मावा॑हया॒मि॒ सरस्वती-मावा॑हया॒मि॒ छन्दर्षी-नावा॑हया॒मि॒ श्रिय-मावा॑हया॒मि॒ गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयग्ं रुद्रः शिखा पृथिवीयोनिः प्राणापान-व्यानोदान-समाना सप्राणा श्वेतवर्णा साङ्ख्यायन-सगोत्रा गायत्री चतुर्विग्ंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पञ्च शीर्षोपनयने वि॑नियो॒ग॒, ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् । ॐ तथ् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् । ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ 35.2 (तै. अर. 6.35.1)
गायत्री उपस्थान मन्त्राः (4.31)
उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि । ब्रा॒ह्मणे᳚भ्यो-ऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खम् । स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता । आयुः पृथिव्यां-द्रविणं ब्र॑ह्मव॒र्च॒सं॒ मह्यं दत्वा प्रजातुं ब्र॑ह्मलो॒कम् ॥ 36.2 (तै. अर. 6.36.1)
आदित्यदेवता मन्त्रः (4.32)
घृणिः॒ सूर्य॑ आदि॒त्यो न प्रभा॑-वा॒त्यक्ष॑रम् । मधु॑क्षरन्ति॒ त-द्र॑सम् । स॒त्यं-वैँ त-द्रस॒-मापो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ 37.1 (तै. अर. 6.37.1)
त्रिसुपर्णमन्त्राः (4.33)
ब्रह्म॑ मेतु॒ माम् । मधु॑ मेतु॒ माम् । ब्रह्म॑-मे॒व मधु॑ मेतु॒ माम् । यास्ते॑ सोम प्र॒जाव॒थ्सो-ऽभि॒सो अ॒हम् । दुःष्व॑प्न॒हन् दु॑रुष्वह । यास्ते॑ सोम प्रा॒णाग्ग्स्तां जु॑होमि । त्रिसु॑पर्ण॒ मया॑चितं ब्राह्म॒णाय॑ दद्यात् । ब्र॒ह्म॒ह॒त्यां-वाँ ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒क्तिं पुन॑न्ति । ओम् ॥ 38.1 (तै. अर. 6.38.1)
ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ । अ॒द्या नो॑ देव सवितः प्र॒जाव॑थ्सावीः॒ सौभ॑गम् । परा॑ दुः॒ष्वप्नि॑यग्ं सुव । विश्वा॑नि देव सवित-र्दुरि॒तानि॒ परा॑सुव । य-द्भ॒द्रं तन्म॒ आसु॑व । मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः । माद्ध्वी᳚र्नः स॒न्त्वोष॑धीः । मधु॒नक्त॑ मु॒तोषसि॒ मधु॑म॒त् पार्थि॑व॒ग्ं॒ रजः॑ । मधु॒द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒-र्मधु॑माग्ं अस्तु॒ सूर्यः॑ । माद्ध्वी॒ र्गावो॑ भवन्तु नः । य इ॒मं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् । भ्रू॒ण॒ह॒त्यां-वाँ ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒क्तिं पुन॑न्ति । ओम् ॥ 39.7 (तै. अर. 6.39.1)
ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ । ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒-र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् । श्ये॒नो गृद्ध्रा॑णा॒ग्ग्॒ स्वधि॑ति॒-र्वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒-मत्ये॑ति॒ रेभन्न्॑ । ह॒ग्ं॒सः शु॑चि॒ष-द्वसु॑रन्तरिक्ष॒ सद्धोता॑- वेदि॒ष-दति॑थि-र्दुरोण॒सत् । नृ॒षद्व॑र॒-सदृ॑त॒-स-द्व्यो॑म॒-सद॒ब्जा- गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् । ऋ॒चेत्वा॑ रु॒चेत्वा॒ समिथ् स्र॑वन्ति स॒रितो॒ न धेनाः᳚ । अ॒न्त-र्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसाम् । तस्मि᳚न्थ् सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः । तस्या॑ सते॒ हर॑यः स॒प्ततीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् । य इ॒दं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् । वी॒र॒ह॒त्यां-वाँ ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ 40.6 (तै. अर. 6.40.1)
मेधा सूक्तं (4.34)
मे॒धादे॒वी जु॒षमा॑णा न॒ आगा᳚-द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्य मा॑ना । त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता᳚न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ । त्वया॒ जुष्ट॑ ऋ॒षि-र्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑ रु॒त त्वया᳚ । त्वया॒ जुष्ट॑श्चि॒त्रं-विँ॑न्दते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो नमेधे ॥ 41.1 (तै. अर. 6.41.1)
मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑ अ॒श्विना॑-वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा ॥ अ॒फ्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑-र्जुषता॒ग्ग्॒ स्वाहा᳚ ॥ 42.1 (तै. अर. 6.42.1)
आमां᳚ मे॒धा सु॒रभि॑-र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां᳚ मे॒धा सु॒प्रती॑का जुषन्ताम् ॥ 43.1 (तै. अर. 6.43.1)
मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ 44.1 (तै. अर. 6.44.1)
मृत्युनिवारण मन्त्राः (4.35)
अपै॑तु मृ॒त्यु-र॒मृत॑न्न॒ आग॑न्. वैवस्व॒तो नो॒ अभ॑यङ्कृणोतु । प॒र्णं-वँन॒स्पते॑ रिवा॒भिनः॑ शीयताग्ं र॒यिः सच॑तान्नः॒ शची॒पतिः॑ ॥ 45.1 (तै. अर. 6.45.1)
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒-यँस्ते॒स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मानः॑ प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् ॥ 46.1 (तै. अर. 6.46.1)
वातं॑ प्रा॒णं मन॑सा॒ न्वार॑भामहे प्र॒जाप॑तिं॒-योँ भुव॑नस्य गो॒पाः । सनो॑ मृ॒त्यो स्त्रा॑यतां॒ पात्वग्ंह॑सो॒ ज्योग् जी॒वा ज॒राम॑शीमहि ॥ 47.1 (तै. अर. 6.47.1)
अ॒मु॒त्र॒ भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒र मु॑ञ्चः । प्रत्यौ॑हता म॒श्विना॑ मृ॒त्यु म॑स्मा-द्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥ 48.1 (तै. अर. 6.48.1)
हरि॒ग्ं॒ हर॑न्त॒- मनु॑यन्ति दे॒वा विश्व॒स्येशा॑नं-वृँष॒भं म॑ती॒नाम् । ब्रह्म॒ सरू॑प॒-मनु॑मे॒दमा॑गा॒-दय॑नं॒ मा विव॑धी॒-र्विक्र॑मस्व ॥ 49.1 (तै. अर. 6.49.1)
शल्कै॑र॒ग्नि-मि॑न्धा॒न उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयो᳚ र्लो॒कया॑-र्ऋ॒ध्द्वाऽति॑ मृ॒त्युं त॑राम्य॒हम् ॥ 50.1 (तै. अर. 6.50.1)
मा छि॑दो मृत्यो॒ मा व॑धी॒र्मा मे॒ बलं॒-विँवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम ॥ 51.1 (तै. अर. 6.51.1)
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ 52.1 (तै. अर. 6.52.1)
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तोव॑धी-र्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ 53.1 (तै. अर. 6.53.1)
प्रजापति-प्रार्थना मन्त्रः (4.36)
प्रजा॑पते॒ न त्वदे॒ता-न्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव । यत् का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ 54.1 (तै. अर. 6.54.1)
इन्द्रप्रार्थना मन्त्रः (4.37)
स्व॒स्ति॒दा वि॒शस्पति॑-र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु नस्स्वस्ति॒दा अ॑भयं क॒रः ॥ 55.1 (तै. अर. 6.55.1)
मृत्युञ्जय मन्त्राः (4.38)
त्र्य॑म्बकं-यँजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्-मृ॒त्यो-र्मु॑क्षीय॒ माऽमृता᳚त् ॥ 56.1 (तै. अर. 6.56.1)
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान्. य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ॥ 58.1 (तै. अर. 6.57-58)
पापनिवारका मन्त्राः (4.39)
दे॒वकृ॑त॒स्यैन॑सो-ऽव॒यज॑नमसि॒ स्वाहा᳚ ।
म॒नु॒ष्य॑कृत॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।
पि॒तृकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।
आ॒त्मकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।
अ॒न्यकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।
अ॒स्मत्कृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।
यद्दि॒वा च॒ नक्तं॒ चैन॑श्चकृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ ।
यथ् स्व॒पन्त॑श्च॒ जाग्र॑त॒-श्चैन॑श्च-कृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ ।
यथ् सु॒षुप्त॑श्च॒ जाग्र॑त॒-श्चैन॑श्च-कृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ ।
य-द्वि॒द्वाग्ंस॒श्चा वि॑द्वाग्ंस॒श्चैन॑श्च-कृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ ।
एनस एनसो वयजनम॑सि स्वा॒हा ॥ 59.1 (तै. अर. 6.59.1)
वसु-प्रार्थना मन्त्रः (4.40)
यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रुमन॑सो वा॒ प्रयु॑ती देव॒ हेड॑नम् । अरा॑वा॒यो नो॑ अ॒भिदु॑च्छुना॒यते॒ तस्मि॒न् तदेनो॑ वसवो॒
निधे॑तन॒ स्वाहा᳚ ॥ 60.1 (तै. अर. 6.60.1)
कामोऽकार्षीत् – मन्युरकार्षीत् मन्त्रः (4.41)
कामोऽकार्षी᳚न् नमो॒ नमः । कामोऽकार्षीत् कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता कामः॑ कार॒यिता नाहं॑ कार॒यिता एष ते काम कामा॑य स्वा॒हा ॥ 61.1 (तै. अर. 6.61.1)
मन्युरकार्षी᳚न् नमो॒ नमः । मन्युरकार्षीन् मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्युः॑ कार॒यिता नाहं॑ कार॒यिता एष ते मन्यो मन्य॑वे स्वा॒हा ॥ 62.1 (तै. अर. 6.62.1)
विरजा होम मन्त्राः (4.42)
तिलाञ्जुहोमि सरसाग्ं सपिष्टान् गन्धार मम चित्ते रम॑न्तु स्वा॒हा । गावो हिरण्यं धनमन्नपानग्ं सर्वेषाग्ग् श्रि॑यै स्वा॒हा । श्रियञ्च लक्ष्मिञ्च पुष्टिञ्च कीर्तिं॑ चा नृ॒ण्यताम् । ब्रह्मण्यं ब॑हुपु॒त्रताम् । श्रद्धामेधे प्रजाः सन्ददा॑तु स्वा॒हा ॥ 63.3 (तै. अर. 6.63.1)
तिलाः कृष्णा-स्ति॑लाः श्वे॒ता॒-स्तिलाः सौम्या व॑शानु॒गाः । तिलाः पुनन्तु॑ मे पा॒पं॒-यँत्किञ्चि-द्दुरितं म॑यि स्वा॒हा । चोर॒स्यान्नं न॑वश्रा॒द्धं॒ ब्र॒ह्म॒हा गु॑रुत॒ल्पगः । गोस्तेयग्ं स॑रापा॒नं॒ भ्रूणहत्या तिला शान्तिग्ं शमय॑न्तु स्वा॒हा । श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिं॑ चा नृ॒ण्यताम् । ब्रह्मण्यं ब॑हुपु॒त्रताम् । श्रद्धामेधे प्रज्ञातु जातवेदः सन्ददा॑तु स्वा॒हा ॥ 64.3 (तै. अर. 6.64.1)
प्राणापान-व्यानोदान-समाना मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । वां-मन-श्चक्षुः-श्रोत्र-जिह्वा-घ्राण-रेतो-बुद्ध्याकूतिः सङ्कल्पा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । त्वक्-चर्म-माग्ंस-रुधिर-मेदो-मज्जा-स्नायवो-ऽस्थीनि मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । शिरः पाणि पाद पार्श्व पृष्ठो-रूदर-जङ्घ-शिश्र्नोपस्थ पायवो मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । उत्तिष्ठ पुरुष हरित-पिङ्गल लोहिताक्षि देहि देहि ददापयिता मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ ॥ 65.5 (तै. अर. 6.65.1)
पृथिव्याप स्तेजो वायु-राकाशा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । शब्द-स्पर्श-रूपरस-गन्धा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । मनो-वाक्-काय-कर्माणि मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । अव्यक्तभावै-र॑हङ्का॒र॒-र्ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । आत्मा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । अन्तरात्मा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । परमात्मा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । क्षु॒धे स्वाहा᳚ । क्षुत्पि॑पासाय॒ स्वाहा᳚ । विवि॑ट्यै॒ स्वाहा᳚ । ऋग्वि॑धानाय॒ स्वाहा᳚ । क॒षो᳚त्काय॒ स्वाहा᳚ । क्षु॒त्पि॒पा॒साम॑लं ज्ये॒ष्ठा॒म॒ल॒क्ष्मी-र्ना॑शया॒म्यहम् । अभू॑ति॒-मस॑मृद्धि॒ञ्च॒ सर्वां (सर्वा) निर्णुद मे पाप्मा॑नग्ग् स्वा॒हा । अन्नमय-प्राणमय-मनोमय-विज्ञानमय-मानन्दमय-मात्मा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ ॥ 66.10 (तै. अर. 6.66.1)
वैश्वदेव मन्त्राः (4.43)
अ॒ग्नये॒ स्वाहा᳚ । विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा᳚ । ध्रु॒वाय॑ भू॒माय॒ स्वाहा᳚ । ध्रु॒व॒क्षित॑ये॒ स्वाहा᳚ । अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा᳚ । अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚ । धर्मा॑य॒ स्वाहा᳚ । अध॑र्माय॒ स्वाहा᳚ । अ॒द्भ्यः स्वाहा᳚ । ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा᳚ । 67.1 (तै. अर. 6.67.1)
र॒क्षो॒दे॒व॒ज॒नेभ्यः॒ स्वाहा᳚ ।
गृह्या᳚भ्यः॒ स्वाहा᳚ । अ॒व॒साने᳚भ्यः॒ स्वाहा᳚ । अ॒व॒सान॑पतिभ्यः॒ स्वाहा᳚ । स॒र्व॒भू॒तेभ्यः॒ स्वाहा᳚ । कामा॑य॒ स्वाहा᳚ । अ॒न्तरि॑क्षाय॒ स्वाहा᳚ । यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा᳚ । पृ॒थि॒व्यै स्वाहा᳚ । अ॒न्तरि॑क्षाय॒ स्वाहा᳚ । 67.2 (तै. अर. 6.67.2)
दि॒वे स्वाहा᳚ । सूर्या॑य॒ स्वाहा᳚ । च॒न्द्रम॑से॒ स्वाहा᳚ । नक्ष॑त्रेभ्यः॒ स्वाहा᳚ । इन्द्रा॑य॒ स्वाहा᳚ । बृह॒स्पत॑ये॒ स्वाहा᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ । ब्रह्म॑णे॒ स्वाहा᳚ । स्व॒धा पि॒तृभ्यः॒ स्वाहा᳚ । नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚ । 67.3 (तै. अर. 6.67.3)
दे॒वेभ्यः॒ स्वाहा᳚ । पि॒तृभ्यः॑ स्व॒धाऽस्तु॑ । भू॒तेभ्यो॒ नमः॑ । म॒नु॒ष्ये᳚भ्यो॒ हन्ता᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ । प॒र॒मे॒ष्ठिने॒ स्वाहा᳚ । यथा कू॑पः श॒तधा॑रः स॒हस्र॑धारो॒ अक्षि॑तः । ए॒वा मे॑ अस्तु धा॒न्यग्ं स॒हस्र॑धार॒-मक्षि॑तम् । धन॑धान्यै॒ स्वाहा᳚ ॥ ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒नक्तं॒ बलि॑-मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः᳚ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पति-र्दधातु॒ स्वाहा᳚ ॥ 67.4 (तै. अर. 6.67.4)
(ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा॒ – ऽन्तरि॑क्षाय॒ स्वाहा॒ – नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑ – वि॒तुद॑स्य॒ प्रेष्या॒ एकं॑ च)
ॐ᳚ त-द्ब्र॒ह्म । ॐ᳚ त-द्वा॒युः । ॐ᳚ तदा॒त्मा । ॐ᳚ तथ् स॒त्यम् । ॐ᳚ तथ् सर्व᳚म् । ॐ᳚ तत् पुरो॒-र्नमः । अन्तश्चरति॑ भूते॒षु॒ गुहायां-विँ॑श्व मू॒र्तिषु । त्वं-यँज्ञस्त्वं-वँषट्कारस्त्व-मिद्रस्त्वग्ं रुद्रस्त्वंविँष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः । त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ 68.2 (तै. अर. 6.68.1)
4.44 प्राणाहुति मन्त्राः
श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
श्र॒द्धायां᳚-व्याँ॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
श्र॒द्धायाग्ं॑ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ॥
अ॒मृ॒तो॒प॒स्तर॑णमसि ॥
श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । प्रा॒णाय॒ स्वाहा᳚ ।
श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । अ॒पा॒नाय॒ स्वाहा᳚ ।
श्र॒द्धायां᳚-व्याँ॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । व्या॒नाय॒ स्वाहा᳚ ।
श्र॒द्धाया॑-मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । उ॒दा॒नाय॒ स्वाहा᳚ ।
श्र॒द्धायाग्ं॑ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । स॒मा॒नाय॒ स्वाहा᳚ ।
ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ॥
अ॒मृ॒ता॒पि॒धा॒नम॑सि ॥ 69.4 (तै. अर. 6.69.1)
भुक्तान्नाभिमन्त्रण मन्त्राः (4.45)
श्र॒द्धायां᳚ प्रा॒णे निवि॑श्या॒ऽमृतग्ं॑ हु॒तम् । प्रा॒ण मन्ने॑नाप्यायस्व ।
श्र॒द्धाया॑मपा॒ने निवि॑श्या॒ऽमृतग्ं॑ हु॒तम् । अ॒पा॒न मन्ने॑नाप्यायस्व ।
श्र॒द्धायां᳚-व्याँ॒ने निवि॑श्या॒ऽमृतग्ं॑ हु॒तम् । व्या॒न मन्ने॑नाप्यायस्व ।
श्र॒द्धाया॑-मुदा॒ने निवि॑श्या॒ऽमृतग्ं॑ हु॒तम् । उ॒दा॒न मन्ने॑नाप्यायस्व ।
श्र॒द्धायाग्ं॑ समा॒ने निवि॑श्या॒ऽमृतग्ं॑ हु॒तम् । स॒मान॒ मन्ने॑नाप्यायस्व ॥ 70.1 (तै. अर. 6.70.1)
भोजनान्ते आत्मानुसन्धान मन्त्राः (4.46)
अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च॑ समा॒श्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणाति॑ विश्व॒भुक् ॥ 71.1 (तै. अर. 6.71.1)
अवयवस्वस्थता प्रार्थना मन्त्रः (4.47)
वाम्म॑ आ॒सन्न् । न॒सोः प्रा॒णः । अ॒क्ष्यो-श्चक्षुः॑ । कर्ण॑योः॒ श्रोत्र᳚म् । बा॒हु॒वो-र्बल᳚म् । ऊ॒रु॒वो रोजः॑ । अरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नूः । त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः ॥ 72.1 (तै. अर. 6.72.1)
इन्द्र सप्तर्षि संवाँद मन्त्रः (4.48)
वयः॑ सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒य मे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑द्ध्वा॒न्त मू᳚र्णु॒हि पू॒र्धि चक्षु॑-र्मुमु॒ग्ध्य॑स्मान् नि॒धये॑ ऽवब॒द्धान् ॥ 73.1 (तै. अर. 6.73.1)
हृदयालम्भन मन्त्रः (4.49)
प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚-प्याय॒स्व ॥ 74.1 (तै. अर. 6.74.1)
देवता प्राणनिरूपण मन्त्रः (4.50)
नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥ 75.1 (तै. अर. 6.75.1)
अग्नि स्तुति मन्त्रः (4.51)
त्वम॑ग्ने॒ द्युभि॒-स्त्वमा॑शु-शु॒क्षणि॒-स्त्वम॒द्भ्य-स्त्वमश्म॑न॒स्परि॑ । त्वं-वँने᳚भ्य॒-स्त्वमोष॑धीभ्य॒-स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥ 76.1 (तै. अर. 6.76.1)
अभीष्ट याचना मन्त्रः (4.52)
शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व सुभू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व य॒ज्ञस्यर्धि॒ मनु॒ सन्ति॑ष्ठ॒ स्वोप॑ ते यज्ञ॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नमः॑ ॥ 77.1 (तै. अर. 6.77.1)
पर तत्त्व निरूपणं (4.53)
स॒त्यं परं॒ परग्ं॑ स॒त्यग्ं स॒त्येन॒ न सु॑व॒र्गा-ल्लो॒काच्च्य॑वन्ते
क॒दाच॒न स॒ताग्ं हि स॒त्यं तस्मा᳚थ् स॒त्ये र॑मन्ते॒,
तप॒ इति॒ तपो॒ नानश॑ना॒त् परं॒-यँद्धि परं॒ तप॒स्त-द्दुध॑र्षं॒
त-द्दुरा॑धर्षं॒ तस्मा॒त् तप॑सि रमन्ते॒,
दम॒ इति॒ निय॑तं ब्रह्मचा॒रिण॒-स्तस्मा॒-द्दमे॑ रमन्ते॒,
शम॒ इत्यर॑ण्ये मु॒नय॒-स्तस्मा॒च्छमे॑ रमन्ते,
दा॒नमिति॒ सर्वा॑णि भू॒तानि॑ प्र॒शग्ंस॑न्ति दा॒नान्नाति॑ दु॒श्चरं॒ तस्मा᳚-द्दा॒ने र॑मन्ते,
ध॒र्म इति॒ धर्मे॑ण॒ सर्व॑मि॒दं परि॑गृहीतं ध॒र्मान्नाति॑-दु॒ष्करं॒ तस्मा᳚-द्-ध॒र्मे र॑मन्ते,
प्र॒जन॒ इति॒ भूयाग्ं॑॑स॒-स्तस्मा॒-द्भूयि॑ष्ठाः॒ प्रजा॑यन्ते॒ तस्मा॒-द्भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते॒,
ऽग्नय॒ इत्या॑ह॒ तस्मा॑-द॒ग्नय॒ आधा॑तव्या अग्निहो॒त्र-मित्या॑ह॒ तस्मा॑-दग्निहो॒त्रे र॑मन्ते,
य॒ज्ञ इति॑ य॒ज्ञो हि दे॒वा स्तस्मा᳚-द्य॒ज्ञे र॑मन्ते,
मान॒स-मिति॑ वि॒द्वाग्ंस॒-स्तस्मा᳚-द्वि॒द्वाग्ंस॑ ए॒व मा॑न॒से र॑मन्ते,
न्या॒स इति॑ ब्र॒ह्मा ब्र॒ह्मा हि परः॒ परो॑ हि ब्र॒ह्मा तानि॒ वा ए॒तान्यव॑राणि॒ पराग्ं॑सि न्या॒स ए॒वात्य॑रेचय॒-द्य ए॒वं-वेँदे᳚त्युप॒निषत् ॥ 78.11 (तै. अर. 6.78.1)
4.54 ज्ञान साधन निरूपणं
प्रा॒जा॒प॒त्यो हारु॑णिः सुप॒र्णेयः॑ प्र॒जाप॑तिं पि॒तर॒-मुप॑ससार॒ किं भ॑गव॒न्तः प॑र॒मं-वँ॑द॒न्तीति॒ तस्मै॒ प्रो॑वाच,
स॒त्येन॑ वा॒युरावा॑ति स॒त्ये-ना॑दि॒त्यो रो॑चते दि॒वि स॒त्यं-वाँ॒चः प्र॑ति॒ष्ठा स॒त्ये स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚थ् स॒त्यं प॑र॒मं-वँद॑न्ति॒,
तप॑सा दे॒वा दे॒वता॒-मग्र॑ आय॒न् तप॒सर्ष॑यः॒ सुव॒रन्व॑-विन्द॒न् तप॑सा स॒पत्ना॒न् प्रणु॑दा॒-मारा॑ती॒ स्तप॑सि स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒त् तपः॑ पर॒मं-वँद॑न्ति॒,
दमे॑न दा॒न्ताः कि॒ल्बिष॑-मवधू॒न्वन्ति॒ दमे॑न ब्रह्मचा॒रिणः॒ सुव॑रगच्छ॒न् दमो॑ भू॒तानां᳚ दुरा॒धर्षं॒ दमे॑ स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒-द्दमः॑ पर॒मं-वँद॑न्ति॒,
शमे॑न शा॒न्ताः शि॒व-मा॒चर॑न्ति॒ शमे॑न ना॒कं मु॒नयो॒-ऽन्ववि॑न्द॒न् छमो॑ भू॒तानां᳚ दुरा॒धर्षं॒ छमे॑ स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒च्छमः॑ पर॒मं-वँद॑न्ति,
दा॒नं-यँ॒ज्ञानां॒-वँरू॑थं॒ दक्षि॑णा लो॒के दा॒तारग्ं॑ सर्व भू॒तान्यु॑पजी॒वन्ति॑ दा॒नेनारा॑ती॒-रपा॑नुदन्त दा॒नेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति दा॒ने स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚-द्दा॒नं प॑र॒मं-वँद॑न्ति,
ध॒र्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के ध॒र्मिष्ठं॑ प्र॒जा उ॑पस॒र्पन्ति॑ ध॒र्मेण॑ पा॒प-म॑प॒नुद॑ति ध॒र्मे स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚-द्ध॒र्मं प॑र॒मं-वँद॑न्ति,
प्र॒जन॑नं॒-वैँ प्र॑ति॒ष्ठा लो॒के सा॒धु प्र॒जाया᳚ स्त॒न्तुन्-त॑न्वा॒नः पि॑तृ॒णा म॑नृ॒णो भव॑ति॒ तदे॑व त॒स्या अनृ॑णं॒ तस्मा᳚त् प्र॒जन॑नं पर॒मं-वँद॑न्त्य॒,
ग्नयो॒ वै त्रयी॑ वि॒द्या दे॑व॒यानः॒ पन्था॑ गार्हप॒त्य ऋक्-पृ॑थि॒वी र॑थन्त॒र-म॑न्वाहा-र्य॒पच॑नं॒-यँजु॑र॒न्तरि॑क्षं-वाँमदे॒व्य मा॑हव॒नीयः॒ साम॑सुव॒र्गो लो॒को बृ॒हत्-तस्मा॑-द॒ग्नीन् प॑र॒मं-वँद॑न्त्य,
ग्निहो॒त्रग्ं सा॑यं प्रा॒त-र्गृ॒हाणां॒-निष्कृ॑तिः॒ स्वि॑ष्टग्ं सुहु॒तं-यँ॑ज्ञक्रतू॒नां प्राय॑णग्ं सुव॒र्गस्य॑ लो॒कस्य॒ ज्योति॒-स्तस्मा॑-दग्निहो॒त्रं प॑र॒मं-वँद॑न्ति,
य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दिवं॑ ग॒ता य॒ज्ञेनासु॑रा॒-नपा॑नुदन्त य॒ज्ञेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति य॒ज्ञे स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚-द्य॒ज्ञं प॑र॒मं-वँद॑न्ति,
मान॒सं-वैँ प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु प॑श्यति मान॒सा ऋष॑यः प्र॒जा अ॑सृजन्त मान॒से स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚न् मान॒सं प॑र॒मं-वँद॑न्ति,
न्या॒स इ॒त्याहु॑-र्मनी॒षिणो᳚ ब्र॒ह्माणं॑ ब्र॒ह्मा विश्वः॑ कत॒मः स्व॑य॒भुंः प्र॒जाप॑तिः संवँथ्सर॒ इति॑, संवँथ्स॒रो॑ ऽसावा॑दि॒त्यो य ए॒ष आ॑दि॒त्ये पुरु॑षः॒ स प॑रमे॒ष्ठी ब्रह्मा॒त्मा,
याभि॑रादि॒त्य-स्तप॑ति र॒श्मिभि॒स्ताभिः॑ प॒र्जन्यो॑ वर्षति प॒र्जन्ये॑-नौषधि-वनस्प॒तयः॒ प्रजा॑यन्त ओषधि-वनस्प॒तिभि॒-रन्नं॑ भव॒त्यन्ने॑न प्रा॒णाः प्रा॒णै-र्बलं॒ बले॑न॒ तप॒-स्तप॑सा श्र॒द्धा श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा॒ शान्तिः॒ शान्त्या॑ चि॒त्तं चि॒त्तेन॒ स्मृति॒ग्ग्॒ स्मृत्या॒ स्मार॒ग्ग्॒ स्मारे॑ण वि॒ज्ञानं॑-विँ॒ज्ञाने॑-ना॒त्मानं॑-वेँदयति॒ तस्मा॑द॒न्नं दद॒न्थ् सर्वा᳚ण्ये॒तानि॑ ददा॒-त्यन्ना᳚त् प्रा॒णा भ॑वन्ति,
भू॒तानां᳚ प्रा॒णै-र्मनो॒ मन॑सश्च वि॒ज्ञानं॑-विँ॒ज्ञाना॑-दान॒न्दो ब्र॑ह्म यो॒निः स वा ए॒ष पुरु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं प्रोतं॑ पृथि॒वी चा॒न्तरि॑क्षं च॒ द्यौश्च॒ दिश॑श्चावान्तरदि॒शाश्च॒ स वै सर्व॑मि॒दं जग॒थ्स स॒भूतग्ं॑ स भ॒व्यं जि॑ज्ञास क्लृ॒प्त ऋ॑त॒जा रयि॑ष्ठा,
श्र॒द्धा स॒त्यो मह॑स्वान् त॒पसो॒ परि॑ष्ठा॒द् (वरि॑ष्ठा॒द्) ज्ञात्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्यु-मुप॑याहि वि॒द्वान् तस्मा᳚-न्न्या॒स-मे॒षां तप॑सा-मतिरिक्त॒माहु॑-र्वसुर॒ण्वो॑ वि॒भूर॑सि प्रा॒णे त्वमसि॑ सन्धा॒ता
ब्रह्म॑न् त्वमसि॑ विश्व॒धृत्ते॑-जो॒दास् त्वम॑स्य॒ग्नि-र॑सि वर्चो॒दा-स्त्वम॑सि॒ सूर्य॑स्य द्युम्नो॒दा स्त्वम॑सि च॒न्द्रम॑स उपया॒मगृ॑हीतोऽसि ब्र॒ह्मणे᳚ त्वा॒ महस॒,
ओमित्या॒त्मानं॑-युँञ्जीतै॒तद्वै म॑होप॒निष॑दं दे॒वानां॒ गुह्यं॒-यँ ए॒वं-वेँद॑ ब्र॒ह्मणो॑ महि॒मान॑-माप्नोति॒ तस्मा᳚-द्ब्र॒ह्मणो॑ महि॒मान॑-मित्युप॒निषत् ॥ 79.20 (तै. अर. 6.79.1)
ज्ञानयज्ञः (4.55)
तस्यै॒वं-विँ॒दुषो॑ य॒ज्ञस्या॒त्मा यज॑मानः-श्र॒ध्दापत्नी॒ शरी॑र-मि॒द्ध्ममुरो॒
वेदि॒-र्लोमा॑नि ब॒र॒ःइ-र्वे॒दः-शिखा॒ हृद॑यं॒-यूँपः॒ काम॒ आज्यं॑ म॒न्युः प॒शु-स्तपो॒ऽग्नि-र्दमः॑ शमयि॒ता दक्षि॑णा॒-वाग्घोता᳚ प्रा॒ण
उ॑द्ग॒ता चक्षु॑रध्व॒र्यु-र्मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नी-ध्याव॒ध्द्रिय॑ते॒ सा दी॒क्षा यदश्र्ना॑ति॒ तध्दवि॒-र्यत्पिब॑ति॒ तद॑स्य सोमपा॒नं-यँद्रम॑ते॒ तदु॑प॒सदो॒ यथ् स॒ञ्चर॑-त्युप॒विश॑-त्यु॒त्तिष्ठ॑ते च॒ सप्र॑व॒र्ग्यो॑ यन्मुखं॒ तदा॑हव॒नीयो॒ या व्याहृ॑ति-राहु॒ति-र्यद॑स्य वि॒ज्ञानं॒ तज्जु॒होति॒ यथ्सा॒यं प्रा॒तर॑त्ति॒ तथ्स॒मिधं॒-यँत्प्रा॒त-र्म॒द्ध्यन्दि॑नग्ं सा॒यं च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्शपूर्णमा॒सौ ये᳚ऽर्धमा॒साश्च॒ मासा᳚श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये सं॑वँथ्स॒राश्च॑ परिवथ्स॒राश्च॒ तेऽह॑र्ग॒णाः स॑र्व वेद॒सं-वाँ ए॒तथ् स॒त्रं-यँन्मर॑णं॒ तद॑व॒भृथ॑
ए॒तद्वै ज॑रामर्य-मग्निहो॒त्रग्ं स॒त्रं-यँ ए॒वं-विँ॒द्वा-नु॑द॒गय॑ने प्र॒मीय॑ते
दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वाऽऽदि॒त्यस्य॒ सायु॑ज्यं गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णा-मे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑सः॒ सायु॑ज्यग्ं सलो॒कता॑-माप्नोत्ये॒तौ वै सू᳚र्या चन्द्र॒मसौ᳚-र्महि॒मानौ᳚ ब्राह्म॒णो वि॒द्वा-न॒भिज॑यति॒ तस्मा᳚-द्ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा᳚-द्ब्र॒ह्मणो॑ महि॒मान॑-मित्युप॒निषत् ॥ 80.1 (तै. अर. 6.80.1)
स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इति महानारायणोपनिषत् समाप्ता
(अम्भ॒स्यैक॑पञ्चा॒शच्छ॒तं – जा॒तवे॑दसे॒ चतु॑र्दश॒ – भूरन्नं॒ – भूर॒ग्नये॒ – भूर॒ग्नये॒ चैक॑मेकं – पाहि – पा॒हि च॒त्वारि॑ चत्वारि॒ – यः छन्द॑सां॒ द्वे – नमो॒ ब्रह्म॑णे – ऋ॒तं तपो॒ – यथा॑ वृ॒क्षस्यैक॑ मेक – म॒णोरणी॑या॒ग्ग्॒ श्चतु॑स्त्रिग्ंशथ् – सहस्र॒शी॑ष॒ग्ं॒ षट्वि॑ग्ंशति – रादि॒त्यो वा ए॒ष – आ॑दि॒त्यो वै तेज॒ एक॑मेकं॒ – निध॑नपतये॒ त्रयो॑विग्ंशतिः – स॒द्योजा॒तं त्रीणि॑ – वामदे॒वायैक॑ – म॒घोरे᳚भ्य॒ – स्तत्पुरु॑षाय॒ द्वे द्वे॒ – ईशानो – नमो हिरण्यबाहव॒ एक॑मेक – मृ॒तग्ं स॒त्यं द्वे – सर्वो॒ वै च॒त्वारि॒ – कद्रु॒द्राय॒ त्रीणि॒ – यस्य॒ वै कङ्क॑ती – कृणु॒ष्व पाजो – ऽदि॑ति॒ – रापो॒ वा इ॒दग्ं सर्व॒ मेक॑मेक॒ – मापः॑ पुनन्तु च॒त्वा – र्यग्निश्च – सूर्यश्च नव॑ – न॒वोमिति॑ च॒त्वा – र्याया॑तु॒ पचौ – जो॑ऽसि॒ दशो॒ – त्तमे॑ च॒त्वारि॒ – घृणि॒स्त्रीणि॒ – ब्रह्म॑मेतु॒ मां-याँस्ते᳚ ब्रह्मह॒त्यां द्वाद॑श॒ – ब्रह्म॑ मे॒धया॒ऽद्या न॑ इ॒मं भ्रू॑षह॒त्यां – ब्रह्म॑ मे॒धवा᳚ ब्र॒ह्मा दे॒वाना॑मि॒दं-वीँ॑रह॒त्यामेका॒न्न वि॑ग्ंशति॒ रेका॒न्नवि॑ग्ंशति–र् मे॒धा दे॒वी – मे॒धां म॒ इन्द्र॑श्च॒त्वारि॑ चत्वा॒र्या – मां᳚ मे॒धा द्वे – मयि॑ मे॒धा मेक॒- मपै॑तु॒ – परं॒ – वाँतं॑ प्रा॒ण – म॑मुत्र॒भूया॒-द्- द्धरि॒ग्ं॒ – शल्कै॑र॒ग्निं – मा छि॑दो मृत्यो॒ – मा नो॑ म॒हान्तं॒ – मान॑स्तो॒के – प्रजा॑पते – स्वस्ति॒दा – त्र्य॑म्बकं॒ – येँ ते॑ स॒हस्रं॒ द्वे द्वे – मृ॒त्यवे॒ स्वाहैकं॑ – दे॒वकृ॑त॒स्यैका॑दश॒ – यद्वो॑ देवाः॒ – कामोऽकार्षी॒न् – मन्युरकार्षी॒-द्द्वे द्वे॒ – तिलाञ्जुहोमि गावः श्रियं प्र॑जाः पञ्च॒ – तिलाः कृण्षाश्चोर॑स्य॒ श्रीः प्रज्ञातु जातवे॑दः स॒प्त – प्राण वाक् त्वक् छिर उत्तिष्ठ पुरुष॑ पञ्च॒ – पृथिवी शब्द मनो वाग् व्यक्ताऽऽत्माऽन्तरात्मा परमात्मा मे᳚ क्षु॒धेऽन्नमय॒ पञ्च॑दशा॒ – ग्नये॒ स्वाहैक॑चत्वारि॒ग्ं॒श – र्दो᳚ न्तद्ब्र॒ह्म नव॑ – श्र॒द्धायां᳚ प्रा॒णे निविष्ट॒ श्चतु॑र्विग्ंशतिः – श्र॒द्धायां॒ दशा – ङ्गुष्ठ मात्रः पुरुषो द्वे – वाम्म॑ आ॒सन्न॒ष्टौ – वयः॑ सुप॒र्षाः – प्राणानां ग्रन्थिरसि द्वे द्वे – नमो रुद्रायैकं॒ – त्वम॑ग्ने॒ द्युभिर्॒ द्वे – शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व – स॒त्यं – प्रा॑जाप॒त्य – स्तस्यै॒व मेक॑ मेक॒ मशतिः)