अथ द्वितीयस्तोत्रम्
स्वजनोदधिसंवृद्धि पूर्णचन्द्रो गुणार्णवः । (सुजनोदधिसंवृद्धि)
अमन्दानन्द सान्द्रो नः सदाव्यादिन्दिरापतिः ॥ 1॥ (प्रीयातामिन्दिरापतिः)
रमाचकोरीविधवे दुष्टदर्पोदवह्नये । (दुष्टसर्पोदवह्नये)
सत्पान्थजनगेहाय नमो नारायणाय ते ॥ 2॥
चिदचिद्भेदं अखिलं विधायाधाय भुञ्जते ।
अव्याकृतगुहस्थाय रमाप्रणयिने नमः ॥ 3॥
अमन्दगुणसारोऽपि मन्दहासेन वीक्षितः ।
नित्यमिन्दिरयाऽनन्दसान्द्रो यो नौमि तं हरिम् ॥ 4॥
वशी वशो (वशे) न कस्यापि योऽजितो विजिताखिलः ।
सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥ 5॥
अगुणायगुणोद्रेक स्वरूपायादिकारिणे ।
विदारितारिसङ्घाय वासुदेवाय ते नमः ॥ 6॥
आदिदेवाय देवानां पतये सादितारये ।
अनाद्यज्ञानपाराय नमः पारावराश्रय ॥ 7॥ (नमो वरवराय ते)
अजाय जनयित्रेऽस्य विजिताखिलदानव ।
अजादि पूज्यपादाय नमस्ते गरुडध्वज ॥ 8॥
इन्दिरामन्दसान्द्राग्र्य कटाक्षप्रेक्षितात्मने ।
अस्मदिष्टैक कार्याय पूर्णाय हरये नमः ॥ 9॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु द्वितीयस्तोत्रं सम्पूर्णम्