देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां पराम् ।
परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ॥ 1 ॥
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् ।
न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ 2 ॥
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता ।
न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ 3 ॥
त्वं मया पूजिता साध्वी जननी च यथाऽदितिः ।
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ 4 ॥
त्वया मे रक्षिताः प्राणा पुत्रदाराः सुरेश्वरि ।
अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ॥ 5 ॥
नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके ।
तथापि तव पूजां वै वर्धयामि पुनः पुनः ॥ 6 ॥
ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः ।
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ॥ 7 ॥
पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च ।
यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ॥ 8 ॥
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ।
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥ 9 ॥
त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमलाकला ।
नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥ 10 ॥
तपसा तेजसा त्वां च मनसा ससृजे पिता ।
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ 11 ॥
मनसा देवि तु शक्ता चात्मना सिद्धयोगिनी ।
तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥ 12 ॥
यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ।
तेन त्वां मनसादेवीं प्रवदन्ति पुराविदः ॥ 13 ॥
सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया ।
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥ 14 ॥
इदं स्तोत्रं पुण्यबीजं तां सम्पूज्य च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ 15 ॥
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ।
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ 16 ॥
इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे षट्चत्वारिंशोऽध्याये महेन्द्र कृत श्री मनसादेवी स्तोत्रम् ॥
आस्तीकमुनि मन्त्रः
सर्पापसर्प भद्रं ते गच्छ सर्प महाविष ।
जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥