Print Friendly, PDF & Email

मार्कण्डेय उवाच ।

नारायणं परब्रह्म सर्व-कारण-कारणम् ।
प्रपद्ये वेङ्कटेशाख्यं तदेव कवचं मम ॥ 1 ॥

सहस्र-शीर्षा पुरुषो वेङ्कटेश-श्शिरोऽवतु ।
प्राणेशः प्राण-निलयः प्राणान् रक्षतु मे हरिः ॥ 2 ॥

आकाशरा-ट्सुतानाथ आत्मानं मे सदावतु ।
देवदेवोत्तमो पायाद्देहं मे वेङ्कटेश्वरः ॥ 3 ॥

सर्वत्र सर्वकालेषु मङ्गाम्बाजा-निरीश्वरः ।
पालयेन्मां सदा कर्म-साफल्यं नः प्रयच्छतु ॥ 4 ॥

य एत-द्वज्रकवच-मभेद्यं वेङ्कटेशितुः ।
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ 5 ॥

इति मार्कण्डेय-कृतं श्री वेङ्कटेश्वर वज्रकवच-स्तोत्रं सम्पूर्णम् ॥