(ऋग्वेद – 10.037)
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत ।
दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सू॒र्या॑य शंसत ॥ 1
सा मा॑ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च ।
विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्यः॑ ॥ 2
न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ ।
प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्याति॑षा यासि सूर्य ॥ 3
येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना॑ ।
तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्यं॑ सुव ॥ 4
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑लयन्नु॒च्चर॑सि स्व॒धा अनु॑ ।
यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ त-न्नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतु॑म् ॥ 5
त-न्नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒-वँचः॑ ।
मा शूने॑ भूम॒ सूर्य॑स्य स॒न्दृशि॑ भ॒द्र-ञ्जीव॑न्तो जर॒णाम॑शीमहि ॥ 6
वि॒श्वाहा॑ त्वा सु॒मन॑स-स्सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः ।
उ॒द्यन्त॑-न्त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥ 7
महि॒ ज्योति॒र्बिभ्र॑त-न्त्वा विचक्षण॒ भास्व॑न्त॒-ञ्चक्षु॑षेचक्षुषे॒ मयः॑ ।
आ॒रोह॑न्त-म्बृह॒तः पाज॑स॒स्परि॑ व॒य-ञ्जी॒वाः प्रति॑ पश्येम सूर्य ॥ 8
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभिः॑ ।
अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥ 9
श-न्नो॑ भव॒ चक्ष॑सा॒ श-न्नो॒ अह्ना॒ श-म्भा॒नुना॒ शं हि॒मा श-ङ्घृणेन॑ ।
यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑ण-न्धेहि चि॒त्रम् ॥ 10
अ॒स्माक॑-न्देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे ।
अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑त॒-न्तद॒स्मे शं-योँर॑र॒पो द॑धातन ॥ 11
यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेल॑नम् ।
अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ नि धे॑तन ॥ 12
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ।