कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्तृतीयकाण्डे पञ्चमः प्रश्नः – इष्टिशेषाभिधानं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दु-न्म॑द्ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय । तस्या᳚-न्दे॒वा अधि॑ सं॒वँस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ॥ यत्ते॑ दे॒वा अद॑धु र्भाग॒धेय॒ममा॑वास्ये सं॒वँस॑न्तो महि॒त्वा । सानो॑ य॒ज्ञ-म्पि॑पृहि विश्ववारे र॒यि-न्नो॑ धेहि सुभगे सु॒वीर᳚म् ॥नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒-विँश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न्. वर्च॑सा [आग॒न्. वर्च॑सा, सं॒विँ॒दा॒ना ।] 1
संविँदा॒ना ॥ अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू᳚-न्रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम् । मा॒द्ध्यग्ं हि पौ᳚र्णमा॒स-ञ्जु॒षेथा॒-म्ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒-ऽस्मभ्यग्ं॑ स॒हवी॑राग्ं र॒यि-न्नि य॑च्छतम् ॥ आ॒दि॒त्याश्चा-ऽङ्गि॑रसश्चा॒ग्नीना-ऽद॑धत॒ ते द॑र्शपूर्णमा॒सौ प्रैफ्स॒-न्तेषा॒मङ्गि॑रसा॒-न्निरु॑प्तग्ं ह॒विरासी॒दथा॑-ऽऽदि॒त्या ए॒तौ होमा॑वपश्य॒-न्ताव॑जुहवु॒स्ततो॒ वै ते द॑र्शपूर्णमा॒सौ [ ] 2
पूर्व॒ आ ऽल॑भन्त दर्शपूर्णमा॒सा-वा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुया-थ्सा॒क्षादे॒व द॑र्शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सावा ल॑भेत॒ य ए॑नयोरनु-लो॒मञ्च॑ प्रतिलो॒मञ्च॑ वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्ध्व-न्तद॑नुलो॒म-म्पौ᳚र्णमा॒स्यै प्र॑ती॒चीन॒-न्त-त्प्र॑तिलो॒मं-यँ-त्पौ᳚र्णमा॒सी-म्पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒-मुम॑प॒क्षीय॑माण॒-मन्वप॑- [-मन्वप॑, क्षी॒ये॒त॒ सा॒र॒स्व॒तौ होमौ॑] 3
-क्षीयेत सारस्व॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयादमावा॒स्या॑ वै सर॑स्वत्यनुलो॒म-मे॒वैना॒वा ल॑भते॒ ऽमुमा॒प्याय॑मान॒मन्वा प्या॑यत आग्नावैष्ण॒व-मेका॑दशकपाल-म्पु॒रस्ता॒न्निव॑र्पे॒-थ्सर॑स्वत्यै च॒रुग्ं सर॑स्वते॒ द्वाद॑शकपालं॒-यँदा᳚ग्ने॒यो भव॑त्य॒ग्निर्वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खमे॒वर्धि॑-म्पु॒रस्ता᳚-द्धत्ते॒ य-द्वै᳚ष्ण॒वो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वा-ऽऽरभ्य॒ प्रत॑नुते॒ सर॑स्वत्यै च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालो-ऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑स॒-स्सर॑स्वा॒-न्तावे॒व सा॒क्षादा र॑भत ऋ॒द्ध्नोत्या᳚भ्या॒-न्द्वाद॑शकपाल॒-स्सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा᳚त्यै मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ 4 ॥
(वर्च॑सा॒ – वै ते द॑र्शपूर्णमा॒सा – वप॑ – तनुते॒ सर॑स्वत्यै॒ – पञ्च॑विग्ंशतिश्च) (अ. 1)
ऋष॑यो॒ वा इन्द्र॑-म्प्र॒त्यक्ष॒-न्नाप॑श्य॒-न्तं-वँसि॑ष्ठः प्र॒त्यक्ष॑मपश्य॒-थ्सो᳚-ऽब्रवी॒-द्ब्राह्म॑ण-न्ते वक्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताः प्र॒जाः प्र॑जनि॒ष्यन्ते-ऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्रवो॑च॒ इति॒ तस्मा॑ ए॒तान्थ्स्तोम॑-भागानब्रवी॒-त्ततो॒ वसि॑ष्ठपुरोहिताः प्र॒जाः प्राजा॑यन्त॒ तस्मा᳚-द्वासि॒ष्ठो ब्र॒ह्मा का॒र्यः॑ प्रैव जा॑यते र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षय॑-ञ्जि॒न्वे- [क्षय॑-ञ्जि॒न्वेति॑, आ॒ह॒ दे॒वा वै] 5
-त्या॑ह दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञ-म्प्रा-ऽऽह॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्म॑-ञ्जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये᳚भ्य ए॒व य॒ज्ञ-म्प्रा-ऽऽहान्वि॑तिरसि दि॒वे त्वा॒ दिव॑-ञ्जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञ-म्प्रा-ऽऽह॑विष्ट॒म्भो॑-ऽसि॒ वृष्ट्यै᳚ त्वा॒ वृष्टि॑-ञ्जि॒न्वेत्या॑ह॒ वृष्टि॑मे॒वा-ऽव॑- [वृष्टि॑मे॒वा-ऽव॑, रु॒न्धे॒ प्र॒वा-] 6
-रुन्धे प्र॒वा-ऽस्य॑नु॒वा-ऽसीत्या॑ह मिथुन॒त्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसू᳚ञ्जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शा-ऽऽदि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञ-म्प्रा-ऽऽहौजो॑-ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄन् जि॒न्वेत्या॑ह दे॒वाने॒व पि॒तॄननु॒ सन्त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॒न्वे- [प्र॒जा जि॑न्व, इत्या॑ह पि॒तॄने॒व] 7
-त्या॑ह पि॒तॄने॒व प्र॒जा अनु॒ सन्त॑नोति पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शूननु॒ सन्त॑नोतिरे॒वद॒स्यो-ष॑धीभ्य॒ स्त्वौष॑धी-र्जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शू-न्प्रति॑ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्र॑-ञ्जि॒न्वेत्या॑हा॒भिजि॑त्या॒ अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒ण- [प्रा॒णम्, जि॒न्वेत्या॑ह] 8
-ञ्जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णा-न्द॑धाति त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ सग्ंरो॒हो॑-ऽसि नीरो॒हो॑-ऽसीत्या॑ह॒ प्रजा᳚त्यै वसु॒को॑-ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ॥ 9 ॥
(जि॒न्वेत्य – व॑ – प्र॒जा जि॑न्व – प्रा॒णन् – त्रि॒ग्ं॒शच्च॑) (अ. 2)
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा त्रि॒वृता॒ स्तोमे॑न रथन्त॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जा-न्भ्रातृ॑व्या॒नध॑रा-न्पादया॒म्यवै॑ना-न्बाधे॒ प्रत्ये॑नान्नुदे॒-ऽस्मिन् क्षये॒-ऽस्मि-न्भू॑मिलो॒के यो᳚-ऽस्मा-न्द्वेष्टि॒ यञ्च॑ व॒य-न्द्वि॒ष्मो विष्णोः॒ क्रमे॒णा-ऽत्ये॑नान् क्रामा॒मीन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टु॑भेन॒ छन्द॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण [वज्रे॑ण, स॒ह॒जान्. विश्वे॑भिर्दे॒वेभिः॒ पृत॑ना] 10
सह॒जान्. विश्वे॑भिर्दे॒वेभिः॒ पृत॑ना जयामि॒ जाग॑तेन॒ छन्द॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णा पर॒जानिन्द्रे॑ण स॒युजो॑ व॒यग्ं सा॑स॒ह्याम॑ पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति । यत्ते॑ अग्ने॒ तेज॒स्तेना॒ह-न्ते॑ज॒स्वी भू॑यासं॒-यँत्ते॑ अग्ने॒ वर्च॒स्तेना॒हं-वँ॑र्च॒स्वी भू॑यासं॒-यँत्ते॑ अग्ने॒ हर॒स्तेना॒हग्ं ह॑र॒स्वी भू॑यासम् ॥ 11 ॥
(बृ॒ह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण॒ – षट्च॑त्वारिग्ंशच्च) (अ. 3)
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषः॑ पृथि॒व्यामद्ध्यास॑ते । अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ॥ आ-ऽग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णा-म्भा॒गो यु॒वयो॒र्यो अस्ति॑ । नाक॑-ङ्गृह्णा॒ना-स्सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒-ऽन्तरि॒क्षे-ऽद्ध्यास॑ते । वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ॥ यास्ते॒ रात्री᳚-स्सवित- [रात्री᳚-स्सवितः, दे॒व॒यानी॑रन्त॒रा] 12
-र्देव॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृ॒हैश्च॒ सर्वैः᳚ प्र॒जया॒ न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजाग्ं॑सि ॥ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यद्ध्यास॑ते । सूर्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ॥ येनेन्द्रा॑य स॒मभ॑रः॒ पयाग्॑स्युत्त॒मेन॑ ह॒विषा॑ जातवेदः । तेना᳚-ऽग्ने॒ त्वमु॒त व॑र्धये॒मग्ं स॑जा॒ताना॒ग्॒ श्रैष्ठ्य॒ आ धे᳚ह्येनम् ॥ य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुष॑- [दे॒वा य॑ज्ञ॒मुषः॑, स॒न्ति॒ त ए॒षु] 13
-स्सन्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ । ये दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्यामद्ध्यास॑ते॒ ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्या॑हे॒माने॒व लो॒काग्स्ती॒र्त्वा सगृ॑ह॒-स्सप॑शु-स्सुव॒र्गं-लोँ॒कमे॒त्यप॒ वै सोमे॑नेजा॒नाद्दे॒वता᳚श्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒य-म्पञ्च॑कपालमुदवसा॒नीय॒-न्निर्व॑पेद॒ग्नि-स्सर्वा॑ दे॒वताः॒ [दे॒वताः᳚, पाङ्क्तो॑ य॒ज्ञो] 14
पाङ्क्तो॑ य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञञ्चाव॑ रुन्धेगाय॒त्रो वा अ॒ग्निर्गा॑य॒त्र छ॑न्दा॒स्त-ञ्छन्द॑सा॒ व्य॑र्धयति॒ य-त्पञ्च॑कपाल-ङ्क॒रोत्य॒ष्टाक॑पालः का॒र्यो᳚-ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚-ऽग्नि-र्गा॑य॒त्र छ॑न्दा॒-स्स्वेनै॒वैन॒-ञ्छन्द॑सा॒ सम॑र्धयति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑ ॥ 15 ॥
(स॒वि॒त॒-र्दे॒वा य॑ज्ञ॒मुषः॒ – सर्वा॑ दे॒वता॒ – स्त्रिच॑त्वारिग्ंशच्च) (अ. 4)
सूर्यो॑ मा दे॒वो दे॒वेभ्यः॑ पातु वा॒युर॒न्तरि॑क्षा॒-द्यज॑मानो॒-ऽग्निर्मा॑ पातु॒ चक्षु॑षः । सक्ष॒ शूष॒ सवि॑त॒र्विश्व॑चर्षण ए॒तेभिः॑ सोम॒ नाम॑भिर्विधेम ते॒ तेभिः॑ सोम॒ नाम॑भिर्विधेम ते ॥ अ॒ह-म्प॒रस्ता॑द॒-हम॒वस्ता॑द॒ह-ञ्ज्योति॑षा॒ वि तमो॑ ववार । यद॒न्तरि॑क्ष॒-न्तदु॑ मे पि॒ता-ऽभू॑द॒हग्ं सूर्य॑मुभ॒यतो॑ ददर्शा॒ह-म्भू॑या समुत्त॒म-स्स॑मा॒नाना॒- [समुत्त॒म-स्स॑मा॒नाना᳚म्, आ स॑मु॒द्रा-] 16
-मा स॑मु॒द्रा-दा-ऽन्तरि॑क्षात्-प्र॒जाप॑तिरुद॒धि-ञ्च्या॑वया॒तीन्द्रः॒ प्रस्नौ॑तु म॒रुतो॑ वर्षय॒न्तून्न॑म्भय पृथि॒वी-म्भि॒न्धीद-न्दि॒व्य-न्नभः॑ । उ॒द्रो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ विसृ॑जा॒ दृति᳚म् ॥ प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धीः॒ प्रास्या॒ग्नावा॑दि॒त्य-ञ्जु॑होति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒शू- [प॒शून्, प्रति॑ष्ठापयति] 17
-न्प्रति॑ष्ठापयति क॒विर्य॒ज्ञस्य॒ वित॑नोति॒ पन्था॒-न्नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । येन॑ ह॒व्यं-वँह॑सि॒ यासि॑ दू॒त इ॒तः प्रचे॑ता अ॒मुत॒-स्सनी॑यान् ॥ यास्ते॒ विश्वा᳚-स्स॒मिध॒-स्सन्त्य॑ग्ने॒याः पृ॑थि॒व्या-म्ब॒र्॒हिषि॒ सूर्ये॒ याः । तास्ते॑ गच्छ॒न्त्वाहु॑ति-ङ्घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑ ॥ आ॒शासा॑न-स्सु॒वीर्यग्ं॑ रा॒यस्पोष॒ग्ग्॒ स्वश्वि॑यम् । बृह॒स्पति॑ना रा॒या स्व॒गाकृ॑तो॒ मह्यं॒-यँज॑मानाय तिष्ठ ॥ 18 ॥
(स॒मा॒नाना॒-मोष॑धीष्वे॒व प॒शून् – मह्यं॒-यँज॑माना॒ – यैक॑ञ्च) (अ. 5)
स-न्त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ स-न्त्वा॑ नह्याम्य॒प ओष॑धीभिः । स-न्त्वा॑ नह्यामि प्र॒जया॒-ऽहम॒द्य सा दी᳚क्षि॒ता स॑नवो॒ वाज॑म॒स्मे ॥ प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिं॒-वँर्णे॑न सीदतु । अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह ॥ सु॒प्र॒जस॑स्त्वा व॒यग्ं सु॒पत्नी॒रुप॑ सेदिम । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा᳚भ्यम् ॥ इ॒मं-विँष्या॑मि॒ वरु॑णस्य॒ पाशं॒- [पाश᳚म्, यमब॑द्ध्नीत] 19
-यँमब॑द्ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒न-म्मे॑ स॒ह पत्या॑ करोमि ॥ प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्ते-ऽग्र॑-न्नय॒त्वदि॑ति॒र्मद्ध्य॑-न्ददताग्ं रु॒द्राव॑सृष्टा-ऽसि यु॒वा नाम॒ मा मा॑ हिग्ंसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे᳚भ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर्गृह्णामि य॒ज्ञाय॑ वः प॒न्नेज॑नी-स्सादयामि॒ विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावत॒- [वृष्णि॑यावतः, तवा᳚ग्ने वा॒मीरनु॑] 20
-स्तवा᳚ग्ने वा॒मीरनु॑ स॒दृंशि॒ विश्वा॒ रेताग्ं॑सि धिषी॒या-ऽग॑-न्दे॒वान्. य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्-थ्सु॑न्व॒ति यज॑मान आ॒शिष॒-स्स्वाहा॑कृता-स्समुद्रे॒ष्ठा ग॑न्ध॒र्वमाति॑ष्ठ॒तानु॑ । वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ॥ 21 ॥
(पाशं॒ – वृँष्णि॑यावत – स्त्रि॒ग्ं॒शच्च॑) (अ. 6)
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚-ऽछिन॒-त्तस्यै॒ रसः॒ परा॑-ऽपत॒-थ्स पृ॑थि॒वी-म्प्रावि॑श॒थ्स ख॑दि॒रो॑-ऽभव॒द्यस्य॑ खादि॒र-स्स्रु॒वो भव॑ति॒ छन्द॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्या-ऽऽहु॑तयो भवन्ति तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒-त्त-ङ्गाय॒त्र्या-ऽ ह॑र॒-त्तस्य॑ प॒र्णम॑च्छिद्यत॒ त-त्प॒र्णो॑-ऽभव॒-त्त-त्प॒र्णस्य॑ पर्ण॒त्वं-यँस्य॑ पर्ण॒मयी॑ जु॒हू- [जु॒हूः, भव॑ति सौ॒म्या] 22
-र्भव॑ति सौ॒म्या अ॒स्या-ऽऽहु॑तयो भवन्ति जु॒षन्ते᳚-ऽस्य दे॒वा आहु॑तीर्दे॒वा वै ब्रह्म॑न्नवदन्त॒ त-त्प॒र्ण उपा॑-ऽशृणो-थ्सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒पग्ग् श्लोकग्ं॑ शृणोति॒ ब्रह्म॒ वै प॒र्णो विण्म॒रुतो-ऽन्नं॒-विँण्मा॑रु॒तो᳚-ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॒त्या-श्व॑त्-थ्युप॒भृद्- ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्धे-ऽथो॒ ब्रह्मै॒- [रु॒न्धे-ऽथो॒ ब्रह्म॑, ए॒व वि॒श्यद्ध्यू॑हति] 23
-व वि॒श्यद्ध्यू॑हति रा॒ष्ट्रं-वैँ प॒र्णो विड॑श्व॒त्थो य-त्प॑र्ण॒मयी॑ जु॒हूर्भव॒त्या-श्व॑त्थ्युप॒भृ-द्रा॒ष्ट्रमे॒व वि॒श्यद्ध्यू॑हति प्र॒जाप॑ति॒र्वा अ॑जुहो॒-थ्सा यत्रा-ऽऽहु॑तिः प्र॒त्यति॑ष्ठ॒-त्ततो॒ विक॑ङ्कत॒ उद॑तिष्ठ॒-त्ततः॑ प्र॒जा अ॑सृजत॒ यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒ प्रत्य॒वास्या ऽऽहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यत ए॒तद्वै स्रु॒चाग्ं रू॒पं-यँस्यै॒वग्ं रू॑पा॒-स्स्रुचो॒ भव॑न्ति॒ सर्वा᳚ण्ये॒वैनग्ं॑ रू॒पाणि॑ पशू॒नामुप॑तिष्ठन्ते॒ नास्याप॑-रूपमा॒त्मञ्जा॑यते ॥ 24 ॥
(जु॒हू – रथो॒ ब्रह्म॑ – स्रु॒चाग्ं – स॒प्तद॑श च) (अ. 7)
उ॒प॒या॒मगृ॑हीतो-ऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्त-ङ्गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑ रा॒त-न्दे॒वेभ्यो᳚-ऽग्नि जि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्या᳚त्मभ्यो दि॒वे त्वा॒-ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा-ऽपे᳚न्द्र द्विष॒तो मनो-ऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑-ऽराती॒यति॒ त-ञ्ज॑हि प्रा॒णाय॑ त्वा-ऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वा-ऽस॑ते त्वा॒-ऽद्भ्यस्त्वौष॑धीभ्यो॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ यतः॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दावंने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्त-ञ्जुहोमि ॥ 25 ॥
(ओष॑धीभ्य॒ – श्चतु॑र्दश च) (अ. 8)
यां-वाँ अ॑द्ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते प्राजाप॒त्य-न्द॑धिग्र॒ह-ङ्गृ॑ह्णीया-त्प्र॒जाप॑ति॒-स्सर्वा॑ दे॒वता॑ दे॒वता᳚भ्य ए॒व निह्नु॑वाते ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णां॒-यँस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति॒ सर्वा॑सां॒-वाँ ए॒तद्दे॒वता॑नाग्ं रू॒पं-यँदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वा᳚ण्ये॒वैनग्ं॑ रू॒पाणि॑ पशू॒नामुप॑तिष्ठन्त उपया॒मगृ॑हीतो- [उपया॒मगृ॑हीतः, अ॒सि॒ प्र॒जाप॑तये] 26
-ऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्त-ङ्गृह्णा॒मीत्या॑ह॒ ज्योति॑रे॒वैनग्ं॑ समा॒नाना᳚-ङ्करोत्यग्नि-जि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑है॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ग्ं॒ सर्वा᳚भ्यो गृह्णा॒त्यपे᳚न्द्र द्विष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वा-ऽपा॒नाय॒ त्वेत्या॑ह प्रा॒णाने॒व यज॑माने दधाति॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दावंने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्त-ञ्जुहो॒मी- [ज्योति॑ष्मन्त-ञ्जुहो॒मि, इत्या॑ह प्र॒जाप॑ति-] 27
-त्या॑ह प्र॒जाप॑ति॒-स्सर्वा॑ दे॒वता॒-स्सर्वा᳚भ्य ए॒वैन॑-न्दे॒वता᳚भ्यो जुहोत्याज्यग्र॒ह-ङ्गृ॑ह्णीया॒-त्तेज॑स्कामस्य॒ तेजो॒ वा आज्य॑-न्तेज॒स्व्ये॑व भ॑वति सोमग्र॒ह-ङ्गृ॑ह्णीया-द्ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सं-वैँ सोमो᳚ ब्रह्मवर्च॒स्ये॑व भ॑वति दधिग्र॒ह-ङ्गृ॑ह्णीया-त्प॒शुका॑म॒स्योर्ग्वै दद्ध्यूर्-क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑-म्प॒शूनव॑ रुन्धे ॥ 28 ॥
(उ॒प॒या॒मगृ॑हीतो – जुहोमि॒ – त्रिच॑त्वारिग्ंशच्च) (अ. 9)
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रि-र्भव॒न्त्यूमाः᳚ । स्वा॒दो-स्स्वादी॑य-स्स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒-ऽभि यो॑धि । उ॒प॒या॒मगृ॑हीतो-ऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑-ङ्गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ॥ प्रा॒ण॒ग्र॒हा-न्गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहा॒-स्स्तोमा॒श्छन्दाग्ं॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ त- [याव॑दे॒वास्ति॒ तत्, अव॑ रुन्धे] 29
-दव॑ रुन्धे ज्ये॒ष्ठा वा ए॒ता-न्ब्रा᳚ह्म॒णाः पु॒रा विदाम॑क्र॒-न्तस्मा॒-त्तेषा॒ग्ं॒ सर्वा॒ दिशो॒-ऽभिजि॑ता अभूव॒न्॒. यस्यै॒ ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छत्य॒भि दिशो॑ जयति॒ पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिश॒-स्सर्वा᳚स्वे॒व दि॒क्ष्-वृ॑द्ध्नुवन्ति॒ नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः [प्रा॒णा वै प्रा॑णग्र॒हाः, प्रा॒णैरे॒व] 30
प्रा॒णैरे॒व प्र॒यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मे-ऽह॑-न्गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒त-त्प्र॒जा य॑न्ति॒ यद्वा॑मदे॒व्यं-योँने॒श्च्यव॑ते दश॒मे-ऽह॑न्. वामदे॒व्यं-योँने᳚श्च्यवते॒ य-द्द॑श॒मे-ऽह॑-न्गृ॒ह्यन्ते᳚ प्रा॒णेभ्य॑ ए॒व त-त्प्र॒जा नय॑न्ति । 31
(तत् – प्रा॑णग्र॒हाः – स॒प्तविग्ं॑शच्च) (अ. 10)
प्र दे॒वन्दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वक्षदानु॒षक् ॥ अ॒यमु॒ ष्य प्रदे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वान् चेतति॒ त्मना᳚ ॥ अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒-थ्सही॑या-न्दे॒वो जी॒वात॑वे कृ॒तः ॥ इडा॑यास्त्वा प॒दे व॒य-न्नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे । 32
अग्ने॒ विश्वे॑भि-स्स्वनीक दे॒वैरूर्णा॑वन्त-म्प्रथ॒म-स्सी॑द॒ योनि᳚म् । कु॒ला॒यिन॑-ङ्घृ॒तव॑न्तग्ं सवि॒त्रे य॒ज्ञ-न्न॑य॒ यज॑मानाय सा॒धु ॥ सीद॑ होत॒-स्स्व उ॑ लो॒के चि॑कि॒त्वान्थ्सा॒दया॑ य॒ज्ञग्ं सु॑कृ॒तस्य॒ योनौ᳚ । दे॒वा॒वीर्दे॒वान्. ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒ह-द्यज॑माने॒ वयो॑ धाः ॥ नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाग्ं अ॑सद-थ्सु॒दक्षः॑ । अद॑ब्धव्रत-प्रमति॒र्वसि॑ष्ठ-स्सहस्र-म्भ॒र-श्शुचि॑जिह्वो अ॒ग्निः ॥ त्व-न्दू॒तस्त्व- [त्व-न्दू॒तस्त्वम्, उ॒ नः॒ प॒र॒स्पास्त्वं-वँस्य॒ आ] 33
-मु॑ नः पर॒स्पास्त्वं-वँस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒-न्दीद्य॑द्बोधि गो॒पाः ॥ अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒-वाँर्या॑णाम् । सदा॑-ऽव-न्भा॒गमी॑महे ॥ म॒ही द्यौः पृ॑थि॒वी च॑न इ॒मं-यँ॒ज्ञ-म्मि॑मिक्षताम् । पि॒पृ॒ता-न्नो॒ भरी॑मभिः ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दद्ध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥ तमु॑- [तमु॑, त्वा॒ द॒द्ध्यङ्ङृषिः॑] 34
-त्वा द॒द्ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हण॑-म्पुरन्द॒रम् ॥ तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒न॒-ञ्ज॒यग्ं रणे॑रणे ॥ उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हा-ऽज॑नि । ध॒न॒-ञ्ज॒यो रणे॑रणे ॥ आ यग्ं हस्ते॒ न खा॒दिन॒ग्ं॒ शिशु॑-ञ्जा॒त-न्न बिभ्र॑ति । वि॒शाम॒ग्निग्ग् स्व॑द्ध्व॒रम् ॥ प्रदे॒व-न्दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आस्वे योनौ॒ नि षी॑दतु ॥ आ [ ] 35
जा॒त-ञ्जा॒तवे॑दसि प्रि॒यग्ं शि॑शी॒ता-ऽति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् ॥ अ॒ग्निना॒-ऽग्नि-स्समि॑द्ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚ । ह॒व्य॒वा-ड्जु॒ह्वा᳚स्यः ॥ त्वग्ग् ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒ सख्या॑ समि॒द्ध्यसे᳚ ॥ त-म्म॑र्जयन्त सु॒क्रतु॑-म्पुरो॒यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिन᳚म् ॥ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाक॑-म्महि॒मानः॑ सचन्ते॒ यत्र॒ पूर्वे॑ सा॒द्ध्या-स्सन्ति॑ दे॒वाः ॥ 36 ॥
(वोढ॑वे- दू॒तस्त्वं – तमु॑ – सीद॒त्वा – यत्र॑ – च॒त्वारि॑ च) (अ. 11)
(पू॒र्ण – र्ष॑यो॒ – ऽग्निना॒ – ये दे॒वाः – सूर्यो॑ मा॒ – सन्त्वा॑ नह्यामि – वषट्का॒र-स्स ख॑दि॒र – उ॑पया॒मगृ॑हीतो-ऽसि॒ – यां-वैँ – त्वे क्रतुं॒ – प्रदे॒व – मेका॑दश )
(पू॒र्णा – स॑ह॒जान् – तवा᳚-ऽग्ने – प्रा॒णैरे॒व – षट्त्रिग्ं॑शत्)
(पू॒र्णा, सन्ति॑ दे॒वाः)
॥ हरिः॑ ओम् ॥
(प्र॒जाप॑ति॒ – यो॑ वा – अग्ने॒ – वि वै – पू॒र्णा – पञ्च॑) (5)
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्तृतीयकाण्डे पञ्चमः प्रश्न-स्समाप्तः ॥