कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्पञ्चमकाण्डे चतुर्थः प्रश्नः – इष्टकात्रयाभिधानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आस॒-न्ते न व्य॑जयन्त॒ स ए॒ता इन्द्र॑स्त॒नूर॑पश्य॒-त्ता उपा॑धत्त॒ ताभि॒र्वै स त॒नुव॑मिन्द्रि॒यं-वीँ॒र्य॑मा॒त्मन्न॑धत्त॒ ततो॑ दे॒वा अभ॑व॒-न्परा-ऽसु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिन्द्रि॒यं-वीँ॒र्यं॑-यँज॑मान आ॒त्म-न्ध॒त्ते-ऽथो॒ सेन्द्र॑मे॒वाग्निग्ं सत॑नु-ञ्चिनुते॒ भव॑त्या॒त्मना॒ परा᳚-ऽस्य॒ भ्रातृ॑व्यो [भ्रातृ॑व्यः, भ॒व॒ति॒ य॒ज्ञो] 1

भवति य॒ज्ञो दे॒वेभ्यो-ऽपा᳚क्राम॒-त्तम॑व॒रुध॒-न्नाश॑क्नुव॒न्त ए॒ता य॑ज्ञत॒नूर॑पश्य॒-न्ता उपा॑दधत॒ ताभि॒र्वै ते य॒ज्ञमवा॑रुन्धत॒ य-द्य॑ज्ञत॒नूरु॑प॒दधा॑ति य॒ज्ञमे॒व ताभि॒र्यज॑मा॒नो-ऽव॑ रुन्धे॒ त्रय॑स्त्रिग्ं शत॒मुप॑ दधाति॒ त्रय॑स्त्रिग्ंश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रु॒न्धे ऽथो॒ सात्मा॑नमे॒वाग्निग्ं सत॑नु-ञ्चिनुते॒ सात्मा॒-ऽमुष्मि॑-​ल्लोँ॒के [-ऽमुष्मि॑-​ल्लोँ॒के, भ॒व॒ति॒ य] 2

भ॑वति॒ य ए॒वं-वेँद॒ ज्योति॑ष्मती॒रुप॑ दधाति॒ ज्योति॑रे॒वास्मि॑-न्दधात्ये॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति॒ ताभि॑रे॒वैन॒ग्ं॒ समि॑न्ध उ॒भयो॑रस्मै लो॒कयो॒र्ज्योति॑र्भवति नक्षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒ वै दि॒वो ज्योतीग्ं॑षि॒ तान्ये॒वाव॑ रुन्धे सु॒कृतां॒-वाँ ए॒तानि॒ ज्योतीग्ं॑षि॒ यन्नक्ष॑त्राणि॒ तान्ये॒वा-ऽऽप्नो॒त्यथो॑ अनूका॒श-मे॒वैतानि॒ [-मे॒वैतानि॑, ज्योतीग्ं॑षि कुरुते] 3

ज्योतीग्ं॑षि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ य-थ्सग्ग्​स्पृ॑ष्टा उपद॒द्ध्या-द्वृष्ट्यै॑ लो॒कमपि॑ दद्ध्या॒दव॑र्​षुकः प॒र्जन्यः॑ स्या॒दसग्ग्॑स्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒क-ङ्क॑रोति॒ वर्​षु॑कः प॒र्जन्यो॑ भवति पु॒रस्ता॑द॒न्याः प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याः प्राची॒स्तस्मा᳚-त्प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नक्ष॑त्रा॒ण्या व॑र्तन्ते ॥ 4 ॥
(भ्रातृ॑व्यो – लो॒क – ए॒वैतान्ये – क॑चत्वारिग्ंशच्च) (अ. 1)

ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒ना-ङ्कॢप्त्यै᳚ द्व॒द्वम्मुप॑ दधाति॒ तस्मा᳚-द्द्व॒न्द्वमृ॒तवो ऽधृ॑तेव॒ वा ए॒षा यन्म॑द्ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षा द्व॒द्वम्म॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मद्ध्ये॒ धृत्या॑ अन्त॒श्श्लेष॑णं॒-वाँ ए॒ताश्चिती॑नां॒-यँदृ॑त॒व्या॑ यदृ॑त॒व्या॑ उप॒दधा॑ति॒ चिती॑नां॒-विँधृ॑त्या॒ अव॑का॒मनूप॑ दधात्ये॒षा वा अ॒ग्नेर्योनि॒-स्सयो॑नि- [अ॒ग्नेर्योनि॒-स्सयो॑निम्, ए॒वाग्नि-] 5

-मे॒वाग्नि-ञ्चि॑नुत उ॒वाच॑ ह वि॒श्वामि॒त्रो ऽद॒दि-थ्स ब्रह्म॒णा-ऽन्नं॒-यँस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं-वेँद॒दिति॑ सं​वँथ्स॒रो वा ए॒त-म्प्र॑ति॒ष्ठायै॑ नुदते॒ यो᳚-ऽग्नि-ञ्चि॒त्वा न प्र॑ति॒तिष्ठ॑ति॒ पञ्च॒ पूर्वा॒श्चित॑यो भव॒न्त्यथ॑ ष॒ष्ठी-ञ्चिति॑-ञ्चिनुते॒ षड्वा ऋ॒तवः॑ सं​वँथ्स॒र ऋ॒तुष्वे॒व सं॑​वँथ्स॒रे प्रति॑तिष्ठत्ये॒ ता वा [प्रति॑तिष्ठत्ये॒ ता वा, अधि॑पत्नी॒र्नामेष्ट॑का॒] 6

अधि॑पत्नी॒र्नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्ते-ऽधि॑पतिरे॒व स॑मा॒नाना᳚-म्भवति॒ य-न्द्वि॒ष्या-त्तमु॑प॒दध॑-द्ध्यायेदे॒ताभ्य॑ ए॒वैन॑-न्दे॒वता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्यङ्गि॑रस-स्सुव॒र्गं-लोँ॒कं-यँन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒-त्तामृषि॑भ्यः॒ प्रत्यौ॑ह॒-न्तद्धिर॑ण्यमभव॒द्य-द्धि॑रण्यश॒ल्कैः प्रो॒क्षति॑ य॒ज्ञस्य॒ निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वा-ऽस्मै॑ करो॒- [-ऽस्मै॑ करोति, अथो॑ रू॒पेणै॒वैन॒ग्ं॒] 7

-त्यथो॑ रू॒पेणै॒वैन॒ग्ं॒ सम॑र्धय॒त्यथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गं-लोँ॒कमे॑ति साह॒स्रव॑ता॒ प्रोक्ष॑ति साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वित्या॑ह धे॒नूरे॒वैनाः᳚ कुरुते॒ ता ए॑न-ङ्काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑-​ल्लोँ॒क उप॑ तिष्ठन्ते ॥ 8 ॥
(सयो॑नि – मे॒ता वै – क॑रो॒त्ये – का॒न्नच॑त्वारि॒ग्ं॒शच्च॑) (अ. 2)

रु॒द्रो वा ए॒ष यद॒ग्नि-स्स ए॒तर्​हि॑ जा॒तो यर्​हि॒ सर्व॑श्चि॒त-स्स यथा॑ व॒थ्सो जा॒त-स्स्तन॑-म्प्रे॒फ्सत्ये॒वं-वाँ ए॒ष ए॒तर्​हि॑ भाग॒धेय॒-म्प्रेफ्स॑ति॒ तस्मै॒ यदाहु॑ति॒-न्न जु॑हु॒याद॑द्ध्व॒र्यु-ञ्च॒ यज॑मान-ञ्च ध्यायेच्छतरु॒द्रीय॑-ञ्जुहोति भाग॒धेये॑नै॒वैनग्ं॑ शमयति॒ ना-ऽऽर्ति॒मार्च्छ॑त्यद्ध्व॒र्युर्न यज॑मानो॒ य-द्ग्रा॒म्याणा᳚-म्पशू॒ना- [य-द्ग्रा॒म्याणा᳚-म्पशू॒नाम्, पय॑सा जुहु॒या-] 9

-म्पय॑सा जुहु॒या-द्ग्रा॒म्या-न्प॒शूञ्छु॒चा ऽर्पये॒-द्यदा॑र॒ण्याना॑-मार॒ण्यान् ज॑र्तिलयवा॒ग्वा॑ वा जुहु॒या-द्ग॑वीधुकयवा॒ग्वा॑ वा॒ न ग्रा॒म्या-न्प॒शून्. हि॒नस्ति॒ ना-ऽऽर॒ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र्वै ज॒र्तिला᳚श्च ग॒वीधु॑का॒श्चेत्य॑ जक्षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा यद॒जा-ऽऽहु॑त्यै॒व जु॑होति॒ न ग्रा॒म्या-न्प॒शून्. हि॒नस्ति॒ ना-ऽऽर॒ण्यानङ्गि॑रस-स्सुव॒र्गं-लोँ॒कं-यँन्तो॒- [-​लोँ॒कं-यँन्तः॑, अ॒जाया᳚-ङ्घ॒र्म-] 10

-ऽजाया᳚-ङ्घ॒र्म-म्प्रासि॑ञ्च॒न्​थ्सा शोच॑न्ती प॒र्ण-म्परा॑-ऽजिहीत॒ सो᳚(1॒)-ऽर्को॑-ऽभव॒-त्तद॒र्कस्या᳚-र्क॒त्वम॑र्कप॒र्णेन॑ जुहोति सयोनि॒त्वायोद॒-न्तिष्ठ॑न् जुहोत्ये॒षा वै रु॒द्रस्य॒ दि-ख्स्वाया॑मे॒व दि॒शि रु॒द्र-न्नि॒रव॑दयते चर॒माया॒मिष्ट॑काया-ञ्जुहोत्यन्त॒त ए॒व रु॒द्र-न्नि॒रव॑दयते त्रेधाविभ॒क्त-ञ्जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्-थ्स॒माव॑द्वीर्यान् करो॒तीय॒त्यग्रे॑ जुहो॒- [जुहोति, अथेय॒त्यथेय॑ति॒] 11

-त्यथेय॒त्यथेय॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑-लोँ॒केभ्यः॑ शमयति ति॒स्र उत्त॑रा॒ आहु॑तीर्जुहोति॒ ष-ट्थ्स-म्प॑द्यन्ते॒ ष-ड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनग्ं॑ शमयति॒ यद॑नुपरि॒क्राम॑-ञ्जुहु॒याद॑न्तरवचा॒रिणग्ं॑ रु॒द्र-ङ्कु॑र्या॒दथो॒ खल्वा॑हुः॒ कस्यां॒-वाँ-ऽह॑ दि॒शि रु॒द्रः कस्यां॒-वेँत्य॑नुपरि॒क्राम॑मे॒व हो॑त॒व्य॑-मप॑रिवर्गमे॒वैनग्ं॑ शमय- [शमयति, ए॒तावै] 12

-त्ये॒तावै दे॒वता᳚-स्सुव॒र्ग्या॑या उ॑त्त॒मास्ता यज॑मानं-वाँचयति॒ ताभि॑रे॒वैनग्ं॑ सुव॒र्गं-लोँ॒क-ङ्ग॑मयति॒ य-न्द्वि॒ष्या-त्तस्य॑ सञ्च॒रे प॑शू॒ना-न्न्य॑स्ये॒-द्यः प्र॑थ॒मः प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति ॥ 13 ॥
(प॒शू॒नां – ​यँन्तो – ऽग्ने॑ जुहो॒त्य – प॑रिवर्गमे॒वैनग्ं॑ शमयति – त्रि॒ग्ं॒शच्च॑) (अ. 3)

अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति मा॒र्जय॑त्ये॒वैन॒मथो॑ त॒र्पय॑त्ये॒व स ए॑न-न्तृ॒प्तो ऽक्षु॑द्ध्य॒-न्नशो॑च-न्न॒मुष्मि॑-​ल्लोँ॒क उप॑ तिष्ठते॒ तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्य ए॒वं-वेँद॒ ता-न्न॒ इष॒मूर्ज॑-न्धत्त मरुत-स्सग्ंररा॒णा इत्या॒हान्नं॒-वाँ ऊर्गन्न॑-म्म॒रुतो-ऽन्न॑मे॒वाव॑ रु॒न्धे ऽश्मग्ग्॑स्ते॒ क्षुद॒मु-न्ते॒ शु- [क्षुद॒मु-न्ते॒ शुक्, ऋ॒च्छ॒तु॒ य-न्द्वि॒ष्म] 14

-गृ॑च्छतु॒ य-न्द्वि॒ष्म इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य क्षु॒धा च॑ शु॒चा चा᳚र्पयति॒ त्रिः प॑रिषि॒ञ्च-न्पर्ये॑ति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वा-ग्निस्तस्य॒ शुचग्ं॑ शमयति॒ त्रिः पुनः॒ पर्ये॑ति॒ ष-ट्थ्स-म्प॑द्यन्ते॒ ष-ड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वास्य॒ शुचग्ं॑ शमयत्य॒पां-वाँ ए॒त-त्पुष्पं॒-यँद्वे॑त॒सो॑-ऽपाग्ं – [यद्वे॑त॒सो॑-ऽपाम्, शरो-ऽव॑का] 15

शरो-ऽव॑का वेतसशा॒खया॒ चाव॑काभिश्च॒ वि क॑र्​ष॒त्यापो॒ वै शा॒न्ता-श्शा॒न्ताभि॑रे॒वास्य॒ शुचग्ं॑ शमयति॒ यो वा अ॒ग्नि-ञ्चि॒त-म्प्र॑थ॒मः प॒शुर॑धि॒क्राम॑तीश्व॒रो वै तग्ं शु॒चा प्र॒दहो॑ म॒ण्डूके॑न॒ विक॑र्​षत्ये॒ष वै प॑शू॒ना-म॑नुपजीवनी॒यो न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो ना-ऽऽर॒ण्येषु॒ तमे॒व शु॒चा-ऽर्प॑यत्यष्टा॒भि-र्वि क॑र्​ष- [-र्वि क॑र्​षति, अ॒ष्टाक्ष॑रा] 16

-त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚-ऽग्निर्यावा॑-ने॒वा-ऽग्निस्तस्य॒ शुचग्ं॑ शमयति पाव॒कव॑तीभि॒रन्नं॒-वैँ पा॑व॒को-ऽन्ने॑नै॒वास्य॒ शुचग्ं॑ शमयति मृ॒त्युर्वा ए॒ष यद॒ग्निर्ब्रह्म॑ण ए॒तद्रू॒पं-यँ-त्कृ॑ष्णाजि॒न-ङ्कार्​ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ब्रह्म॑णै॒व मृ॒त्योर॒न्तर्ध॑त्ते॒ ऽन्तर्मृ॒त्योर्ध॑त्ते॒ ऽन्तर॒न्नाद्या॒-दित्या॑हुर॒न्या-मु॑पमु॒ञ्चते॒-ऽन्या-न्नान्त- [-ऽन्या-न्नान्तः, ए॒व मृ॒त्योर्ध॒त्ते] 17

-रे॒व मृ॒त्योर्ध॒त्ते ऽवा॒-ऽन्नाद्यग्ं॑ रुन्धे॒ नम॑स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह नम॒स्कृत्य॒ हि वसी॑याग्ं समुप॒चर॑न्त्य॒न्य-न्ते॑ अ॒स्म-त्त॑पन्तु हे॒तय॒ इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य शु॒चा-ऽर्प॑यति पाव॒को अ॒स्मभ्यग्ं॑ शि॒वो भ॒वेत्या॒हान्नं॒-वैँ पा॑व॒को-ऽन्न॑मे॒वाव॑ रुन्धे॒ द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्या॒ग्ं॒ शान्त्यै᳚ ॥ 18 ॥
(शु – ग्वे॑त॒सो॑-ऽपा – म॑ष्टा॒भिर्वि क॑र्​षति॒ – नान्त – रेका॒न्न प॑ञ्चा॒शच्च॑) (अ. 4)

नृ॒षदे॒ वडिति॒ व्याघा॑रयति प॒ङ्क्त्या-ऽऽहु॑त्या यज्ञमु॒खमा र॑भते ऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवो-ऽङ्गा॑नि॒ प्रह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यद्व॑षट्कु॒र्या-द्या॒तया॑मा-ऽस्य वषट्का॒र-स्स्या॒द्यन्न व॑षट्कु॒र्या-द्रक्षाग्ं॑सि य॒ज्ञग्ं ह॑न्यु॒र्वडित्या॑ह प॒रोक्ष॑मे॒व वष॑-ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञग्ं रक्षाग्ं॑सि घ्नन्ति हु॒तादो॒ वा अ॒न्ये दे॒वा [अ॒न्ये दे॒वाः, अ॒हु॒तादो॒-ऽन्ये] 19

अ॑हु॒तादो॒-ऽन्ये तान॑ग्नि॒चिदे॒वोभया᳚-न्प्रीणाति॒ ये दे॒वा दे॒वाना॒मिति॑ द॒द्ध्ना म॑धुमि॒श्रेणावो᳚क्षति हु॒ताद॑श्चै॒व दे॒वान॑हु॒ताद॑श्च॒ यज॑मानः प्रीणाति॒ ते यज॑मान-म्प्रीणन्ति द॒द्ध्नैव हु॒तादः॑ प्री॒णाति॒ मधु॑षा ऽहु॒तादो᳚ ग्रा॒म्यं-वाँ ए॒तदन्नं॒-यँद्दद्ध्या॑र॒ण्य-म्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॒-वोक्ष॑त्यु॒भय॒स्या-ऽव॑रुद्ध्यै ग्रुमु॒ष्टिना-ऽवो᳚क्षति प्राजाप॒त्यो [प्राजाप॒त्यः, वै ग्रु॑मु॒ष्टि-] 20

वै ग्रु॑मु॒ष्टि-स्स॑योनि॒त्वाय॒ द्वाभ्या॒-म्प्रति॑ष्ठित्या अनुपरि॒चार॒-मवो᳚क्ष॒त्य-प॑रिवर्गमे॒वैना᳚-न्प्रीणाति॒ वि वा ए॒ष प्रा॒णैः प्र॒जया॑ प॒शुभि॑र्-ऋद्ध्यते॒ यो᳚-ऽग्नि-ञ्चि॒न्वन्न॑धि॒क्राम॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह प्रा॒णाने॒वा-ऽऽत्म-न्ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा वै वर्चः॑ प॒शवो॒ वरि॑वः प्र॒जामे॒व प॒शूना॒त्म-न्ध॑त्त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तं-वृँ॒त्रो [वृ॒त्रम॑ह॒न्तं-वृँ॒त्रः, ह॒त-ष्षो॑ड॒शभि॑-] 21

ह॒त-ष्षो॑ड॒शभि॑-र्भो॒गैर॑सिना॒-थ्स ए॒ताम॒ग्नये-ऽनी॑कवत॒ आहु॑तिमपश्य॒-त्ताम॑जुहो॒-त्तस्या॒ग्निरनी॑ कवा॒न्​थ्स्वेन॑ भाग॒धेये॑न प्री॒त-ष्षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दह-द्वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर॑मुच्यत॒ यद॒ग्नये-ऽनी॑कवत॒ आहु॑ति-ञ्जु॒होत्य॒ग्निरे॒वा-ऽस्यानी॑कवा॒न्​थ्स्वेन॑ भाग॒धेये॑न प्री॒तः पा॒प्मान॒मपि॑ दहति वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर्मु॑च्यते॒ य-ङ्का॒मये॑त चि॒र-म्पा॒प्मनो॒ [चि॒र-म्पा॒प्मनः॑, निर्मु॑च्ये॒तेत्येकै॑क॒-] 22

निर्मु॑च्ये॒तेत्येकै॑क॒-न्तस्य॑ जुहुयाच्चि॒रमे॒व पा॒प्मनो॒ निर्मु॑च्यते॒ य-ङ्का॒मये॑त ता॒ज-क्पा॒प्मनो॒ निर्मु॑च्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुया-त्ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्य॒ते-ऽथो॒ खलु॒ नानै॒व सू॒क्ताभ्या᳚-ञ्जुहोति॒ नानै॒व सू॒क्तयो᳚र्वी॒र्य॑-न्दधा॒त्यथो॒ प्रति॑ष्ठित्यै ॥ 23 ॥
(दे॒वाः – प्रा॑जाप॒त्यो-वृ॒त्र – श्चि॒र-म्पा॒प्मन॑ – श्चत्वारि॒ग्ं॒शच्च॑) (अ. 5)

उदे॑नमुत्त॒रा-न्न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जनं॑-यँ॒ते॑-ऽव॒स-ङ्क॒रोति॑ ता॒दृगे॒व त-त्ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒-वाग्निस्तस्मै॑ भाग॒धेय॑-ङ्करो॒त्यौदु॑म्बरी-र्भव॒न्त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधा॒त्युदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः प्रा॒णै- [प्रा॒णैः, ए॒वैन॒-] 24

-रे॒वैन॒-मुद्य॑च्छ॒ते ऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैन॑-ञ्चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒ग्ं॒ सम॑र्धयति॒ पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञम॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षो-ऽनु॑ प्र॒च्यव॒ते ऽपाम॑ति-न्दुर्म॒ति-म्बाध॑माना॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै रा॒यस्पोषे॑ य॒ज्ञप॑ति-मा॒भज॑न्ती॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑ [रा॒यस्पोषः॑, प॒शूने॒वाव॑] 25

प॒शूने॒वाव॑ रुन्धे ष॒ड्भिर्​ह॑रति॒ ष-ड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनग्ं॑ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै॒ सूर्य॑रश्मि॒र्॒हरि॑केशः पु॒रस्ता॒दित्या॑ह॒ प्रसू᳚त्यै॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्नं॒-वैँ पा॑व॒को-ऽन्न॑मे॒वाव॑ रुन्धे देवासु॒रा-स्सं​यँ॑त्ता आस॒-न्ते दे॒वा ए॒त-दप्र॑तिरथ-मपश्य॒-न्तेन॒ वै ते᳚ प्र॒- [वै ते᳚ प्र॒ति, असु॑रानजय॒-न्त-] 26

-त्यसु॑रानजय॒-न्त-दप्र॑तिरथस्या-प्रतिरथ॒त्वं-यँदप्र॑तिरथ-न्द्वि॒तीयो॒ होता॒-ऽन्वाहा᳚प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्यान् जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति दश॒र्च-म्भ॑वति॒ दशा᳚क्षरा वि॒रा-ड्वि॒राजे॒मौ लो॒कौ विधृ॑ता व॒नयो᳚र्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वा ऽऽग्नी᳚द्ध्र॒-माग्नी॒द्ध्रे- [-माग्नी᳚द्ध्रे, अश्मा॑न॒-न्नि द॑धाति] 27

-ऽश्मा॑न॒-न्नि द॑धाति स॒त्त्वाय॒ द्वाभ्या॒-म्प्रति॑ष्ठित्यै वि॒मान॑ ए॒ष दि॒वो मद्ध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वैतया॑ मिमीते॒ मद्ध्ये॑ दि॒वो निहि॑तः॒ पृश्ञि॒रश्मेत्या॒हान्नं॒-वैँ पृश्ञ्यन्न॑मे॒वाव॑ रुन्धे चत॒सृभि॒रा पुच्छा॑देति च॒त्वारि॒ छन्दाग्ं॑सि॒ छन्दो॑भिरे॒वेन्द्रं॒-विँश्वा॑ अवीवृध॒न्नित्या॑ह॒ वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑ना॒ग्ं॒ सत्प॑ति॒-म्पति॒- [सत्प॑ति॒-म्पति᳚म्, इत्या॒हा-ऽन्नं॒-वैँ] 28

-मित्या॒हा-ऽन्नं॒-वैँ वाजो-ऽन्न॑मे॒वाव॑ रुन्धे सुम्न॒हूर्य॒ज्ञो दे॒वाग्ं आ च॑ वक्ष॒दित्या॑ह प्र॒जा वै प॒शवः॑ सु॒म्न-म्प्र॒जामे॒व प॒शूना॒त्म-न्ध॑त्ते॒ यक्ष॑द॒ग्निर्दे॒वो दे॒वाग्ं आ च॑ वक्ष॒दित्या॑ह स्व॒गाकृ॑त्यै॒ वाज॑स्य मा प्रस॒वेनो᳚-द्ग्रा॒भेणोद॑ग्रभी॒दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑-न्निग्रा॒भो ब्रह्म॑णै॒वा-ऽऽत्मान॑मु-द्गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्य॒-न्नि गृ॑ह्णाति ॥ 29 ॥
(प्रा॒णैः – पोषो᳚ – प्र॒त्या – ग्नी᳚द्धे॒ – पति॑ – मे॒ष – दश॑ च) (अ. 6)

प्राची॒मनु॑ प्र॒दिश॒-म्प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒क-मे॒वैतयो॒पाव॑र्तते॒ क्रम॑द्ध्वम॒ग्निना॒ नाक॒-मित्या॑हे॒माने॒वैतया॑ लो॒कान् क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मा ऽरु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्-थ्स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापे᳚क्षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑ [प्रेहि॑, प्र॒थ॒मो] 30

प्रथ॒मो दे॑वय॒ता-मित्या॑हो॒भये᳚ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र्दधाति प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तेन॑ स॒ह सु॑व॒र्गं-लोँ॒कमे॑ति॒ नक्तो॒षासेति॑ पुरो-ऽनुवा॒क्या॑मन्वा॑ह॒ प्रत्या॒ अग्ने॑ सहस्रा॒क्षेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्या॒हान्नं॒-वैँ वाजो-ऽन्न॑-मे॒वाव॑ [वाजो-ऽन्न॑-मे॒वाव॑, रु॒न्धे॒ द॒द्ध्नः] 31

रुन्धे द॒द्ध्नः पू॒र्णामौदु॑म्बरीग्​ स्वयमातृ॒ण्णाया᳚-ञ्जुहो॒त्यूर्ग्वै दद्ध्यूर्गु॑दु॒म्बरो॒-ऽसौ स्व॑यमातृ॒ण्णा ऽमुष्या॑मे॒वोर्ज॑-न्दधाति॒ तस्मा॑द॒मुतो॒-ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्ति॒सृभिः॑ सादयति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्त-म्प्र॑ति॒ष्ठा-ङ्ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्यौदु॑म्बरी॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ [ह स्म, वै] 32

वै दे॒वा असु॑राणाग्ं शतत॒र्॒हाग्​ स्तृग्ं॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं-यँज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्या॒ अछ॑म्बट्कारं-विँ॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्धे॒ ताग्ं स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामिति॑ शमी॒मयी॒ग्ं॒ शान्त्या॑ अ॒ग्निर्वा॑ ह॒ वा अ॑ग्नि॒चित॑-न्दु॒हे᳚-ऽग्नि॒चिद्वा॒-ऽग्नि-न्दु॑हे॒ ताग्ं [ताम्, स॒वि॒तु-] 33

स॑वि॒तु-र्वरे᳚ण्यस्य चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑-ऽवे॒-त्तेन॑ ह स्मैन॒ग्ं॒ स दु॑हे॒ यदे॒तया॑ स॒मिध॑-मा॒दधा᳚त्यग्नि॒चिदे॒व तद॒ग्नि-न्दु॑हे स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्तजि॒ह्वा इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒- [प्र॒जाप॑तेः, आप्त्यै॒] 34

-राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒ग्ं॒ सृष्ट्या॑ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स दिशो-ऽनु॒ प्रा-ऽवि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो᳚ द्ध्याये द्दि॒ग्भ्य ए॒वैन॒मव॑ रुन्धे द॒द्ध्ना पु॒रस्ता᳚ज्जुहो॒त्या-ज्ये॑नो॒परि॑ष्टा॒-त्तेज॑श्चै॒वास्मा॑ इन्द्रि॒य-ञ्च॑ स॒मीची॑ दधाति॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो᳚-ऽग्निर्वै᳚श्वान॒र-स्सा॒क्षा- [-ऽग्निर्वै᳚श्वान॒र-स्सा॒क्षात्, ए॒व वै᳚श्वान॒रमव॑] 35

-दे॒व वै᳚श्वान॒रमव॑ रुन्धे॒ य-त्प्र॑याजानूया॒जान् कु॒र्याद्विक॑स्ति॒-स्सा य॒ज्ञस्य॑ दर्विहो॒म-ङ्क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै रा॒ष्ट्रं-वैँ वै᳚श्वान॒रो विण्म॒रुतो॑ वैश्वान॒रग्ं हु॒त्वा मा॑रु॒तान् जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑ बद्ध्नात्यु॒च्चै-र्वै᳚श्वान॒रस्या-ऽऽ श्रा॑वयत्युपा॒ग्ं॒शु मा॑रु॒तान् जु॑होति॒ तस्मा᳚-द्रा॒ष्ट्रं-विँश॒मति॑ वदति मारु॒ता भ॑वन्ति म॒रुतो॒ वै दे॒वानां॒-विँशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒श -मव॑ रुन्धे स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ रुन्धे ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मान-ङ्करोति ॥ 36 ॥
(अग्ने॒ प्रेह्य – व॑ – स्म – दुहे॒ तां – प्र॒जाप॑तेः – सा॒क्षान् – म॑नुष्यवि॒श – मेक॑विग्ंशतिश्च) (अ. 7)

वसो॒र्धारा᳚-ञ्जुहोति॒ वसो᳚र्मे॒ धारा॑-ऽस॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒-ऽमुष्मि॑-​ल्लोँ॒के पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒ तेजो॒ वा आज्य॒-न्तेजो॒ वसो॒र्धारा॒ तेज॑सै॒वास्मै॒ तेजो-ऽव॑ रु॒न्धे-ऽथो॒ कामा॒ वै वसो॒र्धारा॒ कामा॑ने॒वाव॑ रुन्धे॒ य-ङ्का॒मये॑त प्रा॒णान॑स्या॒-ऽन्नाद्यं॒-विँ- [-ऽन्नाद्यं॒-विँ, छि॒न्द्या॒मिति॑] 37

-च्छि॑न्द्या॒मिति॑ वि॒ग्राह॒-न्तस्य॑ जुहुया-त्प्रा॒णाने॒वास्या॒न्नाद्यं॒-विँच्छि॑नत्ति॒ य-ङ्का॒मये॑त प्रा॒णान॑स्या॒न्नाद्य॒ग्ं॒ स-न्त॑नुया॒मिति॒ स-न्त॑ता॒-न्तस्य॑ जुहुया-त्प्रा॒णाने॒वास्या॒न्नाद्य॒ग्ं॒ स-न्त॑नोति॒ द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रेणै॒ वास्मा॒ अन्न॒मव॑ रु॒न्धे ऽन्न॑-ञ्च॒ मे-ऽक्षु॑च्च म॒ इत्या॑है॒ त-द्वा [इत्या॑है॒ त-द्वै, अन्न॑स्य रू॒पग्ं] 38

अन्न॑स्य रू॒पग्ं रू॒पेणै॒वान्न॒मव॑ रुन्धे॒ ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनि॒-स्सयो᳚न्ये॒वान्न॒मव॑ रुन्धे-ऽर्धे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाव॑ रुन्धे॒ य-थ्सर्वे॑षा-म॒र्धमिन्द्रः॒ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑ना-म्भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहे-न्द्रि॒यमे॒वास्मि॑-न्नु॒परि॑ष्टा-द्दधाति यज्ञायु॒धानि॑ जुहोति य॒ज्ञो [य॒ज्ञः, वै य॑ज्ञायु॒धानि॑] 39

वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒वाव॑ रु॒न्धे-ऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒पग्ं रू॒पेणै॒व य॒ज्ञमव॑ रुन्धे ऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒त-द्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पग्ं रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्ध॒ ऋक्च॑ मे॒ साम॑ च म॒ इत्या॑है॒- [म॒ इत्या॑ह, ए॒तद्वै छन्द॑साग्ं] 40

-तद्वै छन्द॑साग्ं रू॒पग्ं रू॒पेणै॒व छन्दा॒ग्॒स्यव॑ रुन्धे॒ गर्भा᳚श्च मे व॒थ्साश्च॑ म॒ इत्या॑है॒त-द्वै प॑शू॒नाग्ं रू॒पग्ं रू॒पेणै॒व प॒शूनव॑ रुन्धे॒ कल्पा᳚न् जुहो॒त्य कॢ॑प्तस्य॒ कॢप्त्यै॑ युग्मदयु॒जे जु॑होति मिथुन॒त्वायो᳚-त्त॒राव॑ती भवतो॒-ऽभिक्रा᳚न्त्या॒ एका॑ च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सं-वाँ एका॑ च ति॒स्रश्च॑ [ति॒स्रश्च॑, म॒नु॒ष्य॒छ॒न्द॒स-ञ्चत॑स्रश्चा॒-ऽष्टौ] 41

मनुष्यछन्द॒स-ञ्चत॑स्रश्चा॒-ऽष्टौ च॑ देवछन्द॒स-ञ्चै॒व म॑नुष्य छन्द॒सञ्चा-ऽव॑ रुन्ध॒ आ त्रय॑स्त्रिग्ं शतो जुहोति॒ त्रय॑स्त्रिग्ंश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुन्ध॒ आ-ऽष्टाच॑त्वारिग्ंशतो जुहोत्य॒ष्टाच॑त्वारिग्ं-शदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒श-ञ्जु॑होति॒ द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ए॒व प्रति॑ तिष्ठति ॥ 42 ॥
(वि – वै – य॒ज्ञः-साम॑ च म॒ इत्या॑ह – च ति॒स्र – श्चैका॒न्न प॑ञ्चा॒शच्च॑) (अ. 8)

अ॒ग्निर्दे॒वेभ्यो ऽपा᳚क्राम-द्भाग॒धेय॑मि॒च्छमा॑न॒स्त-न्दे॒वा अ॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्य-न्नो॑ व॒हेति॒ सो᳚-ऽब्रवी॒-द्वरं॑-वृँणै॒ मह्य॑मे॒व वा॑जप्रस॒वीय॑-ञ्जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीय॑-ञ्जुह्वति॒ य-द्वा॑जप्रस॒वीय॑-ञ्जु॒होत्य॒ग्निमे॒व त-द्भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒ स च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या ओष॑धय-स्स॒प्ता- [ओष॑धय-स्स॒प्त, अ॒र॒ण्या उ॒भयी॑षा॒-] 43

-ऽऽर॒ण्या उ॒भयी॑षा॒-मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्या-व॑रुद्ध्या॒ औदु॑म्बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्गन्न॑मू॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्धे॒ ऽग्निर्वै दे॒वाना॑-म॒भिषि॑क्तो-ऽग्नि॒चि-न्म॑नु॒ष्या॑णा॒-न्तस्मा॑दग्नि॒चि-द्वर्​ष॑ति॒ न धा॑वे॒दव॑रुद्ध॒ग्ग्॒ ह्य॑स्या-न्न॒मन्न॑मिव॒ खलु॒ वै व॒र्॒षं-यँद्धावे॑-द॒न्नाद्या᳚द्धावे-दु॒पाव॑र्तेता॒-ऽन्नाद्य॑-मे॒वा-ऽभ्यु॒- [-ऽन्नाद्य॑-मे॒वा-ऽभि, उ॒पाव॑र्तते॒] 44

-पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै॒ पय॑सा जुहो॒त्यह्नै॒वास्मै॒ रात्रि॒-म्प्रदा॑पयति॒ रात्रि॒या-ऽह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्य॑-न्दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुन्धे ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑तिष्ठति॒ भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चा-ऽऽहु॑तीर्जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशो॒- [वज्रे॑णै॒व दिशः॑, अ॒भि ज॑यत्यग्नि॒चितग्ं॑] 45

-ऽभि ज॑यत्यग्नि॒चितग्ं॑ ह॒ वा अ॒मुष्मि॑-​ल्लोँ॒के वातो॒-ऽभि प॑वते वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑-म॒मुष्मि॑-​ल्लोँ॒के वातः॑ पवते॒ त्रीणि॑ जुहोति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुन्धे समु॒द्रो॑-ऽसि॒ नभ॑स्वा॒नित्या॑है॒तद्वै वात॑स्य रू॒पग्ं रू॒पेणै॒व वात॒मव॑ रुन्धे ऽञ्ज॒लिना॑ जुहोति॒ न ह्ये॑तेषा॑म॒न्यथा ऽऽहु॑तिरव॒कल्प॑ते ॥ 46 ॥
(ओष॑धय-स्स॒प्ता – भि – दिशो॒ – ऽन्यथा॒ – द्वे च॑) (अ. 9)

सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निं-युँ॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह यु॒नक्त्ये॒वैन॒ग्ं॒ स ए॑नं-युँ॒क्त-स्सु॑व॒र्गं-लोँ॒कम॒भि व॑हति॒ य-थ्सर्वा॑भिः प॒ञ्चभि॑-र्यु॒ञ्ज्या-द्यु॒क्तो᳚-ऽस्या॒-ऽग्निः प्रच्यु॑त-स्स्या॒दप्र॑तिष्ठिता॒ आहु॑तय॒-स्स्युरप्र॑तिष्ठिता॒-स्स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिः॑ प्रातस्सव॒ने॑-ऽभि मृ॑शति त्रि॒वृ- [त्रि॒वृत्, वा अ॒ग्निर्यावा॑ने॒वा-] 47

-द्वा अ॒ग्निर्यावा॑ने॒वा-ग्निस्तं-युँ॑नक्ति॒ यथा-ऽन॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व त-त्प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमाः॒ प्रत्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒तावा॒न्॒ वै य॒ज्ञो यावा॑नग्निष्टो॒मो भू॒मा त्वा अ॒स्यात॑ ऊ॒र्ध्वः क्रि॑यते॒ यावा॑ने॒व य॒ज्ञस्तम॑न्त॒तो᳚ ऽन्वारो॑हति॒ द्वाभ्या॒-म्प्रति॑ष्ठित्या॒ एक॒या-ऽप्र॑स्तुत॒-म्भव॒त्यथा॒- [-ऽप्र॑स्तुत॒-म्भव॒त्यथ॑, अ॒भि मृ॑श॒त्युपै॑न॒-] 48

-ऽभि मृ॑श॒त्युपै॑न॒-मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ सन्त॑त्यै॒ प्र वा ए॒षो᳚-ऽस्माल्लो॒का-च्च्य॑वते॒ यो᳚-ऽग्नि-ञ्चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ यां-वाँ ए॒षो॑-ऽनिष्ट॒क आहु॑ति-ञ्जु॒होति॒ स्रव॑ति॒ वै सा ताग्​ स्रव॑न्तीं-यँ॒ज्ञो-ऽनु॒ परा॑ भवति य॒ज्ञं-यँज॑मानो॒ य-त्पु॑नश्चि॒ति-ञ्चि॑नु॒त आहु॑तीना॒-म्प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ [प्रत्याहु॑तय॒स्तिष्ठ॑न्ति, न य॒ज्ञः] 49

न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानो॒ ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रेणै॒वैन॒-ञ्छन्द॑सा चिनुते॒ यदेका॑दश॒ त्रैष्टु॑भेन॒ य-द्द्वाद॑श॒ जाग॑तेन॒ छन्दो॑भिरे॒वैन॑-ञ्चिनुते नपा॒त्को वैनामै॒षो᳚-ऽग्निर्य-त्पु॑नश्चि॒तिर्य ए॒वं-विँ॒द्वा-न्पु॑नश्चि॒ति-ञ्चि॑नु॒त आ तृ॒तीया॒-त्पुरु॑षा॒दन्न॑मत्ति॒ यथा॒ वै पु॑नरा॒धेय॑ ए॒व-म्पु॑नश्चि॒तिर्यो᳚-ऽ-ग्न्या॒धेये॑न॒ न- [-ग्न्या॒धेये॑न॒ न, ऋ॒ध्नोति॒ स] 50

-र्ध्नोति॒ स पु॑नरा॒धेय॒मा ध॑त्ते॒ यो᳚-ऽग्नि-ञ्चि॒त्वा नर्ध्नोति॒ स पु॑नश्चि॒ति-ञ्चि॑नुते॒ य-त्पु॑नश्चि॒ति-ञ्चि॑नु॒त ऋद्ध्या॒ अथो॒ खल्वा॑हु॒र्न चे॑त॒व्येति॑ रु॒द्रो वा ए॒ष यद॒ग्निर्यथा᳚ व्या॒घ्रग्ं सु॒प्त-म्बो॒धय॑ति ता॒दृगे॒व तदथो॒ खल्वा॑हुश्चेत॒व्येति॒ यथा॒ वसी॑याग्ंस-म्भाग॒धेये॑न बो॒धय॑ति ता॒दृगे॒व तन्मनु॑र॒ग्निम॑चिनुत॒ तेन॒ ना-ऽऽर्ध्नो॒थ्स ए॒ता-म्पु॑नश्चि॒तिम॑पश्य॒-त्ताम॑चिनुत॒ तया॒ वै स आ᳚र्ध्नो॒द्य-त्पु॑नश्चि॒ति-ञ्चि॑नु॒त ऋद्ध्यै᳚ ॥ 51 ॥
(त्रि॒वृ-दथ॒-तिष्ठ॑-न्त्यग्न्या॒धेये॑न॒ ना-चि॑नुत-स॒प्तद॑श- च) (अ. 10)

छ॒न्द॒श्चित॑-ञ्चिन्वीत प॒शुका॑मः प॒शवो॒ वै छन्दाग्ं॑सि पशु॒माने॒व भ॑वति श्येन॒चित॑-ञ्चिन्वीत सुव॒र्गका॑म-श्श्ये॒नो वै वय॑सा॒-म्पति॑ष्ठ-श्श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गं-लोँ॒क-म्प॑तति कङ्क॒चित॑-ञ्चिन्वीत॒ यः का॒मये॑त शीर्​ष॒ण्वान॒मुष्मि॑-​ल्लोँ॒के स्या॒मिति॑ शीर्​ष॒ण्वाने॒वा-ऽमुष्मि॑-​ल्लोँ॒के भ॑वत्यलज॒चित॑-ञ्चिन्वीत॒ चतु॑स्सीत-म्प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति प्रौग॒चित॑-ञ्चिन्वीत॒ भ्रातृ॑व्यवा॒-न्प्रै- [भ्रातृ॑व्यवा॒-न्प्र, ए॒व भ्रातृ॑व्या-न्नुदत] 52

-व भ्रातृ॑व्या-न्नुदत उभ॒यतः॑ प्रौग-ञ्चिन्वीत॒यः का॒मये॑त॒ प्रजा॒ता-न्भ्रातृ॑व्या-न्नु॒देय॒ प्रति॑ जनि॒ष्यमा॑णा॒निति॒ प्रैव जा॒ता-न्भ्रातृ॑व्या-न्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा-न्रथचक्र॒चित॑-ञ्चिन्वीत॒ भ्रातृ॑व्यवा॒न्॒ वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति द्रोण॒चित॑-ञ्चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्न॑-म्भ्रियते॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्धे समू॒ह्य॑-ञ्चिन्वीत प॒शुका॑मः पशु॒माने॒व भ॑वति [पशु॒माने॒व भ॑वति, प॒रि॒चा॒य्य॑-ञ्चिन्वीत॒] 53

परिचा॒य्य॑-ञ्चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति श्मशान॒चित॑-ञ्चिन्वीत॒ यः का॒मये॑त पितृलो॒क ऋ॑द्ध्नुया॒मिति॑ पितृलो॒क ए॒वर्ध्नो॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेना-ऽस्पर्धेता॒ग्ं॒ स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒-त्ता उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यं-वीँ॒र्य॑मवृङ्क्त॒ य-द्वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यं॑-यँज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र्धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नं-वैँ [ ] 54

होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यं-वीँ॒र्य॑मव॑ रुन्धे॒ द्वाद॒शोप॑ दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑ प॒शूने॒वाव॑ रुन्धे॒ षण्मा᳚र्जा॒लीये॒ ष-ड्वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वा-न्पि॒तॄ-न्प्री॑णाति ॥ 55 ॥
(प्र – भ॑वति – यजमानायत॒नं-वाँ – अ॒ष्टाच॑त्वारिग्ंशच्च) (अ. 11)

पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टु-क्प्र॑ति॒पद्भ॑वति ति॒र्​सो॑-ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियो॒ य-त्ति॒स्रो॑-ऽनु॒ष्टुभ॒-स्तस्मा॒-दश्व॑स्त्रि॒भिस्तिष्ठग्ग्॑ स्तिष्ठति॒ यच्चत॑स्रो गाय॒त्रिय॒स्तस्मा॒-थ्सर्वाग्॑ श्च॒तुरः॑ प॒दः प्र॑ति॒दध॒-त्पला॑यते पर॒मा वा ए॒षा छन्द॑सां॒-यँद॑नु॒ष्टु-क्प॑र॒मश्च॑तुष्टो॒म-स्स्तोमा॑ना-म्पर॒मस्त्रि॑रा॒त्रो य॒ज्ञाना᳚-म्पर॒मो-ऽश्वः॑ पशू॒ना-म्प॑र॒मेणै॒वैन॑-म्पर॒मता᳚-ङ्गमयत्येकवि॒ग्ं॒श-मह॑र्भवति॒ [-मह॑र्भवति, यस्मि॒न्नश्व॑] 56

यस्मि॒न्नश्व॑ आल॒भ्यते॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒ग्ं॒श ए॒ष प्र॒जाप॑तिः प्राजाप॒त्यो-ऽश्व॒स्तमे॒व सा॒क्षादृ॑द्ध्नोति॒ शक्व॑रयः पृ॒ष्ठ-म्भ॑वन्त्य॒न्-यद॑न्य॒-च्छन्दो॒-ऽन्ये᳚न्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑-ऽऽर॒ण्या यच्छक्व॑रयः पृ॒ष्ठ-म्भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ पार्थुर॒श्म-म्ब्र॑ह्मसा॒म-म्भ॑वति र॒श्मिना॒ वा अश्वो॑ [र॒श्मिना॒ वा अश्वः॑, य॒त ई᳚श्व॒रो] 57

य॒त ई᳚श्व॒रो वा अश्वो-ऽय॒तो-ऽप्र॑तिष्ठितः॒ परा᳚-म्परा॒वत॒-ङ्गन्तो॒र्य-त्पा᳚र्थुर॒श्म-म्ब्र॑ह्मसा॒म-म्भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै॒ सङ्कृ॑त्यच्छावाकसा॒म-म्भ॑वत्युथ्सन्नय॒ज्ञो वा ए॒ष यद॑श्वमे॒धः कस्तद्वे॒देत्या॑हु॒र्यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒ य-थ्सङ्कृ॑त्यच्छावाकसा॒म-म्भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्या᳚प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमो-ऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒ सर्व॒स्या-ऽऽप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना᳚-ऽऽप्नोति॒ सर्व॑-ञ्जयति ॥ 58 ॥
(अह॑र्भवति॒ – वा अश्वो – ऽह॑र्भवति॒ – दश॑ च) (अ. 12)

(दे॒वा॒सु॒रास्तेन – र्त॒व्या॑ – रु॒द्रो – ऽश्म॑ – न्नृ॒षदे॒ व – डुदे॑नं॒ – प्राची॒मिति॒ – वसो॒र्धारा॑ – म॒ग्निर्दे॒वेभ्यः॑ – सुव॒र्गाय॑ यत्राकू॒ताय॑ – छन्द॒श्चितं॒ – पव॑स्व॒ – द्वाद॑श )

(दे॒वा॒सु॒रा – अ॒जायां॒ – ​वैँ ग्रु॑मु॒ष्टिः – प्र॑थ॒मो दे॑वय॒तामे॒ – तद्वै छन्द॑सा – मृ॒ध्नो – त्य॒ष्टौ प॑ञ्चा॒शत्)

(दे॒वा॒सु॒रा, स्सर्व॑-ञ्जयति)

॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्पञ्चमकाण्डे चतुर्थः प्रश्न-स्समाप्तः ॥