कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे चतुर्थः प्रश्नः – सोममन्त्रब्राह्मणनिरूपणं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता उ॑प॒यड्भि॑-रे॒वासृ॑जत॒ यदु॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व त-द्यज॑मान-स्सृजते जघना॒र्धादव॑ द्यति जघना॒र्धाद्धि प्र॒जाः प्र॒जाय॑न्ते स्थविम॒तो-ऽव॑ द्यति स्थविम॒तो हि प्र॒जाः प्र॒जाय॒न्ते ऽस॑म्भिन्द॒न्नव॑ द्यति प्रा॒णाना॒-मस॑म्भेदाय॒ न प॒र्याव॑र्तयति॒ य-त्प॑र्याव॒र्तये॑दुदाव॒र्तः प्र॒जा ग्राहु॑क-स्स्या-थ्समु॒द्र-ङ्ग॑च्छ॒ स्वाहेत्या॑ह॒ रेत॑ [रेतः॑, ए॒व] 1

ए॒व त-द्द॑धात्य॒न्तरि॑क्ष-ङ्गच्छ॒ स्वाहेत्या॑हा॒-ऽन्तरि॑क्षेणै॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्य॒न्तरि॑क्ष॒ग्ग्॒ ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते दे॒वग्ं स॑वि॒तार॑-ङ्गच्छ॒ स्वाहेत्या॑ह सवि॒तृप्र॑सूत ए॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्य-होरा॒त्रे ग॑च्छ॒ स्वाहेत्या॑हा-होरा॒त्राभ्या॑-मे॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्य-होरा॒त्रे ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते मि॒त्रावरु॑णौ गच्छ॒ स्वाहे- [स्वाहा᳚, इत्या॑ह] 2

-त्या॑ह प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒ सोम॑-ङ्गच्छ॒ स्वाहेत्या॑ह सौ॒म्या हि दे॒वत॑या प्र॒जा य॒ज्ञ-ङ्ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व य॒ज्ञियाः᳚ करोति॒ छन्दाग्ं॑सि गच्छ॒ स्वाहेत्या॑ह प॒शवो॒ वै छन्दाग्ं॑सि प॒शूने॒वाव॑ रुन्धे॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑ गृह्णाति॒ नभो॑ [नभः॑, दि॒व्य-ङ्ग॑च्छ॒] 3

दि॒व्य-ङ्ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टि॒-न्निय॑च्छत्य॒ग्निं-वैँ᳚श्वान॒र-ङ्ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता अ॒स्या-म्प्रति॑ ष्ठापयति प्रा॒णानां॒-वाँ ए॒षो-ऽव॑ द्यति॒ यो॑-ऽव॒द्यति॑ गु॒दस्य॒ मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते प॒शोर्वा आल॑ब्धस्य॒ हृद॑य॒ग्ं॒ शुगृ॑च्छति॒ सा हृ॑दयशू॒ल- [हृ॑दयशू॒लम्, अ॒भि समे॑ति॒] 4

-म॒भि समे॑ति॒ य-त्पृ॑थि॒व्याग्ं हृ॑दयशू॒ल-मु॑द्वा॒सये᳚-त्पृथि॒वीग्ं शु॒चा-ऽर्प॑ये॒-द्यद॒फ्स्व॑प-श्शु॒चा-ऽर्प॑ये॒च्छुष्क॑स्य चा॒-ऽऽर्द्रस्य॑ च स॒न्धावुद्वा॑सयत्यु॒भय॑स्य॒ शान्त्यै॒ य-न्द्वि॒ष्या-त्त-न्ध्या॑ये-च्छु॒चैवैन॑-मर्पयति ॥ 5 ॥
(रेतो॑ – मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ – नभो॑ – हृदयशू॒लं – द्वात्रिग्ं॑शच्च) (अ. 1)

दे॒वा वै य॒ज्ञमाग्नी᳚द्ध्रे॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑ब्रुव॒न् वस॑तु॒ नु न॑ इ॒दमिति॒ त-द्व॑सती॒वरी॑णां-वँसती वरि॒त्व-न्तस्मि॑-न्प्रा॒तर्न सम॑शक्नुव॒-न्तद॒फ्सु प्रावे॑शय॒-न्ता व॑सती॒ वरी॑रभवन् वसती॒वरी᳚र्गृह्णाति य॒ज्ञो वै व॑सती॒ वरी᳚र्य॒ज्ञमे॒वा-ऽऽरभ्य॑ गृही॒त्वोप॑ वसति॒ यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒-दना॑रब्धो-ऽस्य य॒ज्ञ-स्स्या᳚- [य॒ज्ञ-स्स्या᳚त्, य॒ज्ञं-विँ] 6

-द्य॒ज्ञं-विँ च्छि॑न्द्या-ज्ज्योति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यं-वाँ ऽव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति॒ यो वा᳚ ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुम्भ्या॑ना-ङ्गृह्णीया॒-थ्स हि गृ॑ही॒त व॑सतीवरीको वसती॒वरी᳚र्गृह्णाति प॒शवो॒ वै व॑सती॒वरीः᳚ प॒शूने॒वा-ऽऽरभ्य॑ गृही॒त्वोप॑ वसति॒ यद॑न्वी॒प-न्तिष्ठ॑-न्गृह्णी॒यान्नि॒र्मार्गु॑का अस्मा-त्प॒शवः॑ स्युः प्रती॒प-न्तिष्ठ॑-न्गृह्णाति प्रति॒रुद्ध्यै॒वास्मै॑ प॒शू-न्गृ॑ह्णा॒तीन्द्रो॑ [प॒शू-न्गृ॑ह्णा॒तीन्द्रः॑, वृ॒त्र-] 7

वृ॒त्र-म॑ह॒न्-थ्सो᳚-ऽ(1॒)पो᳚-ऽ(1॒)भ्य॑म्रियत॒ तासां॒-यँन्मेद्ध्यं॑-यँ॒ज्ञिय॒ग्ं॒ सदे॑व॒मासी॒-त्तदत्य॑मुच्यत॒ ता वह॑न्तीरभव॒न् वह॑न्तीना-ङ्गृह्णाति॒ या ए॒व मेद्ध्या॑ य॒ज्ञिया॒-स्सदे॑वा॒ आप॒स्ता सा॑मे॒व गृ॑ह्णाति॒ नान्त॒मा वह॑न्ती॒रती॑या॒-द्यद॑न्त॒मा वह॑न्तीरती॒या-द्य॒ज्ञमति॑ मन्येत॒ न स्था॑व॒राणा᳚-ङ्गृह्णीया॒-द्वरु॑णगृहीता॒ वै स्था॑व॒रा य-थ्स्था॑व॒राणा᳚-ङ्गृह्णी॒या- [य-थ्स्था॑व॒राणा᳚-ङ्गृह्णी॒यात्, वरु॑णेनास्य] 8

-द्वरु॑णेनास्य य॒ज्ञ-ङ्ग्रा॑हये॒-द्यद्वै दिवा॒ भव॑त्य॒पो रात्रिः॒ प्र वि॑शति॒ तस्मा᳚-त्ता॒म्रा आपो॒ दिवा॑ ददृश्रे॒ यन्नक्त॒-म्भव॑त्य॒पो-ऽहः॒ प्र वि॑शति॒ तस्मा᳚च्च॒न्द्रा आपो॒ नक्त॑-न्ददृश्रे छा॒यायै॑ चा॒-ऽऽतप॑तश्च स॒धौ-ङ्गृ॑ह्णात्य-होरा॒त्रयो॑रे॒वास्मै॒ वर्ण॑-ङ्गृह्णाति ह॒विष्म॑तीरि॒मा आप॒ इत्या॑ह ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति ह॒विष्माग्ं॑ अस्तु॒- [अस्तु, सूर्य॒] 9

सूर्य॒ इत्या॑ह॒ सशु॑क्राणामे॒व गृ॑ह्णात्यनु॒ष्टुभा॑ गृह्णाति॒ वाग्वा अ॑नु॒ष्टुग् वा॒चैवैना॒-स्सर्व॑या गृह्णाति॒ चतु॑ष्पदय॒र्चा गृ॑ह्णाति॒ त्रि-स्सा॑दयति स॒प्त स-म्प॑द्यन्ते स॒प्तप॑दा॒ शक्व॑री प॒शव॒-श्शक्व॑री प॒शूने॒वाव॑ रुन्धे॒ ऽस्मै वै लो॒काय॒ गार्​ह॑पत्य॒ आ धी॑यते॒-ऽमुष्मा॑ आहव॒नीयो॒ य-द्गार्​ह॑पत्य उपसा॒दये॑द॒स्मि-​ल्लोँ॒के प॑शु॒मान्-थ्स्या॒-द्यदा॑हव॒नीये॒-ऽ-मुष्मि॑- [-मुष्मिन्न्॑, लो॒के प॑शु॒मान्​थ्स्या॑-] 10

​ल्लोँ॒के प॑शु॒मान्​थ्स्या॑-दु॒भयो॒रुप॑ सादयत्यु॒भयो॑रे॒वैनं॑-लोँ॒कयोः᳚ पशु॒मन्त॑-ङ्करोति स॒र्वतः॒ परि॑ हरति॒ रक्ष॑सा॒मप॑हत्या इन्द्राग्नि॒योर्भा॑ग॒धेयी॒-स्स्थेत्या॑ह यथाय॒जुरे॒वैतदाग्नी᳚द्ध्र॒ उप॑ वासयत्ये॒तद्वै य॒ज्ञस्याप॑राजितं॒-यँदाग्नी᳚द्ध्रं॒-यँदे॒व य॒ज्ञस्याप॑राजित॒-न्तदे॒वैना॒ उप॑ वासयति॒ यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञग्ं रक्षा॒ग्॒स्यव॑ चरन्ति॒ य-द्वह॑न्तीना-ङ्गृ॒ह्णाति॑ क्रि॒यमा॑णमे॒व त-द्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒-मन॑न्ववचाराय॒ न ह्ये॑ता ई॒लय॒न्त्या तृ॑तीयसव॒ना-त्परि॑ शेरे य॒ज्ञस्य॒ सन्त॑त्यै ॥ 11 ॥
(स्या॒ – दिन्द्रो॑ – गृह्णी॒या – द॑स्त्व॒ – मुष्मि॑न् – क्रि॒यते॒ – षड्विग्ं॑शतिश्च) (अ. 2)

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा अ॑द्ध्व॒र्यु-स्स्या॒द्य-स्सोम॑-मुपाव॒हर॒न्-थ्सर्वा᳚भ्यो दे॒वता᳚भ्य उपाव॒हरे॒-दिति॑ हृ॒दे त्वेत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति॒ मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒-र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ग्ं॒ सर्वा᳚भ्य उ॒पाव॑हरति पु॒रा वा॒चः [वा॒चः, प्रव॑दितोः] 12

प्रव॑दितोः प्रातरनुवा॒क-मु॒पाक॑रोति॒ याव॑त्ये॒व वा-क्ता-मव॑ रुन्धे॒ ऽपो-ऽग्रे॑-ऽभि॒व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञमे॒वाभि वाचं॒-विँसृ॑जति॒ सर्वा॑णि॒ छन्दा॒ग्॒स्यन्वा॑ह प॒शवो॒ वै छन्दाग्ं॑सि प॒शूने॒वाव॑ रुन्धे गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दद्ध्या-त्त्रि॒ष्टुभे᳚न्द्रि॒यका॑मस्य॒ जग॑त्या प॒शुका॑मस्या-ऽनु॒ष्टुभा᳚ प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य वि॒राजा-ऽन्न॑कामस्य शृ॒णोत्व॒ग्नि-स्स॒मिधा॒ हव॑- [हव᳚म्, म॒ इत्या॑ह] 13

-म्म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वता᳚भ्यो नि॒वेद्या॒-ऽपो-ऽच्छै᳚त्य॒प इ॑ष्य होत॒-रित्या॑हेषि॒तग्ं हि कर्म॑ क्रि॒यते॒ मैत्रा॑वरुणस्य चमसाद्ध्वर्य॒वा द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा अ॒पा-न्ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒ देवी॑रापो अपा-न्नपा॒-दित्या॒हा-ऽऽहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णा॒त्यथो॑ ह॒विष्कृ॑ताना-मे॒वाभिघृ॑ताना-ङ्गृह्णाति॒- [-मे॒वाभिघृ॑ताना-ङ्गृह्णाति, कार्​षि॑-र॒सीत्या॑ह॒] 14

कार्​षि॑-र॒सीत्या॑ह॒ शम॑लमे॒वा-ऽऽसा॒मप॑ प्लावयति समु॒द्रस्य॒ वो-ऽक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं-यँ॒ज्ञो व॑सती॒वरीर्॑. होतृचम॒स-ञ्च॑ मैत्रावरुणचम॒स-ञ्च॑ स॒ग्ग्॒स्पर्​श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वायाथो॒ स्वादे॒वैना॒ योनेः॒ प्र ज॑नयत्यद्ध्व॒र्यो-ऽवे॑र॒पा(3) इत्या॑हो॒ते -म॑नन्नमुरु॒तेमाः प॒श्येति॒ वावैतदा॑ह॒ यद्य॑ग्निष्टो॒मो जु॒होति॒ यद्यु॒क्थ्यः॑ परि॒धौ नि मा᳚र्​ष्टि॒ यद्य॑तिरा॒त्रो यजु॒र्वद॒-न्प्र प॑द्यते यज्ञक्रतू॒नां-व्याँवृ॑त्त्यै ॥ 15 ॥
(वा॒चो-हव॑-म॒भिघृ॑ताना-ङ्गृह्णात्यु॒ – त – पञ्च॑विग्ंशतिश्च) (अ. 3)

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ ग्रावा॑ण॒मा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚-म्पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॑ प॒शवो॒ वै सोमो᳚ व्या॒न उ॑पाग्ंशु॒सव॑नो॒ यदु॑पाग्ंशु॒सव॑न-म॒भि मिमी॑ते व्या॒नमे॒व प॒शुषु॑ दधा॒तीन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीत॒ इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ [मिमीते, पञ्चा᳚क्षरा] 16

पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णी-न्दश॒ स-म्प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे श्वा॒त्रा-स्स्थ॑ वृत्र॒तुर॒ इत्या॑है॒ष वा अ॒पाग्ं सो॑मपी॒थो य ए॒वं-वेँद॒ ना-ऽफ्स्वार्ति॒मार्च्छ॑ति॒ यत्ते॑ सोम दि॒वि ज्योति॒रित्या॑है॒भ्य ए॒वैन॑- [ए॒वैन᳚म्, लो॒केभ्य॒] 17

​ल्लोँ॒केभ्य॒-स्स-म्भ॑रति॒ सोमो॒ वै राजा॒ दिशो॒-ऽभ्य॑द्ध्याय॒-थ्स दिशो-ऽनु॒ प्रावि॑श॒-त्प्रागपा॒गुद॑गध॒रागित्या॑ह दि॒ग्भ्य ए॒वैन॒ग्ं॒ स-म्भ॑र॒त्यथो॒ दिश॑ ए॒वास्मा॒ अव॑ रु॒न्धे ऽम्ब॒ नि ष्व॒रेत्या॑ह॒ कामु॑का एन॒ग्ग्॒ स्त्रियो॑ भवन्ति॒ य ए॒वं-वेँद॒ य-त्ते॑ सो॒मादा᳚भ्य॒-न्नाम॒ जागृ॒वी- [जागृ॒वीति॑, आ॒है॒ष वै] 18

-त्या॑है॒ष वै सोम॑स्य सोमपी॒थो य ए॒वं-वेँद॒ न सौ॒म्यामार्ति॒मार्च्छ॑ति॒ घ्नन्ति॒ वा ए॒त-थ्सोमं॒-यँद॑भिषु॒ण्वन्त्य॒ग्ं॒ शूनप॑ गृह्णाति॒ त्राय॑त ए॒वैन॑-म्प्रा॒णा वा अ॒ग्ं॒शवः॑ प॒शव॒-स्सोमो॒ ऽग्ं॒शू-न्पुन॒रपि॑ सृजति प्रा॒णाने॒व प॒शुषु॑ दधाति॒ द्वौद्वा॒वपि॑ सृजति॒ तस्मा॒-द्द्वौद्वौ᳚ प्रा॒णाः ॥ 19 ॥
(यजु॑षा मिमीत – एनं॒ – जागृ॒वीति॒ – चतु॑श्चत्वारिग्ंशच्च) (अ. 4)

प्रा॒णो वा ए॒ष यदु॑पा॒ग्ं॒शु र्यदुपा॒ग्॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ प्रा॒णमे॒वानु॒ प्र य॑न्त्यरु॒णो ह॑ स्मा॒-ऽऽहौप॑वेशिः प्रातस्सव॒न ए॒वाहं-यँ॒ज्ञग्ं सग्ग्​ स्था॑पयामि॒ तेन॒ तत॒-स्सग्ग्​स्थि॑तेन चरा॒मीत्य॒ष्टौ कृत्वो-ऽग्रे॒-ऽभिषु॑णो-त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्र-म्प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒नमे॒व तेना᳚ ऽऽप्नो॒त्येका॑दश॒ कृत्वो᳚ द्वि॒तीय॒-मेका॑दशाक्षरा त्रि॒ष्टु-प्त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिन॒ग्ं॒- [-म्माद्ध्य॑न्दिनम्, सव॑न॒-] 20

-सव॑न॒-म्माद्ध्य॑न्दिनमे॒व सव॑न॒-न्तेना᳚-ऽऽप्नोति॒ द्वाद॑श॒ कृत्व॑स्तृ॒तीय॒-न्द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑त-न्तृतीयसव॒न-न्तृ॑तीयसव॒नमे॒व तेना᳚ ऽऽप्नोत्ये॒ताग्ं ह॒ वाव स य॒ज्ञस्य॒ सग्ग्​स्थि॑तिमुवा॒चा स्क॑न्दा॒यास्क॑न्न॒ग्ं॒ हि त-द्य-द्य॒ज्ञस्य॒ सग्ग्​स्थि॑तस्य॒ स्कन्द॒त्यथो॒ खल्वा॑हुर्गाय॒त्री वाव प्रा॑तस्सव॒ने नाति॒वाद॒ इत्यन॑तिवादुक एन॒-म्भ्रातृ॑व्यो भवति॒ य ए॒वं-वेँद॒ तस्मा॑-द॒ष्टाव॑ष्टौ॒ [-द॒ष्टाव॑ष्टौ, कृत्वो॑] 21

कृत्वो॑-ऽभि॒षुत्य॑-म्ब्रह्मवा॒दिनो॑ वदन्ति प॒वित्र॑वन्तो॒-ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ किम्प॑वित्र उपा॒ग्ं॒शुरिति॒ वाक्प॑वित्र॒ इति॑ ब्रूया-द्वा॒चस्पत॑ये पवस्व वाजि॒न्नित्या॑ह वा॒चैवैन॑-म्पवयति॒ वृष्णो॑ अ॒ग्ं॒शुभ्या॒मित्या॑ह॒ वृष्णो॒ ह्ये॑ताव॒ग्ं॒शू यौ सोम॑स्य॒ गभ॑स्तिपूत॒ इत्या॑ह॒ गभ॑स्तिना॒ ह्ये॑न-म्प॒वय॑ति दे॒वो दे॒वाना᳚-म्प॒वित्र॑म॒सीत्या॑ह दे॒वो ह्ये॑ष [ह्ये॑षः, स-न्दे॒वाना᳚-] 22

स-न्दे॒वाना᳚-म्प॒वित्रं॒-येँषा᳚-म्भा॒गो-ऽसि॒ तेभ्य॒स्त्वेत्या॑ह॒ येषा॒ग्॒ ह्ये॑ष भा॒गस्तेभ्य॑ एन-ङ्गृ॒ह्णाति॒ स्वा-ङ्कृ॑तो॒-ऽसीत्या॑ह प्रा॒णमे॒व स्वम॑कृत॒ मधु॑मतीर्न॒ इष॑स्कृ॒धीत्या॑ह॒ सर्व॑मे॒वास्मा॑ इ॒दग्ग्​ स्व॑दयति॒ विश्वे᳚भ्य-स्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्य॒ इत्या॑हो॒भये᳚ष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णा-न्द॑धाति॒ मन॑स्त्वा॒- [मन॑स्त्वा, अ॒ष्ट्वित्या॑ह॒] 23

-ऽष्ट्वित्या॑ह॒ मन॑ ए॒वाश्ञु॑त उ॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑हा-न्तरिक्षदेव॒त्यो॑ हि प्रा॒ण-स्स्वाहा᳚ त्वा सुभव॒-स्सूर्या॒येत्या॑ह प्रा॒णा वै स्वभ॑वसो दे॒वास्तेष्वे॒व प॒रोक्ष॑-ञ्जुहोति दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॒ इत्या॑हा ऽऽदि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पास्तेषा॒-न्त-द्भा॑ग॒धेय॒-न्ताने॒व तेन॑ प्रीणाति॒ यदि॑ का॒मये॑त॒ वर्​षु॑कः प॒र्जन्य॑- [प॒र्जन्यः॑, स्या॒दिति॒] 24

-स्स्या॒दिति॒ नीचा॒ हस्ते॑न॒ नि मृ॑ज्या॒-द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑र्​षुक-स्स्या॒दित्यु॑त्ता॒नेन॒ नि मृ॑ज्या॒-द्वृष्टि॑मे॒वो-द्य॑च्छति॒ यद्य॑भि॒चरे॑द॒मु-ञ्ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूया॒दाहु॑तिमे॒वैन॑-म्प्रे॒फ्सन्. ह॑न्ति॒ यदि॑ दू॒रे स्यादा तमि॑तोस्तिष्ठे-त्प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति॒ यद्य॑भि॒चरे॑द॒मुष्य॑- [यद्य॑भि॒चरे॑द॒मुष्य॑, त्वा॒ प्रा॒णे] 25

-त्वा प्रा॒णे सा॑दया॒मीति॑ सादये॒दस॑न्नो॒ वै प्रा॒णः प्रा॒णमे॒वास्य॑ सादयति ष॒ड्भिर॒ग्ं॒शुभिः॑ पवयति॒ ष-ड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑-म्पवयति॒ त्रिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑-लोँ॒कैः प॑वयति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚-थ्स॒त्या-त्त्रयः॑ पशू॒नाग्ं हस्ता॑दाना॒ इति॒ य-त्त्रिरु॑पा॒ग्ं॒ शुग्ं हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒-त्त्रयः॑ पशू॒नाग्ं हस्ता॑दानाः॒ पुरु॑षो ह॒स्ती म॒र्कटः॑ ॥ 26 ॥
(माध्य॑दिन्न – म॒ष्टाव॑ष्टा – वे॒ष – मन॑स्त्वा – प॒र्जन्यो॒ – ऽमुष्य॒ – पुरु॑षो॒ – द्वे च॑) (अ. 5)

दे॒वा वै य-द्य॒ज्ञे-ऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा उ॑पा॒ग्ं॒शौ य॒ज्ञग्ं स॒ग्ग्॒स्थाप्य॑मपश्य॒-न्तमु॑पा॒ग्ं॒शौ सम॑स्थापय॒-न्ते-ऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ ते दे॒वा बिभ्य॑त॒ इन्द्र॒मुपा॑धाव॒-न्तानिन्द्रो᳚-ऽन्तर्या॒मेणा॒न्तर॑धत्त॒ तद॑न्तर्या॒मस्या᳚न्तर्याम॒त्वं-यँद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्याने॒व त-द्यज॑मानो॒-ऽन्तर्ध॑त्ते॒ ऽन्तस्ते॑ [-ऽन्तर्ध॑त्ते॒ ऽन्तस्ते᳚, द॒धा॒मि॒ द्यावा॑पृथि॒वी] 27

दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒-र्व॑न्तरि॑क्ष॒-मित्या॑है॒भिरे॒व लो॒कैर्यज॑मानो॒ भ्रातृ॑व्यान॒न्तर्ध॑त्ते॒ ते दे॒वा अ॑मन्य॒न्तेन्द्रो॒ वा इ॒दम॑भू॒द्य-द्व॒यग्ग्​ स्म इति॒ ते᳚-ऽब्रुव॒-न्मघ॑व॒न्ननु॑ न॒ आ भ॒जेति॑ स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्य॑ब्रवी॒द्ये चै॒व दे॒वाः परे॒ ये चाव॑रे॒ तानु॒भया॑- [तानु॒भयान्॑, अ॒न्वाभ॑ज-थ्स॒जोषा॑] 28

-न॒न्वाभ॑ज-थ्स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्या॑ह॒ ये चै॒व दे॒वाः परे॒ ये चाव॑रे॒ तानु॒भया॑-न॒न्वाभ॑ज-त्यन्तर्या॒मे म॑घव-न्मादय॒स्वेत्या॑ह य॒ज्ञादे॒व यज॑मान॒-न्नान्तरे᳚त्युपया॒म-गृ॑हीतो॒ ऽसीत्या॑हापा॒नस्य॒ धृत्यै॒ यदु॒भाव॑पवि॒त्रौ गृ॒ह्येया॑ता-म्प्रा॒णम॑पा॒नो-ऽनु॒ न्यृ॑च्छे-त्प्र॒मायु॑क-स्स्या-त्प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते [गृ॑ह्यते, प्रा॒णा॒पा॒नयो॒-र्विधृ॑त्यै] 29

प्राणापा॒नयो॒-र्विधृ॑त्यै प्राणापा॒नौ वा ए॒तौ यदु॑पाग्​श्वन्तर्या॒मौ व्या॒न उ॑पाग्ंशु॒ सव॑नो॒ य-ङ्का॒मये॑त प्र॒मायु॑क-स्स्या॒दित्यसग्ग्॑ स्पृष्टौ॒ तस्य॑ सादये-द्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि च्छि॑नत्ति ता॒ज-क्प्र मी॑यते॒ य-ङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ सग्ग्​ स्पृ॑ष्टौ॒ तस्य॑ सादये-द्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ स-न्त॑नोति॒ सर्व॒मायु॑रेति ॥ 30 ॥
(त॒ – उ॒भया᳚न् – गृह्यते॒ – चतु॑श्चत्वारिग्ंशच्च) (अ. 6)

वाग्वा ए॒षा यदै᳚न्द्रवाय॒वो यदै᳚न्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ वाच॑मे॒वानु॒ प्र य॑न्ति वा॒यु-न्दे॒वा अ॑ब्रुव॒न्-थ्सोम॒ग्ं॒ राजा॑नग्ं हना॒मेति॒ सो᳚-ऽब्रवी॒-द्वरं॑-वृँणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॒ तस्मा॑दैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते॒ तम॑घ्न॒न्-थ्सो॑-ऽपूय॒-त्त-न्दे॒वा नोपा॑धृष्णुव॒-न्ते वा॒युम॑ब्रुव-न्नि॒म-न्नः॑ स्वद॒ये- [-न्नि॒म-न्नः॑ स्वदय, इति॒ सो᳚-ऽब्रवी॒-] 31

-ति॒ सो᳚-ऽब्रवी॒-द्वरं॑-वृँणै मद्देव॒त्या᳚न्ये॒व वः॒ पात्रा᳚ण्युच्यान्ता॒ इति॒ तस्मा᳚न्नानादेव॒त्या॑नि॒ सन्ति॑ वाय॒व्या᳚न्युच्यन्ते॒ तमे᳚भ्यो वा॒युरे॒वास्व॑दय॒-त्तस्मा॒द्य-त्पूय॑ति॒ त-त्प्र॑वा॒ते वि ष॑जन्ति वा॒युर्​हि तस्य॑ पवयि॒ता स्व॑दयि॒ता तस्य॑ वि॒ग्रह॑ण॒-न्नावि॑न्द॒न्-थ्सादि॑तिरब्रवी॒-द्वरं॑-वृँणा॒ अथ॒ मया॒ वि गृ॑ह्णीद्ध्व-म्मद्देव॒त्या॑ ए॒व व॒-स्सोमा᳚- [व॒-स्सोमाः᳚, स॒न्ना] 32

-स्स॒न्ना अ॑स॒-न्नित्यु॑पया॒मगृ॑हीतो॒-ऽसी-त्या॑हा-दितिदेव॒त्या᳚स्तेन॒ यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा᳚ण्य॒स्यै तानि॒ योने॒-स्सम्भू॑तानि॒ यानि॑ मृ॒न्मया॑नि सा॒क्षा-त्तान्य॒स्यै तस्मा॑दे॒वमा॑ह॒ वाग्वै परा॒च्य-व्या॑कृता-ऽवद॒-त्ते दे॒वा इन्द्र॑मब्रुवन्नि॒मा-न्नो॒ वाचं॒-व्याँकु॒र्विति॒ सो᳚-ऽब्रवी॒-द्वरं॑-वृँणै॒ मह्य॑-ञ्चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒व-स्स॒ह गृ॑ह्यते॒ तामिन्द्रो॑ मद्ध्य॒तो॑-ऽव॒क्रम्य॒ व्याक॑रो॒-त्तस्मा॑दि॒यं-व्याँकृ॑ता॒ वागु॑द्यते॒ तस्मा᳚-थ्स॒कृदिन्द्रा॑य मद्ध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे॒ द्वौ हि स वरा॒ववृ॑णीत ॥ 33 ॥
(स्व॒द॒य॒ – सोमाः᳚ – स॒हा – ष्टाविग्ं॑शतिश्च) (अ. 7)

मि॒त्र-न्दे॒वा अ॑ब्रुव॒न्-थ्सोम॒ग्ं॒ राजा॑नग्ं हना॒मेति॒ सो᳚-ऽब्रवी॒न्नाहग्ं सर्व॑स्य॒ वा अ॒ह-म्मि॒त्रम॒स्मीति॒ तम॑ब्रुव॒न्॒. हना॑मै॒वेति॒ सो᳚-ऽब्रवी॒-द्वरं॑-वृँणै॒ पय॑सै॒व मे॒ सोमग्ग्॑ श्रीण॒न्निति॒ तस्मा᳚-न्मैत्रावरु॒ण-म्पय॑सा श्रीणन्ति॒ तस्मा᳚-त्प॒शवो-ऽपा᳚क्राम-न्मि॒त्र-स्सन् क्रू॒रम॑क॒रिति॑ क्रू॒रमि॑व॒ खलु॒ वा ए॒ष [वा ए॒षः, क॒रो॒ति॒ य-स्सोमे॑न॒] 34

क॑रोति॒ य-स्सोमे॑न॒ यज॑ते॒ तस्मा᳚-त्प॒शवो-ऽप॑ क्रामन्ति॒ यन्मै᳚त्रावरु॒ण-म्पय॑सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्रग्ं स॑म॒र्धय॑ति प॒शुभि॒र्यज॑मान-म्पु॒रा खलु॒ वावैव-म्मि॒त्रो॑-ऽवे॒दप॒ म-त्क्रू॒र-ञ्च॒क्रुषः॑ प॒शवः॑ क्रमिष्य॒न्तीति॒ तस्मा॑दे॒वम॑वृणीत॒ वरु॑ण-न्दे॒वा अ॑ब्रुव॒-न्त्वया-ऽग्ं॑श॒भुवा॒ सोम॒ग्ं॒ राजा॑नग्ं हना॒मेति॒ सो᳚-ऽब्रवी॒-द्वरं॑-वृँणै॒ मह्य॑-ञ्चै॒- [मह्य॑-ञ्च, ए॒वैष मि॒त्राय॑] 35

-वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा᳚न्मैत्रावरु॒ण-स्स॒ह गृ॑ह्यते॒ तस्मा॒-द्राज्ञा॒ राजा॑नमग्ंश॒भुवा᳚ घ्नन्ति॒ वैश्ये॑न॒ वैश्यग्ं॑ शू॒द्रेण॑ शू॒द्र-न्न वा इ॒द-न्दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒-न्ते दे॒वा मि॒त्रावरु॑णावब्रुवन्नि॒द-न्नो॒ विवा॑सयत॒मिति॒ ताव॑ब्रूतां॒-वँरं॑-वृँणावहा॒ एक॑ ए॒वा-ऽऽव-त्पूर्वो॒ ग्रहो॑ गृह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः पूर्वो॑ मैत्रावरु॒णा-द्गृ॑ह्यते प्राणापा॒नौ ह्ये॑तौ यदु॑पाग्​-श्वन्तर्या॒मौ मि॒त्रो-ऽह॒रज॑नय॒-द्वरु॑णो॒ रात्रि॒-न्ततो॒ वा इ॒दं-व्यौँ᳚च्छ॒द्य-न्मै᳚त्रावरु॒णो गृ॒ह्यते॒ व्यु॑ष्ट्यै ॥ 36 ॥
(ए॒ष – चै᳚ – न्द्रवाय॒वो – द्वाविग्ं॑शतिश्च) (अ. 8)

य॒ज्ञस्य॒ शिरो᳚-ऽच्छिद्यत॒ ते दे॒वा अ॒श्विना॑वब्रुव-न्भि॒षजौ॒ वै स्थ॑ इ॒दं-यँ॒ज्ञस्य॒ शिरः॒ प्रति॑ धत्त॒मिति॒ ताव॑ब्रूतां॒-वँरं॑-वृँणावहै॒ ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॒ ताभ्या॑-मे॒तमा᳚श्वि॒न-म॑गृह्ण॒-न्ततो॒ वै तौ य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्तां॒-यँदा᳚श्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै॒ तौ दे॒वा अ॑ब्रुव॒न्नपू॑तौ॒ वा इ॒मौ म॑नुष्यच॒रौ [ ] 37

भि॒षजा॒विति॒ तस्मा᳚-द्ब्राह्म॒णेन॑ भेष॒ज-न्न का॒र्य॑मपू॑तो॒ ह्ये᳚(1॒)षो॑ ऽमे॒द्ध्यो यो भि॒षक्तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑-मे॒तमा᳚श्वि॒न-म॑गृह्ण॒-न्तस्मा᳚-द्बहिष्पवमा॒ने स्तु॒त आ᳚श्वि॒नो गृ॑ह्यते॒ तस्मा॑दे॒वं-विँ॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ प॒वित्रं॒-वैँ ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते॒ तयो᳚-ऽस्त्रे॒धा भैष॑ज्यं॒-विँ न्य॑दधुर॒ग्नौ तृती॑यम॒फ्सु तृती॑य-म्ब्राह्म॒णे तृती॑य॒-न्तस्मा॑दुदपा॒त्र- [तृती॑य॒-न्तस्मा॑दुदपा॒त्रम्, उ॒प॒नि॒धाय॑] 38

-मु॑पनि॒धाय॑ ब्राह्म॒ण-न्द॑क्षिण॒तो नि॒षाद्य॑ भेष॒ज-ङ्कु॑र्या॒-द्याव॑दे॒व भे॑ष॒ज-न्तेन॑ करोति स॒मर्धु॑कमस्य कृ॒त-म्भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚-थ्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते᳚ द्वि॒पात्रा॑ हूयन्त॒ इति॒ यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देको᳚-ऽन्तर॒तः प्रा॒णो द्वि॒पात्रा॑ हूयन्ते॒ तस्मा॒-द्द्वौद्वौ॑ ब॒हिष्टा᳚-त्प्रा॒णाः प्रा॒णा वा ए॒ते य-द्द्वि॑देव॒त्याः᳚ प॒शव॒ इडा॒ यदिडा॒-म्पूर्वा᳚-न्द्विदेव॒त्ये᳚भ्य उप॒ह्वये॑त [ ] 39

प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑क-स्स्या-द्द्विदेव॒त्या᳚-न्भक्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वा-ऽऽत्म-न्धि॒त्वा प॒शूनुप॑ ह्वयते॒ वाग्वा ऐ᳚न्द्रवाय॒वश्चक्षु॑-र्मैत्रावरु॒ण-श्श्रोत्र॑माश्वि॒नः पु॒रस्ता॑दैन्द्रवाय॒व-म्भ॑क्षयति॒ तस्मा᳚-त्पु॒रस्ता᳚-द्वा॒चा व॑दति पु॒रस्ता᳚न्मैत्रावरु॒ण-न्तस्मा᳚-त्पु॒रस्ता॒च्चक्षु॑षा पश्यति स॒र्वतः॑ परि॒हार॑माश्वि॒न-न्तस्मा᳚-थ्स॒र्वत॒-श्श्रोत्रे॑ण शृणोति प्रा॒णा वा ए॒ते य-द्द्वि॑देव॒त्या॑ [य-द्द्वि॑देव॒त्याः᳚, अरि॑क्तानि॒] 40

अरि॑क्तानि॒ पात्रा॑णि सादयति॒ तस्मा॒दरि॑क्ता अन्तर॒तः प्रा॒णा यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञग्ं रक्षा॒ग्॒स्यव॑ चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व त-द्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒ -मन॑न्ववचाराय॒ दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्यां-वँर्त॒न्याग्ं सा॑दयति वा॒च्ये॑व वाच॑-न्दधा॒त्या तृ॑तीयसव॒ना-त्परि॑ शेरे य॒ज्ञस्य॒ सन्त॑त्यै ॥ 41 ॥
(म॒नु॒ष्य॒च॒रा – वु॑दपा॒त्र – मु॑प॒ह्वये॑त – द्विदेव॒त्याः᳚ – षट्च॑त्वारिग्ंशच्च) (अ. 9)

बृह॒स्पति॑र्दे॒वाना᳚-म्पु॒रोहि॑त॒ आसी॒-च्छण्डा॒मर्का॒-वसु॑राणा॒-म्ब्रह्म॑ण् वन्तो दे॒वा आस॒-न्ब्रह्म॑ण् व॒न्तो-ऽसु॑रा॒स्ते᳚(1॒) ऽन्यो᳚-ऽन्य-न्नाश॑क्नुव-न्न॒भिभ॑वितु॒-न्ते दे॒वा-श्शण्डा॒मर्का॒-वुपा॑मन्त्रयन्त॒ ता व॑ब्रूतां॒-वँरं॑-वृँणावहै॒ ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒मिति॒ ताभ्या॑मे॒तौ शु॒क्राम॒न्थिना॑-वगृह्ण॒-न्ततो॑ दे॒वा अभ॑व॒-न्परा-ऽसु॑रा॒ यस्यै॒वं-विँ॒दुषः॑ शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ भ॑वत्या॒त्मना॒ परा᳚- [परा᳚, अ॒स्य॒ भ्रातृ॑व्यो] 42

-ऽस्य॒ भ्रातृ॑व्यो भवति॒ तौ दे॒वा अ॑प॒नुद्या॒-ऽऽत्मन॒ इन्द्रा॑याजुहवु॒-रप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द्य-न्द्वि॒ष्याद्यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते॒ स प्र॑थ॒म-स्सङ्कृ॑ति-र्वि॒श्वक॒र्मेत्ये॒वैना॑-वा॒त्मन॒ इन्द्रा॑या-जुहवु॒रिन्द्रो॒ ह्ये॑तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रद॒सौ वा आ॑दि॒त्य-श्शु॒क्रश्च॒न्द्रमा॑ म॒न्थ्य॑पि॒-गृह्य॒ प्राञ्चौ॒ नि- [प्राञ्चौ॒ निः, क्रा॒म॒त॒-स्तस्मा॒-] 43

-ष्क्रा॑मत॒-स्तस्मा॒-त्प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुत॒स्तस्मा᳚-त्प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यच्छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिर॒भितः॑ परि॒क्रम्य॑ जुहुत॒स्तस्मा॑द॒भितो॒ नासि॑का॒-ञ्चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते स॒र्वतः॒ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै दे॒वा वै याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒-न्ताग्​स्ताभिः॒ प्रा- [आस॒-न्ताग्​स्ताभिः॒ प्र, अ॒नु॒द॒न्त॒ याः] 44

-णु॑दन्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒-न्ताग्​स्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते᳚ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑ प॒श्चाच्चै॒व पु॒रस्ता᳚च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒-न्प्र णु॑दते॒ तस्मा॒-त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीची᳚र्जायन्ते शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाः प्र जा॑यन्ते॒-ऽत्त्रीश्चा॒द्या᳚श्च सु॒वीराः᳚ प्र॒जाः प्र॑ज॒नय॒-न्परी॑हि शु॒क्र-श्शु॒क्रशो॑चिषा [शु॒क्र-श्शु॒क्रशो॑चिषा, सु॒प्र॒जाः प्र॒जाः] 45

सुप्र॒जाः प्र॒जाः प्र॑ज॒नय॒-न्परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑है॒ता वै सु॒वीरा॒ या अ॒त्त्रीरे॒ता-स्सु॑प्र॒जा या आ॒द्या॑ य ए॒वं-वेँदा॒त्र्य॑स्य प्र॒जा जा॑यते॒ ना-ऽऽद्या᳚ प्र॒जाप॑ते॒रक्ष्य॑श्वय॒-त्त-त्परा॑-ऽऽपत॒-त्त-द्विक॑ङ्कत॒-म्प्रावि॑श॒-त्त-द्विक॑ङ्कते॒ नार॑मत॒ त-द्यव॒-म्प्रावि॑श॒-त्त-द्यवे॑-ऽरमत॒ त-द्यव॑स्य- [त-द्यव॑स्य, य॒व॒त्वं-यँ-द्वैक॑ङ्कत-] 46

यव॒त्वं-यँ-द्वैक॑ङ्कत-म्मन्थिपा॒त्र-म्भव॑ति॒ सक्तु॑भि-श्श्री॒णाति॑ प्र॒जाप॑तेरे॒व तच्चक्षु॒-स्स-म्भ॑रति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚-थ्स॒त्यान्म॑न्थिपा॒त्रग्ं सदो॒ नाश्ञु॑त॒ इत्या᳚र्तपा॒त्रग्ं हीति॑ ब्रूया॒-द्यद॑श्ञुवी॒तान्धो᳚-ऽद्ध्व॒र्यु-स्स्या॒दार्ति॒मार्च्छे॒-त्तस्मा॒न्नाश्ञु॑ते ॥ 47 ॥
(आ॒त्मना॒ परा॒ – नि – ष्प्र – शु॒क्रशो॑चिषा॒ – यव॑स्य – स॒प्तत्रिग्ं॑शच्च) (अ. 10)

दे॒वा वै य-द्य॒ज्ञे-ऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा आ᳚ग्रय॒णाग्रा॒-न्ग्रहा॑नपश्य॒-न्तान॑गृह्णत॒ ततो॒ वै ते-ऽग्र॒-म्पर्या॑य॒न्॒. यस्यै॒वं-विँ॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते-ऽग्र॑मे॒व स॑मा॒नाना॒-म्पर्ये॑ति रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीया॒-द्भ्रातृ॑व्यस्यै॒व रु॒क्त्वा-ऽग्रग्ं॑ समा॒नाना॒-म्पर्ये॑ति॒ ये दे॑वा दि॒व्येका॑दश॒ स्थेत्या॑है॒- [स्थेत्या॑ह, ए॒ताव॑ती॒र्वै] 48

-ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ग्ं॒ सर्वा᳚भ्यो गृह्णात्ये॒ष ते॒ योनि॒ र्विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑ष दे॒वत॑या॒ वाग्वै दे॒वेभ्यो-ऽपा᳚क्राम-द्य॒ज्ञायाति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्ताया-न्तू॒ष्णी-ङ्ग्रहा॑नगृह्णत॒ साम॑न्यत॒ वाग॒न्तर्य॑न्ति॒ वै मेति॒ सा-ऽऽग्र॑य॒ण-म्प्रत्याग॑च्छ॒-त्तदा᳚ग्रय॒णस्या᳚-ऽऽग्रयण॒त्व- [-ऽऽग्रयण॒त्वम्, तस्मा॑दाग्रय॒णे] 49

-न्तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते॒ य-त्तू॒ष्णी-म्पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा᳚थ्सा॒रीय॑ति म॒ आख॒ इय॑ति॒ नाप॑ राथ्स्या॒-मीत्यु॑पावसृ॒जत्ये॒वमे॒व तद॑द्ध्व॒र्युरा᳚ग्रय॒ण-ङ्गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचं॒-विँ सृ॑जते॒ त्रिर्​हि-ङ्क॑रोत्युद्गा॒तॄ-ने॒व त-द्वृ॑णीते प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णो यदा᳚ग्रय॒ण-ङ्गृ॑ही॒त्वा हि॑-ङ्क॒रोति॑ प्र॒जाप॑तिरे॒व [ ] 50

त-त्प्र॒जा अ॒भि जि॑घ्रति॒ तस्मा᳚-द्व॒थ्स-ञ्जा॒त-ङ्गौर॒भि जि॑घ्रत्या॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा᳚ग्रय॒ण-स्सव॑नेसवने॒-ऽभि गृ॑ह्णात्या॒त्मन्ने॒व य॒ज्ञग्ं स-न्त॑नोत्यु॒परि॑ष्टा॒दा न॑यति॒ रेत॑ ए॒व त-द्द॑धात्य॒धस्ता॒दुप॑ गृह्णाति॒ प्र ज॑नयत्ये॒व तद्ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚-थ्स॒त्या-द्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साग्ं स॒ती सर्वा॑णि॒ सव॑नानि वह॒तीत्ये॒ष वै गा॑यत्रि॒यै व॒थ्सो यदा᳚ग्रय॒णस्तमे॒व तद॑भिनि॒वर्त॒ग्ं॒ सर्वा॑णि॒ सव॑नानि वहति॒ तस्मा᳚-द्व॒थ्सम॒पाकृ॑त॒-ङ्गौर॒भि नि व॑र्तते ॥ 51 ॥
(आ॒हा॒-ऽऽ – ग्र॒य॒ण॒त्वं – प्र॒जाप॑तिरे॒वे – ति॑ – विग्ंश॒तिश्च॑) (अ. 11)

(य॒ज्ञेन॒ ता उ॑प॒यड्भि॑ – र्दे॒वा वै य॒ज्ञमाग्नी᳚ध्रे – ब्रह्मवा॒दिन॒-स्स त्वै – दे॒वस्य॒ ग्रावा॑णं – प्रा॒णो वा उ॑पा॒ग्॒श्व॑ग्रा – दे॒वा वा उ॑पा॒ग्ं॒शौ – वाग्वै – मि॒त्रं – ​यँ॒ज्ञस्य॒ – बृह॒स्पति॑ – र्दे॒वा वा आ᳚ग्रय॒णाग्रा॒ – नेका॑दश)

(य॒ज्ञेन॑ – लो॒के प॑शु॒मान्-थ्स्या॒थ् – सव॑न॒-म्माध्य॑न्दिनं॒ – ​वाँग्वा – अरि॑क्तानि॒ – त-त्प्र॒जा – एक॑पञ्चा॒शत्)

(य॒ज्ञेन॒, नि व॑र्तते)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे चतुर्थः प्रश्न-स्समाप्तः ॥