नारायणीयं दशक 55
अथ वारिणि घोरतरं फणिनंप्रतिवारयितुं कृतधीर्भगवन् ।द्रुतमारिथ तीरगनीपतरुंविषमारुतशोषितपर्णचयम् ॥1॥ अधिरुह्य पदाम्बुरुहेण च तंनवपल्लवतुल्यमनोज्ञरुचा ।ह्रदवारिणि दूरतरं न्यपतःपरिघूर्णितघोरतरङ्ग्गणे ॥2॥ भुवनत्रयभारभृतो भवतोगुरुभारविकम्पिविजृम्भिजला ।परिमज्जयति स्म धनुश्शतकंतटिनी झटिति स्फुटघोषवती ॥3॥ अथ दिक्षु विदिक्षु परिक्षुभित-भ्रमितोदरवारिनिनादभरैः ।उदकादुदगादुरगाधिपति-स्त्वदुपान्तमशान्तरुषाऽन्धमनाः ॥4॥…
Read more