नारायणीयं दशक 45

अयि सबल मुरारे पाणिजानुप्रचारैःकिमपि भवनभागान् भूषयन्तौ भवन्तौ ।चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जा-श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥1॥ मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौवदनपतितकेशौ दृश्यपादाब्जदेशौ ।भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौमतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥2॥ अनुसरति जनौघे कौतुकव्याकुलाक्षेकिमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।वलितवदनपद्मं पृष्ठतो दत्तदृष्टीकिमिव न विदधाथे…

Read more

नारायणीयं दशक 44

गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।हृद्गतहोरातत्त्वो गर्गमुनिस्त्वत् गृहं विभो गतवान् ॥1॥ नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् ।मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥2॥ यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् ।गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि…

Read more

नारायणीयं दशक 43

त्वामेकदा गुरुमरुत्पुरनाथ वोढुंगाढाधिरूढगरिमाणमपारयन्ती ।माता निधाय शयने किमिदं बतेतिध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥1॥ तावद्विदूरमुपकर्णितघोरघोष-व्याजृम्भिपांसुपटलीपरिपूरिताशः ।वात्यावपुस्स किल दैत्यवरस्तृणाव-र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥2॥ उद्दामपांसुतिमिराहतदृष्टिपातेद्रष्टुं किमप्यकुशले पशुपाललोके ।हा बालकस्य किमिति त्वदुपान्तमाप्तामाता भवन्तमविलोक्य भृशं रुरोद ॥3॥…

Read more

नारायणीयं दशक 42

कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा ।महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥1॥ ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥2॥ ततस्तदाकर्णनसम्भ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः ।भवन्तमन्तर्ददृशुस्समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥3॥ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः…

Read more

नारायणीयं दशक 41

व्रजेश्वरैः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्वाम् ॥1॥ निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥2॥ त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः ।शङ्कामधादागरवः किमेष किं चान्दनो गौल्गुलवोऽथवेति…

Read more

नारायणीयं दशक 40

तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम्।समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यमः ॥1॥ अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥2॥ इह च सन्त्यनिमित्तशतानि ते कटकसीम्नि ततो लघु…

Read more

नारायणीयं दशक 39

भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।अहो सलिलसञ्चयः स पुनरैन्द्रजालोदितोजलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥1॥ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-मपावृतकवाटिकां पशुपवाटिकामाविशन् ।भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा-द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥2॥ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्-भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा-डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम्…

Read more

नारायणीयं दशक 38

आनन्दरूप भगवन्नयि तेऽवतारेप्राप्ते प्रदीप्तभवदङ्गनिरीयमाणैः ।कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-मावृण्वती विरुरुचे किल वर्षवेला ॥1॥ आशासु शीतलतरासु पयोदतोयै-राशासिताप्तिविवशेषु च सज्जनेषु ।नैशाकरोदयविधौ निशि मध्यमायांक्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥2॥ बाल्यस्पृशाऽपि वपुषा दधुषा विभूती-रुद्यत्किरीटकटकाङ्गदहारभासा ।शङ्खारिवारिजगदापरिभासितेनमेघासितेन परिलेसिथ सूतिगेहे ॥3॥ वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी-मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।तन्मन्दिरस्य…

Read more

नारायणीयं दशक 37

सान्द्रानन्दतनो हरे ननु पुरा दैवासुरे सङ्गरेत्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् ।तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिताभूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥1॥ हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका-मेतां पालय हन्त…

Read more

नारायणीयं दशक 36

अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधोजातः शिष्यनिबन्धतन्द्रितमनाः स्वस्थश्चरन् कान्तया ।दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा-नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥1॥ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतंब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम्…

Read more