नारायणीयं दशक 35

नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुन्दुभेः कायमुच्चैःक्षिप्त्वाङ्गुष्ठेन भूयो लुलुविथ युगपत् पत्रिणा सप्त सालान् ।हत्वा सुग्रीवघातोद्यतमतुलबलं बालिनं व्याजवृत्त्यावर्षावेलामनैषीर्विरहतरलितस्त्वं मतङ्गाश्रमान्ते ॥1॥ सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता-मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् ।सन्देशं चाङ्गुलीयं पवनसुतकरे प्रादिशो…

Read more

नारायणीयं दशक 34

गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गेपुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातोरामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥1॥ कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातोयातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः ।नृणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वालब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥2॥…

Read more

नारायणीयं दशक 33

वैवस्वताख्यमनुपुत्रनभागजात-नाभागनामकनरेन्द्रसुतोऽम्बरीषः ।सप्तार्णवावृतमहीदयितोऽपि रेमेत्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥1॥ त्वत्प्रीतये सकलमेव वितन्वतोऽस्यभक्त्यैव देव नचिरादभृथाः प्रसादम् ।येनास्य याचनमृतेऽप्यभिरक्षणार्थंचक्रं भवान् प्रविततार सहस्रधारम् ॥2॥ स द्वादशीव्रतमथो भवदर्चनार्थंवर्षं दधौ मधुवने यमुनोपकण्ठे ।पत्न्या समं सुमनसा महतीं वितन्वन्पूजां…

Read more

नारायणीयं दशक 32

पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥1॥ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥2॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽम्बुपात्रेण मुनिः स्वगेहम् ।स्वल्पैरहोभिः कलशीं च कूपं वापीं…

Read more

नारायणीयं दशक 31

प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथाऽपित्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद ।मत्तः किं ते समभिलषितं विप्रसूनो वद त्वंवित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥1॥ तामीक्षणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ-प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वंसर्वं देहीति…

Read more

नारायणीयं दशक 30

शक्रेण संयति हतोऽपि बलिर्महात्माशुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।विक्रान्तिमान् भयनिलीनसुरां त्रिलोकींचक्रे वशे स तव चक्रमुखादभीतः ॥1॥ पुत्रार्तिदर्शनवशाददितिर्विषण्णातं काश्यपं निजपतिं शरणं प्रपन्ना ।त्वत्पूजनं तदुदितं हि पयोव्रताख्यंसा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥2॥ तस्यावधौ त्वयि निलीनमतेरमुष्याःश्यामश्चतुर्भुजवपुः स्वयमाविरासीः…

Read more

नारायणीयं दशक 29

उद्गच्छतस्तव करादमृतं हरत्सुदैत्येषु तानशरणाननुनीय देवान् ।सद्यस्तिरोदधिथ देव भवत्प्रभावा-दुद्यत्स्वयूथ्यकलहा दितिजा बभूवुः ॥1॥ श्यामां रुचाऽपि वयसाऽपि तनुं तदानींप्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् ।पीयूषकुम्भकलहं परिमुच्य सर्वेतृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥2॥ का त्वं मृगाक्षि विभजस्व सुधामिमामि-त्यारूढरागविवशानभियाचतोऽमून् ।विश्वस्यते मयि…

Read more

नारायणीयं दशक 28

गरलं तरलानलं पुरस्ता-ज्जलधेरुद्विजगाल कालकूटम् ।अमरस्तुतिवादमोदनिघ्नोगिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥ विमथत्सु सुरासुरेषु जातासुरभिस्तामृषिषु न्यधास्त्रिधामन् ।हयरत्नमभूदथेभरत्नंद्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥ जगदीश भवत्परा तदानींकमनीया कमला बभूव देवी ।अमलामवलोक्य यां विलोलःसकलोऽपि स्पृहयाम्बभूव लोकः ॥3॥ त्वयि दत्तहृदे तदैव…

Read more

नारायणीयं दशक 27

दर्वासास्सुरवनिताप्तदिव्यमाल्यंशक्राय स्वयमुपदाय तत्र भूयः ।नागेन्द्रप्रतिमृदिते शशाप शक्रंका क्षान्तिस्त्वदितरदेवतांशजानाम् ॥1॥ शापेन प्रथितजरेऽथ निर्जरेन्द्रेदेवेष्वप्यसुरजितेषु निष्प्रभेषु ।शर्वाद्याः कमलजमेत्य सर्वदेवानिर्वाणप्रभव समं भवन्तमापुः ॥2॥ ब्रह्माद्यैः स्तुतमहिमा चिरं तदानींप्रादुष्षन् वरद पुरः परेण धाम्ना ।हे देवा दितिजकुलैर्विधाय…

Read more

नारायणीयं दशक 26

इन्द्रद्युम्नः पाण्ड्यखण्डाधिराज-स्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् ।त्वत् सेवायां मग्नधीरालुलोकेनैवागस्त्यं प्राप्तमातिथ्यकामम् ॥1॥ कुम्भोद्भूतिः सम्भृतक्रोधभारःस्तब्धात्मा त्वं हस्तिभूयं भजेति ।शप्त्वाऽथैनं प्रत्यगात् सोऽपि लेभेहस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥2॥ दग्धाम्भोधेर्मध्यभाजि त्रिकूटेक्रीडञ्छैले यूथपोऽयं वशाभिः ।सर्वान् जन्तूनत्यवर्तिष्ट शक्त्यात्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥3॥…

Read more