शिवानन्द लहरि
कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः–फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन–र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ 1 ॥ गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजोदलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् ।दिशन्ती संसारभ्रमणपरितापोपशमनंवसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ 2 ॥ त्रयीवेद्यं हृद्यं…
Read more