धन्याष्टकम्

(प्रहर्षणीवृत्तम् -)तज्ज्ञानं प्रशमकरं यदिन्द्रियाणांतज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम् ।ते धन्या भुवि परमार्थनिश्चितेहाःशेषास्तु भ्रमनिलये परिभ्रमन्तः ॥ 1॥ (वसन्ततिलकावृत्तम् -)आदौ विजित्य विषयान्मदमोहराग-द्वेषादिशत्रुगणमाहृतयोगराज्याः ।ज्ञात्वा मतं समनुभूयपरात्मविद्या-कान्तासुखं वनगृहे विचरन्ति धन्याः ॥ 2॥ त्यक्त्वा गृहे रतिमधोगतिहेतुभूताम्आत्मेच्छयोपनिषदर्थरसं पिबन्तः…

Read more

वेदान्त डिण्डिमः

वेदान्तडिण्डिमास्तत्वमेकमुद्धोषयन्ति यत् ।आस्तां पुरस्तान्तत्तेजो दक्षिणामूर्तिसञ्ज्ञितम् ॥ 1 आत्माऽनात्मा पदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ ।ब्रह्मेवाऽऽत्मान देहादिरिति वेदान्तडिण्डिमः ॥ 2 ज्ञानाऽज्ञाने पदार्थों द्वावात्मनो बन्धमुक्तिदौ ।ज्ञानान्मुक्ति निर्बन्धोऽन्यदिति वेदान्तडिण्डिमः ॥ 3 ज्ञातृ ज्ञेयं पदार्थौ द्वौ भास्य…

Read more

मनीषा पञ्चकम्

सत्याचार्यस्य गमने कदाचिन्मुक्ति दायकम् ।काशीक्शेत्रं प्रति सह गौर्या मार्गे तु श्ङ्करम् ॥ (अनुष्टुप्) अन्त्यवेषधरं दृष्ट्वा गच्छ गच्छेति चाब्रवीत् ।शङ्करःसोऽपि चाण्डलस्तं पुनः प्राह श्ङ्करम् ॥ (अनुष्टुप्) अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् ।यतिवर दूरीकर्तुं…

Read more

शत रुद्रीयम्

व्यास उवाच प्रजा पतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ 1 ईशानां वरदं पार्थ दृष्णवानसि शङ्करम् ।तं गच्च शरणं देवं वरदं भवनेश्वरम् ॥ 2 महादेवं महात्मान मीशानं…

Read more

ब्रह्मज्ञानावलीमाला

सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् ।ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ 1॥ असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः ।सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ॥ 2॥ नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः ।भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः ॥ 3॥ नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते ।परमानन्दरूपोऽहमहमेवाहमव्ययः ॥ 4॥ शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च ।अखण्डानन्दरूपोऽहमहमेवाहमव्ययः ॥…

Read more

विवेक चूडामणि

सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ 1॥ जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रतातस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिःमुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ 2॥ (पाठभेदः – शतकोटिजन्मसु कृतैः) दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम्…

Read more

अष्टावक्र गीता विंशतितमोऽध्यायः

जनक उवाच ॥ क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः ।क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरञ्जने ॥ 20-1॥ क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः ।क्व तृप्तिः…

Read more

अष्टावक्र गीता नवदशोऽध्यायः

जनक उवाच ॥ तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् ।नानाविधपरामर्शशल्योद्धारः कृतो मया ॥ 19-1॥ क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे ॥ 19-2॥…

Read more

अष्टावक्र गीता अष्टादशोऽध्यायः

अष्टावक्र उवाच ॥ यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः ।तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥ 18-1॥ अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् ।न हि सर्वपरित्यागमन्तरेण सुखी भवेत् ॥ 18-2॥ कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः ।कुतः प्रशमपीयूषधारासारमृते सुखम्…

Read more

अष्टावक्र गीता सप्तदशोऽध्यायः

अष्टावक्र उवाच ॥ तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा ।तृप्तः स्वच्छेन्द्रियो नित्यमेकाकी रमते तु यः ॥ 17-1॥ न कदाचिज्जगत्यस्मिन् तत्त्वज्ञो हन्त खिद्यति ।यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम् ॥ 17-2॥ न जातु…

Read more