हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनींकारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् ।कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलांफालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ 1 ॥ गन्धसारघनसारचारुनवनागवल्लिरसवासिनींसान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरींइन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ 2 ॥ स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलांहारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकांमारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥ 3 ॥ भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकांवारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् ।वारिसारवहकुण्डलां गगनशेखरीं च…
Read more